जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 133, कुल 588 में से
संदर्भ में पढ़ेंअरिष्टाध्यायः ॥ ४ ॥ १०७
१३ वर्षे मृत्युः १४ वर्षे मृत्युः
कन्याके नवांशमें शनि हो उसे बुध देखता हो तो वह जातक क्रोधी हो और १४ वें
वर्षमें मरे ॥ ५४ ॥
अथ पञ्चदशाब्दायुः ।
सिंहांशकस्थिते मन्दे राहुणा च निरीक्षिते ॥
शस्त्रपीडा भवेत्तस्य चायुः पञ्चदशाब्दकम् ॥ ५५ ॥
सरलार्थः ॥ ५५ ॥
सिंहके नवांशमें शनि हो, राहु उसको देखता हो तो उस बालकको शस्त्रसे घाव लगे
और उसकी आयु १५ वर्षकी होवे ॥ ५५ ॥
अथ षोडशेऽब्दे मरणम् ।
कर्कांशकस्थिते मन्दे जीवदृष्टिसमन्विते ॥
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥ ५६ ॥
सरलार्थः ॥ ५६ ॥
कर्कके नवांशका शनि हो बृहस्पति उसको देखता हो तो उस बालकको सर्प डसनेका
कष्ट हो और १६ वें वर्षमें मृत्यु कहे ॥ ५६ ॥
अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ॥
रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥ ५७ ॥
यत्र तत्र गते मन्दे यमांशकस्थिते =
मिथुननवांशे विद्यमाने तथा लग्ननाथेन = जन्म-
लग्नपतिना यत्र तत्र वर्तिना वीक्षिते जातको
रणे = युद्धे शूरो भवति, महाभोगी = उत्तमसुख-
युक्तश्च भवति, तथा सप्तदशाब्दके मृतो
भवति । सप्तदशवर्षे म्रियत इत्यर्थः ॥ ५७ ॥
अत्रोदाहरणे ( रा. श. ) अनेन १५ वर्षाणि । ( बृ. शं. ) अनेन १६ वर्षाणि ।
( शु. शं. ) अनेन १७ वर्षाणि आयुः ।
शनि मिथुनांशकमें हो उसको लग्नेश देखता हो तो वह बालक रणशूर हो, महाभोगी
हो और १७ वें वर्षमें मरे ॥ ५७ ॥