सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 692, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 692

२३ किमर्थकथ्याध्यायः ] हस्त्यायुर्वेदः । ६७३
किमर्थं सर्वसेकश्च शिरोभ्यङ्गस्तथैव च ॥
गैरिकेण समायुक्तः ससेकश्चापि कं पुनः ॥ ४ ॥
गात्रसेकः किमर्थं च किमर्थं तैलशोधनम् ॥
तथा तैलकषाये वा किमर्थं दीयते पुनः ॥ ५ ॥
दीपतेलं किमर्थं वा किमर्थं रसभोजनम् ॥
एतन्मे सर्वमाचक्ष्व यथावदनुपूर्वशः ॥ ६ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु सर्वं महाराज यदर्थं दीयते घृतम् ॥ ७ ॥
*स्तेंज्य(?)गात्रपरो ये च (†ये च पर्यश्रुलोचनाः ॥
क्षीणशोणितमांसाश्च स्तब्धाङ्गाश्चापि ये गजाः ॥ ८ ॥
कर्मभिर्विहता ये च ) भारैर्गुरुभिरर्दिताः ॥
मदक्षीणाश्च ये नागा वृद्धा रूक्षास्तथैव च ॥ ९ ॥
ये कृशाश्चावसन्नाश्च लुप्ताङ्गाश्च विशेषतः ॥
युद्धाध्वगमने क्लिष्टा ये च नागा महीपते ॥ १० ॥
व्याधिभिः प्रतिपन्नाश्च नागा ये चापि दुर्बलाः ॥
घृतं तेभ्यः प्रदातव्यं व्याधिता ये च पित्तलाः ॥ ११ ॥
घृतं हि मधुरं शीतं मेदःश्लेष्मविवर्धनम् ॥
सृष्टमूत्रपुरीषं च बृंहणं बलवर्धनम् ॥ १२ ॥
ये च वातप्रकोपेन(ण) श्लेष्मणा च मतङ्गजाः ॥
उपसृष्टा महाराज तेभ्यस्तैलं प्रदापयेत् ॥ १३ ॥
उष्णाभितापि कटुकं त्वच्यं बलविवर्धनम् ॥
पित्तलं च तथा तैलं कफानिलनिबर्हणम् ॥ १४ ॥
यस्तु कर्माभिनीतस्य धेनुकासु च निःस्रुतः ॥
मदक्षीणस्तथा सद्यो(?) वयसा चापि विच्युतः ॥ १५ ॥
तस्मै मज्जा प्रदातव्या महाराज वसाऽपि च ॥
पृथक्प्राह स योगैश्च ततः संपद्यते सुखम् ॥ १६ ॥
मधुरश्चोष्णवीर्यश्च विपाके कटुकः स्मृतः ॥
सर्वैरेतैर्गुणैर्युक्तो ज्ञेयो मज्जा वसाऽपि च ॥ १७ ॥

  • 'स्तब्धः' इति भवेत् । † धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके ।
    १ क. स्त्रज्यगात्र° । २ क. °राऽग्रे च ।
    ८५