हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 690, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 690३१ श्रीमद्गजसंप्रवाध्यायः ] हस्त्यायुर्वेदः। ६७
३१ श्रीमद्गजसंप्रवाध्यायः ] हस्त्यायुर्वेदः। ६७
बला गवाक्षबलिनमग्निव्यञ्जनं तथा ॥
विदलं पाक्षिकं भाण्डं तथैवाशनकण्टकम् ॥ २३ ॥
सचन्दनाश्च कलशाश्चतस्रोदककुम्भिकाः ॥
सामान्ययज्ञवत्सर्वं शेषं द्रव्यमुपाहरेत् ॥ २४ ॥
ततो वैद्यः शुचिर्भूत्वा नमस्कृत्य महेश्वरम् ॥
सनत्कुमारं देवं च श्रीगजं च महाबलम् ॥ २५ ॥
सर्वान्देवान्नमस्कृत्य दिशश्चाष्टौ समाहितः ॥•
सर्वांट्षिगणांश्चैव तथा नक्षत्रमण्डलम् ॥ २६ ॥
समुद्रानापगाः सर्वाः समहोरगराक्षसाः ॥
पर्वतान्सर्वभूतानि जङ्गमाजङ्गमं च यत् ॥ २७ ॥
ऐरावताद्याश्च तथा विरूपांता ये दिशां गजाः ॥
उपोष्य संविशेद्रात्रौ वासोभिरहतैर्भिषक् ॥ २८ ॥
सेनान्यं च नमस्कृत्य शुचिर्भूत्वा कृताञ्जलिः ॥
कुशास्तरणसंवीते स्थण्डिले प्रयतः शुचिः ॥ २९ ॥
श्वोभूते पुनरुत्थाय स्नातो भूत्वा समाहितः ॥
तथोक्त्वाऽथ गजेन्द्रस्य नमस्कृत्याभिरोहयेत् ॥ ३० ॥
सच्छत्रवालव्यजनमाल्यदामोपशोभितम् ॥
नन्दितूर्येण महता वाद्यमानेन शोभितम् ॥ ३१ ॥
(※सालंकरणकेपूरहेमजालविभूषितम् ) ॥
नानाकारैस्तथा वस्त्रैः समन्तात्परिवेष्टितम् ॥ ३२ ॥
चन्दनागुरुमिश्रैश्च सर्वगन्धैरलंकृतम् ॥
स्त्रीरूपवेषैः पुरुषैः परिचर्योपशोभितम् ॥ ३३ ॥
जल्पद्भिर्निष्ठुरं वाक्यं महसद्भिस्तथैव च ॥
वतुष्पथे वीथिमार्गे चत्वरेषु त्रिकेषु च ॥ ३४ ॥
राजमार्गेषु च भृशं घोषपन्तस्ततस्ततः ॥
त्वयि तुष्ट्यन्ति(?) ते देवा राजानोऽपि जयैषिणः ॥ ३५ ॥
सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः ॥
पूजयन्ति यथान्यायं ये चैव गजजीविनः ॥ ३६ ॥
※ कपुस्तके त्रुटितोऽयं पाठः ।
१ क. ॰होदर्रा॰ ।