जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 148, कुल 588 में से
संदर्भ में पढ़ें१२२ सटीकजातकपारिजाते-
शन्यादिभौमपर्यन्तं = शनिमारभ्य कुजावधिकाः खेचराः = ग्रहा लग्नादौ = लग्नादिभावे
स्थितास्तथा सन्तो वैशेषिकांशसंयुक्ताः = दशवर्गे तत्कालविचारेण द्वित्र्यादिस्ववर्गे वर्तमानाः
(अ० १ श्लो० ४४-४७) चेद् भवेयुस्तदा जातोऽमरसन्निभः = देवतुल्यो भवेत् ॥ १०१॥
त्रिकोणमें पापग्रह न हों और केन्द्रमें शुभग्रह न हों अष्टमभाव पापग्रहसे रहित हो ऐसे
योगमें उत्पन्न जातक देवताके सदृश होता है ॥ १०० ॥
लग्नादि भावोंमें शनिसे लेकर मंगल पर्यन्त ग्रह स्थित होकर अपने २ वैशेषिकांशके हों
तो जातक देवता के तुल्य होवे ॥ १०१ ॥
अथ असङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥ १०२ ॥
इदानीमसङ्ख्यायुर्योग उच्यते । मेषान्त्यलग्ने = मेषराशेरन्तिमो भागो लग्नं भवेत्तस्मिन्
सगुरौ वा भृगौ = बृहस्पतिर्वा शुक्नो गतो भवति, निशाकरे = चन्द्रे, गोगृहमध्यमांशो = वृषरा-
शेर्मध्यमे (५) नवांशे विद्यमाने, तथा धराजे = भौमे सिंहासनांशे = स्वकीयपञ्चवर्गे स्थिते
जातस्तु मन्त्रैः = मन्त्रादीनामनुष्ठानैरसङ्ख्यातं = सङ्ख्यारहितमायुरुपैति । उक्तयोगे जातो नरो
मान्त्रिको भवति तथा मन्त्रादीनां जपादिवलेनातिदीर्घजीवित्वमाप्नोतीति भावः ॥ १०२ ॥
मेषका अन्त्यलग्न गुरु या शुक्रसे युत हो और चन्द्रमा वृषके मध्य नवांशमें हो मंगल
अपने सिंहासनांशमें हो तो जातक मन्त्रबलसे असंख्यायु होवे ॥ १०२ ॥
अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥ १०३ ॥
इदानीं मुनित्वप्राप्तियोग उच्यते । यस्य जन्मकाले मन्दो देवलोकांशके = स्वसप्तवर्गे,
भौमः पारावतांशके = स्वकीयषड्वर्गे, गुरुः सिंहासने = स्वकीयपञ्चवर्गे लग्ने च भवेत्स जातो
मुनिसमो भवेत् ॥ १०३ ॥
शनि देवलोकांशमें हो मंगल पारावतांशमें हो और गुरु सिंहासनांशका लग्नमें हो तो
जातक मुनिके सदृश होवे ॥ १०३ ॥
अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥ १०४ ॥
गुरौ केन्द्रे वर्त्तमाने गोपुरांशे = स्वकीयचतुर्वर्गे च प्राप्ते, शुक्रे त्रिकोणे ( ९।५ )
गते पारावतांशके स्वषड्वर्गे प्राप्ते, कर्कराशौ लग्ने च जातो नरो यः स तु युगान्तं
यावज्जीवति ॥ १०४ ॥
गुरु गोपुरांशका होकर केन्द्रमें हो, शुक्र पारावतांशमें त्रिकोणमें हो, कर्क लग्न हो तो
वह युगान्त पर्यन्त जीवित रहता है ॥ १०४ ॥
अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥ १०५ ॥
लग्ने सेज्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम् ॥ १०६ ॥
यस्य जन्मकाले कर्कराशिलग्नं स्यात्तस्मिन्धनुराशेर्नवांशो भवेत्तथा तत्र बृहस्पतिः
स्थितो भवेत् त्रयो वा चत्वारो ग्रहाः केन्द्रे भवेयुः तदा स जातो ब्रह्मपदं = ब्रह्मसायुज्यं