सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 693, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 693

६७४ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
एतदर्थं भवेदेषा वसा मज्जा च दन्तिनाम् ॥
स्नेहश्चतुर्विधो ज्ञेयो यद्यार्थं दीयते पुनः ॥ १८ ॥
उपस्थाने च संयाने वर्तमाने च बन्धने ॥
परस्परविमर्दे च कर्मणा चातिपीडिते ॥ १९ ॥
अध्वनोऽङ्गरुजाद्वाऽपि गात्राणां विक्षेपेण वा ॥
अवपानेन बन्धैर्वा दूरं चाऽऽसन्नवर्तनात् ॥ २० ॥
विश्लिष्टं मारुतादङ्गं भग्नं यस्य च विक्षतम् ॥
पानार्थं प्रोच्यते तस्मै युक्तं स्नेहं चतुर्विधम् ॥ २१ ॥
यो हि सर्वाङ्गरोगी स्यादुरुपक्षहतोऽपि वा ॥
सर्वस्नेहसमायुक्तो महास्नेहः प्रशस्यते ॥ २२ ॥
इति स्नेहगुणाः प्रोक्ताः क्षीरस्यापि गुणान्शृणु ॥
अधृ(पृ)ष्टा मदक्षीणा वयोतीताः क्षताश्च ये ॥ २३ ॥
कर्मप्रबद्धा मत्ताश्च दुर्बलाभिहि(ह)ताश्च ये ॥
दग्धाश्च कवलेस्तीक्ष्णैः शोणितोपहताश्च ये ॥ २४ ॥
पित्तोपसृष्टाश्च गजास्तेभ्यः क्षीरं प्रदापयेत् ॥
शमयत्यजि(ति)तापं च दीप्ताग्निश्चोपजायते ॥ २५ ॥
सम्यग्वातं च जयति च्छविश्चास्य प्रसीदति ॥
जीवनं बृंहणं हृद्यं सात्म्यं बलविवर्धनम् ॥ २६ ॥
मधुरं शीतवीर्यं च तेजःसामर्थ्यवर्धनम् ॥
आरोग्यजननं चैव तस्मात्क्षीरं प्रदापयेत् ॥ २७ ॥
क्षीरस्यैते गुणाः प्रोक्ता मूत्रस्यापि गुणान्शृणु ॥
दद्रूं कण्डूं(?) च उष्णं च जायन्ते यस्य दन्तिनः ॥ २८ ॥
मृत्तिकाबद्धकोष्ठाश्च श्लेष्मिकाश्च मतङ्गजाः ॥
कृमिकोष्ठातुरा ये च तेषां मूत्रं सदा हितम् ॥ २९ ॥
वातघ्नं चोष्णवीर्यं च तिक्तं क्षारान्वितं तथा ॥
प्रभिन्नवर्णः कटुकं विपाके मूत्रमुच्यते ॥ ३० ॥
मूत्रस्यैते गुणाः प्रोक्ताः शृणु मद्यगुणानतः ॥
मारुतोपहतो यश्च यश्च वाऽऽध्मायतेऽधिकम् ॥ ३१ ॥
मूत्रसङ्गातुरो यश्च यश्च खादति मृत्तिकाम् ॥
अध्वनाऽपि च युक्तो यः कर्मणा यश्च पीडितः ॥ ३२ ॥
१ क. अध्वना० ।