जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 136, कुल 588 में से
संदर्भ में पढ़ें११० सटीकजातकपारिजाते-
से दृष्ट हो तो बालककी मृत्यु २८ वें वर्षमें होती है ॥ ६३ ॥
अथ २९ वर्षे मृत्युः ।
चन्द्रो मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ॥
एकोनत्रिंशके वर्षे जातो यमपुरं व्रजेत् ॥ ६४ ॥
चन्द्रो मन्दस्य = शनैश्चरस्य सहायः = सम्बन्धी ( स्थानसम्बन्धी वा दृष्टिसम्बन्धी )
तु=तथा सूर्यश्चाष्टमे = लग्नादष्टमभावे संस्थितो भवेत्तदा जात एकोनत्रिंशके ( २९ ) वर्षे
यमपुरं=यमालयं व्रजेदर्थान्प्रियते ॥ ६४ ॥
चन्द्रमा शनिका सहायक हो सूर्य अष्टममें स्थित हो तो जातक २९ वें वर्षमें यमपुरकी
यात्रा करे, याने मरे ॥ ६४ ॥
अथ २७ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ॥
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥ ६५ ॥
निशानाथे=चन्द्रे जन्मरन्ध्रपयोर्जन्मरा-
शिपत्यष्टमभावेशयोर्मध्ये भवति सति इह-
मुक्तं भवति । चन्द्राज्जन्मरन्ध्रेशयोरेको द्वाद-
शेऽपरो द्वितीये भवेत्, तथा गुरौ व्यये=लग्नात्
द्वादशे भावे विद्यमाने जातस्य सप्तविंशति-
( २७ ) वर्षे वा त्रिंशद्वयसि ( ३० वर्षे )
मृतिर्भवति ॥ ६५ ॥
[कुण्डली १ :]
- लग्न (३)
- द्वितीय (४)
- तृतीय (५ बु.)
- चतुर्थ (चं. ६)
- पञ्चम (७ श.)
- षष्ठ (८)
- सप्तम (९)
- अष्टम (१०)
- नवम (११)
- दशम (१२)
- एकादश (१)
- द्वादश (२ बृ.)
जन्मपति और अष्टमेशके मध्यमें चन्द्र-
मा हो और बृहस्पति १२वें हो तो २७वें वर्ष वा ३०वर्षकी उमरमें बालककी मृत्यु हो ॥६५॥
अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ॥
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥ ६६ ॥
क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ॥
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥ ६७ ॥
सरलार्थः ॥ ६६ ॥
अथ क्षीणे=कृष्णपक्षीये शशाङ्के = चन्द्रे
यदि पापग्रहेण युक्ते, रन्ध्राधिपेऽष्टमेशे केन्द्रे
( १।४।७।१० ) गते वाऽष्टमे गते, तथा
विलग्ने = जन्मलग्ने पापान्विते = पापग्रहयुक्ते
हीनबले च जातको द्वात्रिंशदब्दे निधन =
मरणं प्रयाति ।
[कुण्डली २ :]
- लग्न (६ रा.)
- द्वितीय (७)
- तृतीय (८)
- चतुर्थ (९ मं.)
- पञ्चम (१०)
- षष्ठ (११ चं. श.)
- सप्तम (१२ बु. र.)
- अष्टम (१)
- नवम (२)
- दशम (३)
- एकादश (४)
- द्वादश (५)
उदाहृते चक्रे ( मं० बु० ) अनेन प्रथमो
योगः । ( चं०श०रा०मं० ) अनेन द्वितीयो
योगो विचारणीयः ॥ ६७ ॥
अष्टमेश केन्द्रमें हो और लग्नेश बलसे रहित हो तो जातक ३० वर्ष की आयुवाला हो
और ३२ वें वर्ष में मृत्यु पावै ॥ ६६ ॥
यदि क्षीण चन्द्रमा पापग्रहसे युक्त हो, अष्टमेश केन्द्रमें वा अष्टममें हो, लग्नमें पापग्रह
हो और लग्न निर्बल हो तो वह बालक ३२ वें वर्षमें मरे ॥ ६७ ॥