हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 691, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 691६७२ पालकाप्यमुनिविरचितो- [४ उत्तरस्थाने-
६७२ पालकाप्यमुनिविरचितो- [४ उत्तरस्थाने-
अतोऽन्यथा प्रकुर्वाणाः सराष्ट्रबलवाहनाः ॥
राजानोऽपि विनश्यन्ति देवतातिक्रमेण वै ॥ ३७ ॥
प्रयुञ्जते च ये तस्मै सम्यक्पूजां नराधिप ॥
सपुत्रदारां वर्धन्ते सराष्ट्रबलवाहनाः ॥ ३८ ॥
आज्ञां महेश्वरस्येमां प्रतिगृह्णन्ति ये नृपाः ॥
संग्रामे सममप्यन्ते ते भवन्ति विदारणाः ॥ ३९ ॥
काले बीजानि रोहन्ति सम्यग्वर्षति वासवः ॥
न भवत्यत्र मरको व्याधिहानिस्तथैव च ॥ ४० ॥
निरामयं च भुञ्जीत राज्ञा कृत्स्ना वसुंधरा ॥
रत्नाकरवती देवी सशैलवनकानना ॥ ४१ ॥
अरोगा बलवन्तश्च जयन्तेते मतङ्गजाः ॥
गजोपजीविनः सर्वे कामभोगैः समन्विताः ॥ ४२ ॥
पुत्रैश्च पशुभिश्चैव जीवन्ति च शतं समाः ॥
अरोगा बलवन्तश्च जायन्ते वै प्रजा भृशम् ॥ ४३ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
यांश्च प्रार्थयते कामांस्तांस्तांश्चाप्नोत्यनुत्तमरः ॥ ४४ ॥
एवं वृत्तं महाराज शंभोर्भक्त्याऽन्वितं विभो ॥
श्रीगजस्य प्रतिकृतं त्रिषु लोकेषु पूजितम् ॥ ४५ ॥
मयाऽऽरुपाता महाबाहो विस्तरेण यथाक्रमम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने परिवारचतुर्थस्थाने
द्वाविंशः श्रीगजसंभवाध्यायः ॥ २२ ॥
अथ त्रयोविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
सर्वं द्रव्यगतं प्रश्नं क्रमेण मुनिसत्तमः(म्) ॥ १ ॥
सर्पिस्तैलं वसा मज्जा क्षीरं मूत्रं तथा दधि ॥
किमर्थं दीयते विप्र क्षौद्रं किमिति दीयते ॥ २ ॥
लवणोदकतैलं वा मेदकं वा सुसंस्कृतम् ॥
किमर्थं भोजनं वाऽपि किमर्थं वाऽनुवास्यते ॥ ३ ॥