जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 140, कुल 588 में से
संदर्भ में पढ़ें११४ सटीकजातकपारिजाते-
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशो बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ॥
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥ ७७ ॥
सरलार्थः ॥ ७७ ॥
यदि लग्नेश बलवान् होकर त्रिकोण वा केन्द्रमें हो तो अरिष्टयोगमें भी उत्पन्न बालक
निश्चय जीवे ॥ ७७ ॥
अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्थाः स्वक्षेत्रस्थानमाश्रिताः ॥
चिरायुषं शिशुं जातं कुर्वन्त्यत्र न संशयः ॥ ७८ ॥
तुङ्गस्थाः=स्वस्वोच्चराशिगताः, वा स्वक्षेत्रस्थानमाश्रिताः=आत्मीयराशिगता ग्रहाः ( बहु-
वचनात् त्र्यादिकाः ) यस्य जन्मनि =जन्मकाले भवेयुस्तं जातं, शिशुं=बालकं, चिरायुषं =
दीर्घजीविनं कुर्वन्त्यत्र न संशयः । त्र्यधिका उच्चस्थाः स्वराशिस्था वा अरिष्टनाशका भव-
न्तीति भावः ॥ ७८ ॥
जिसके जन्मसमयमें उच्चस्थ वा स्वगृहमें बहुत ग्रह हों तो वे ग्रह बच्चेको चिरायु
करते हैं इसमें संशय नहीं है ॥ ७८ ॥
अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नात्सौम्यैर्निरीक्षितः सद्यः ॥
नाशयति सर्वदुरितं मारुत इव तूलसङ्घातम् ॥ ७९ ॥
अजवृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ॥
पृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥ ८० ॥
लग्नात् त्रिषष्ठलाभे ( ३।६।११ ) गतो राहुः सौम्यैः = शुभग्रहैश्चेन्निरीक्षितो भवति
तदा सद्यः सर्वदुरितं = निखिलमरिष्टं नाशयति । तूलसङ्घातं = तूलराशि मारुतः = वायुरिवे-
त्युपमा । अथ राहुः, अज-वृष-कर्किविलग्ने = मेष-वृष-कर्कटानामन्यतमे लग्ने विद्यमान-
श्चेत्तदा जातं बालं निरन्तरं सततं रक्षति । न तदाऽरिष्टदोषोऽभिभवति । तथोक्तं च—
'राहुस्तृतीये षष्ठे वा लाभे वा शुभसंयुतः ।
तद्दृष्टो वा तदाऽरिष्टं सर्वं शमयति ध्रुवम् ।, इति शौनकेन ।
एवम्—'सुतजन्मोद्भवान् दोषान् हन्ति ध्वान्तं यथा रविः ।
राहुस्त्रिषष्ठलाभस्थः शुभग्रहानिरीक्षितः ॥
वृषकर्कजगो वाऽपि सर्वारिष्टविनाशकृत् ।' इति कालप्रकाशिकायाम् ॥
अत्रोत्तरार्धेनोपमोदाह्रियते । प्रसन्नः=प्रफुल्लितान्तःकरणो हि पृथिवीपति राजा ( क्षमा-
शीलो भूत्वा ) कृतापराधं = जातदोषं पुरुषं यथा रक्षति, तथैवोक्तलक्षणलक्षितो राहुररिष्टा-
दिदोषव्याप्तं बालकमनुकूलो रक्षति । इति ॥ ७९-८० ॥
राहु लग्नसे तीसरे, छठे या ग्यारहवें हो उसको शुभग्रह देखते हों तो जिस प्रकार रूई
की ढेरको वायु नाश करता है उसी प्रकार राहु सब कष्टों का संहार करता है ॥ ७९ ॥
मेष वृष कर्क लग्नमें राहु निरन्तर बालक की रक्षा उस प्रकार करता है जिस प्रकार
प्रसन्न राजा अपराधी पुरुषकी रक्षा करता है ॥ ८० ॥
अथ पुनश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ॥
जातस्य निःशेषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥ ८१ ॥