सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 149, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 149

अरिष्टाध्यायः ॥ ४ ॥ १२३
व्रजेत् । अस्मिन् योगे जातो नरो ज्ञानी भवति, तथा ज्ञानाग्निदग्धाखिलपुण्यपापः सन्
मोक्षभागभवति ॥ १०५ ॥
तथा च लग्ने गुरुर्भवेत्, सप्तमे भृगुः (शुकः) भवेत्, कन्यायां चन्द्रो भवेत्, धनुराशौ
मेषनवांशके लग्नं भवेत्तदाऽस्मिन् योगे जातोऽपि परं पदं=ब्रह्मसायुज्यं याति ॥ १०६ ॥
कर्कलग्न धनुके अंश ( १६ अं० ४० क० के बाद २० अं० तक ) का हो उसपर गुरु हो,
तीन या चार ग्रह केन्द्रमें हों तो जातक ब्रह्मपदको प्राप्त करे ॥ १०५ ॥
जिसके जन्म समयमें धनु राशिमें मेषका नवांश याने ८।१६।२०॑ लग्न हो उसमें बृहस्पति
हो, ७ वें भावमें शुक्र हो और कन्या राशिमें चन्द्रमा हो वह जातक परमपद याने मोक्ष प्राप्त
करता है । (सु. शा. कार) ॥ १०६ ॥ ( २ )
┌──────┬──────────────┬──────┐ ┌──────┬──────────────┬──────┐
│ ५ │ ल. २०॑ बृ. │ ३ │ │ │ १० │ ८ │
│ ६ │ ४ │ २ │ │ ११ │ ९ वृ. ल. ३ │ │
├──────┼──────────────┼──────┤ │ │ │ ७ │
│७ शु.र│ मोक्षयोगः १ │ १ चं.│ │ १२ │ │ ६ चं.│
├──────┼──────────────┼──────┤ │ │ │ │
│ ८ │ │ ११ │ │ १ │ ३ शु. │ ५ │
│ ९ │ १० मं. श. │ १२ │ │ │ २ ४ │ │
└──────┴──────────────┴──────┘ └──────┴──────────────┴──────┘
अथ आयुषः सप्तविधता ।
बालारिष्टं योगसञ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाभ्यासमन्त्रक्रियाद्यैरायुः सप्तैतानि सङ्कीर्तितानि ॥ १०७ ॥
इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः ॥ ४ ॥
𑁍𑁍𑁍
अथेदानीमायुषः सप्त भेदा निरूप्यन्ते । प्रथमं बालारिष्टं वर्षाष्टकं यावत् । द्वितीयं
योगसञ्जातं विंशतिवर्षं यावत् । तृतीयमल्पमल्पायुरिति द्वात्रिंशद्यावत् । तेषां त्रयाणां
भङ्गादतिक्रमणाच्चतुर्थं मध्यममायुः सप्ततिपर्यन्तम् । ततो दीर्घमायुः शतान्तं तत्पञ्चमम् ।
ततो दिव्यं देवतुल्यमायुस्तत्षष्ठम् । ततोऽप्यूर्ध्वं योगाभ्यासमन्त्रक्रियाद्यैर्जातमसङ्ख्यमा-
युस्तत्सप्तममिति सप्त भेदा भवन्त्यायुषः । तेषां पूर्वपूर्वस्य भङ्गाययोत्तरं वर्द्धते । अथा-
युषां प्रमाणभेदा ये प्रदर्शितास्ते सत्यपि ग्रहयोगे न भवन्ति सर्वेषामनाचारादिदुष्टक्रिया-
निरतानाम् । तथोक्तं चायुःप्रकरणे केशवेन—
"स्याद्दिष्टं सुशीलपथ्यसुभुजां न स्यादिदं पापिनाम्" इति ॥ १०७ ॥
पारिजाते सुधा टीका कपिलेश्वररचिता । चतुर्थेऽरिष्टसञ्ज्ञेऽस्मिन्नध्याये पूर्णतां गता ॥४॥
( १ ) बालारिष्ट ८ वर्ष तक, (२) योगारिष्ट २० वर्ष तक, (३) अल्पायु ३२ वर्ष तक,
इनके भङ्गसे (४) मध्यायु ७० वर्ष तक, (५) दीर्घायु १०० वर्ष तक, उसके बाद (६) देवायु
उसके अनन्तर ( ७ ) योगाभ्यास, मन्त्रादिके अनुष्ठानादि द्वारा असङ्ख्यायु ये सात
प्रकारके आयुके भेद कहे गये हैं। (सु. शा. कार) ॥ १०७ ॥
इति जातकपारिजाते चतुर्थोऽध्याये 'विमला' हिन्दीटीका समाप्ता ॥
𑁍𑁍𑁍