जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 143, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥ ४ ॥ ११७
शन्यंशे लग्नेशे निधनेशसमन्विते निशानाथे ।
षष्ठेऽष्टमे व्यये वा जीवे जातोऽष्टपञ्चाशत् (५८) ॥
षष्ठाष्टमव्ययगतैर्महैः समस्तैर्नृपालयोगे च । अस्मिन् योगे जातः परमायुश्चाष्टपञ्चाशत् ॥५८॥
यस्य केन्द्रे पापयुक्ते लग्ने क्रूरविवर्जिते । षष्टिशतं परं नास्ति पापैः पञ्चमसंस्थितैः ॥
लग्नेशे व्ययसंस्थे च क्षीणे पापयुतेऽपि वा । षष्टिवर्षात्परं नास्ति न लग्ने च बृहस्पतिः ॥
लग्नाधीशामृत्युषष्ठव्ययस्थाः पापाः सन्तो नैधनं वर्ज्यसंख्याः ।
अस्मिन् योगे जायते यो मनुष्यस्तस्यायुः स्यात् षष्टिवर्षं ६० प्रदिष्टम् ॥
सौरे विलग्ने, हिबुके शशाङ्के, कुजे कलत्रे, गगने दिनेशे ।
कवौज्यसौम्येष्विह तैर्युतेषु नरेश्वरो जीवति वर्षषष्ठ्या ॥
लग्नाधिमाने विबुधारिपूज्ये बुधैज्यचन्द्रैः परिपश्यमाने ।
जातं नरं भूमिपतिं धनाढ्यं करोति षष्ठ्या सुतमेन्द्रपूज्ये ॥
सिते विलग्ने बुधभास्करात्मजौ चतुष्टयस्थाः परमोच्चखेचराः ।
तृतीयलाभर्क्षगतास्तु योगे महीपतिः स्यान्निधनं च षष्ठ्या ॥
सरन्ध्रगे देवगुरौ विलग्ने कुम्भे सपापे यदि केन्द्रराशौ ।
सर्वज्ञानां पुण्यवान् शास्त्रवेत्ता जातस्तु षष्ठ्या ६० निधनं प्रयाति ॥
केन्द्रे सपापे तनुपे व्ययस्थे लग्नेश्वरे रन्ध्रगते हि वह्नौ ।
लोकान्तरं प्रापयति प्रजातं कुशीलवृत्तं कुलपांसनं तम् ॥
होराजन्माधिपती केन्द्रगतौ मृत्युनाथसंयुक्तौ ।
लग्नचतुष्टयहीने देवगुरौ पञ्चषष्टि ६५ वर्षान्तम् ॥
चन्द्रे विलग्ने स्वगृहे प्रयाते नीचे शनौ भास्करे सप्तमे च ।
अस्मिन् योगे मानुषो ज्ञातिमुख्यो जीवेत् षष्टिः पञ्चभिः सम्प्रयुक्ता (६५) ॥
होराजन्माधिनाथौ निधनमुपगतौ मृत्युनाथे च केन्द्रे
योगे जातो नरोऽस्मिन् जनयति न परं कीर्तिवित्तान्वितं च ।
षष्ठ्यां षड्भिर्युतायां (६६) निधनमभिहितं नन्दकोके तदिघ्नम्
वर्षे त्रिशोऽथवा स्यात्त्वखिलमिति खगैर्जयते पार्थिवेन्द्रः ॥
जीवे विलग्ने बुधसूर्ययुक्ते मीने शनौ द्वादशे शीतरश्मौ ।
जातो योगे चार्यवान् मृत्युभाक् च जीवेत् षष्ठ्या षट्सहायो (६६) मनुष्यः ॥
नक्षत्रनाथसहितः सविता नभस्थः सौरिर्विलग्नसहितो हिबुके सुरेज्यः ।
अस्मिन् योगे जायमानो मनुष्यः क्षोणीपतिनैधनमष्टषष्ठ्या (६८) ॥
अर्ककुजमन्दयुक्ते बलवर्जिते देवराट्पूज्ये ।
चन्द्रो व्यये सुते वा सप्ततिवर्षाणि (७०) जीवति प्रायः ॥
नीचे मन्दे केन्द्रगे वा त्रिकोणे सौम्ये केन्द्रे भास्करे वा ससौम्ये ।
योगे जातः पण्डितो धर्मशीलो ज्ञानी प्राज्ञः सप्ततेर्वत्सराणाम् ॥
प्रबले केन्द्रगे सौम्ये निधने सौम्यवर्जिते । लग्नाधिपेन दृष्टश्चेत्यापैर्जीवति सप्ततिम् (७०) ॥
पञ्चमस्थे धरासूनौ नीचे मन्देऽस्तगे रवौ ।
अस्मिन् जातो मनुष्यस्तु सप्तत्यां ७० निधनं व्रजेत् । इति ॥ ८४ ॥
लग्नेश बलरहित हो और बृहस्पति केन्द्र ( १।४।७।१० ) त्रिकोण ( ५।९ ) में हो,
और छठें आठवें बारहवें पापग्रह हों तो मध्यमायु होती है ॥ ८४ ॥