सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 132, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 132

१०६ सटीकजातकपारिजाते-
बुध सूर्यके साथ होकर शुभग्रहोंसे देखा जाता हो तो राजाके समान सुखभोग युक्त
बालकको ११ वें वर्षमें मारता है। अर्थात् ऐसे योगमें राजकुमारकी भी ११ वें वर्षमें मृत्यु
होती है। (सु. फा. कार) ॥ ५० ॥
अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ॥
लग्नादष्टमराशिस्थो द्वादशाब्दे सितेक्षितः ॥ ५१ ॥
अल्यंशकस्थिते मन्दे सूर्येणैव निरीक्षिते ॥
पितृद्वेषसमायुक्तो द्वादशाब्दं च जीवति ॥ ५२ ॥
चन्द्रलग्नाधिपः सूर्यश्चन्द्रो यस्मिन् लग्ने ( राशौ ) भवेत्तदधिपः सूर्यो भवेद्यद्वाऽर्च्यचन्द्रः
छिद्रराशौ भवेत्तथा सूर्यः स्वपुत्रेण = शनिना सहितो लग्नादष्टमराशिगतो भवेच्छुक्रेणेक्षि-
तश्च भवेत्तदा जातस्य द्वादशाब्दे मरणं वाच्यम् । अस्मिन्योगे गुणाकरेण नवमे वर्षे मरणं
कथितम् । तथा तद्वचनम्—
'जन्मेश्‍वरो दिनकरः ससुतस्तथैव दृष्टः सितेन नवमप्रमितैश्च वर्षैः ।' इति ।
मन्दे=शनैश्चरे अल्यंशके=वृश्चिकनवांशे यत्र तत्र राशौ विद्यमाने, सूर्येणैव निरीक्षिते=
दृष्टे, जातकः पितृद्वेषसमायुक्तः ( तस्मिन्पुत्रे पितुर्वैरिभावमुत्पद्यत इति भावः, यथा प्रह्लादे
हिरण्यकशिपोः ) द्वादशाब्दं जीवत्यतः परं म्रियते पितुर्द्वेषेण ॥ ५१-५२ ॥
[कुण्डली १ : लग्न १२, २ भाव १ (शु. १), ६ भाव ५ (५ चं.), ८ भाव ७ (७ सू. श.)] [कुण्डली २ : लग्न ११, ३ भाव १ (१ सू.), ९ भाव ७ (श. ८)]
चन्द्रलग्नाधिप सूर्य ( याने सिंहमें चन्द्रमा हो ) अपने पुत्र ( शनि ) से युक्त होकर
अष्टम स्थानमें हो, उन्हें शुक्र देखता हो तो १२ वें वर्ष में बालक मरे ॥ ५१ ॥
शनि वृश्चिकके नवांशमें हो उसे सूर्य देखता हो तो वह बालक पिताके बैरसे युक्त हो
१२ वर्ष जीवे ॥ ५२ ॥
अथ त्रयोदशेऽब्दे मृत्युः ।
तुलांशकस्थिते मन्दे जीवदृष्टिसमन्विते ॥
त्रयोदशाब्दे मरणं जातस्य पितृवैरिणः ॥ ५३ ॥
शनैश्चरे यत्र तत्र तुलानवांशे विद्यमाने गुरुणा दृष्टे च जातो बालः पितुः वैरी भवति ।
तथा तस्य पितृद्वेषिणस्त्रयोदशे वर्षे मरणं जायते ॥ ५३ ॥
तुलाके नवांशमें शनि हो उसे गुरु देखते हों तो वह जातक पिताका वैरी हो और
१३ वें वर्षमें मरे ॥ ५३ ॥
अथ चतुर्दशेऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ॥
चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥ ५४ ॥
मन्दः = शनिः यत्र तत्र कन्याराशिनवांशे भवेत्तथाभूतो बुधदृष्टिसहितश्च भवेत्तदा
जातकः कोपवान् ( क्रोधी ) भवति । तदायुश्च चतुर्दश वर्षाणि । इति ॥ ५४ ॥