सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । १६३
वारणानां यथान्यायमारोग्याय भिषग्वरः ॥
कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा ॥ ७१ ॥
शुचिः सुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम् ॥
स्नापयेच्च ततः पादान्यन्त्रस्याथ तुलास्तथा ॥ ७२ ॥
अलंकृत्य कृतास्रञ्च प्रदाक्षिण्येन रोपयेत् ॥
सुबद्धां सग्रहां कृत्वा ततस्तमवतारयेत् ॥ ७३ ॥
आकोटयित्वा विधिवन्निष्प्रकम्पश्च कारयेत् ॥
फलकैराश्रितैर्भूमिं निश्चलैः सुसमे दृढे ॥ ७४ ॥
स्नापयित्वा ततो यन्त्रं सर्वाङ्गं विरलं कृतम् ॥
गन्धपङ्काकुलं कृत्वा पताकावस्त्रसंकुलम् ॥ ७५ ॥
ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत् ॥
यन्त्रस्य पश्चिमे देशे जुहुयाद्धव्यवाहनम् ॥ ७६ ॥
हुत्वाऽग्निं च यथान्यायमाज्यशेषेण म्रक्षयेत् ॥
यन्त्रं यन्त्रतुलाश्चापि शोणितेन समालभेत् ॥ ७७ ॥
पक्त्वाऽऽमकेन मांसेन तथा सीधुसुरासवैः ॥
भूतो(तो)दनेन कुल्माषैर्मत्स्यैर्मांसैः फलैस्तथा ॥ ७८ ॥
अष्टापदं जपेत्तत्र ............ देवताः ॥
सनत्कुमारं सेनान्यं देवं चाप्यपराजितम् ॥ ७९ ॥
उग्रानन्यान्परिषदान्देवान्सेनापतिं तथा ॥
नमस्कृत्य ततो वैद्यः शुक्लाम्बरधरः शुचिः ॥ ८० ॥
कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा ॥
यन्त्रं प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः ॥
ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः ॥ ८१ ॥
इति यन्त्रविधानं च बन्धाश्च परिकर्मणि ॥
हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः ॥ ८२ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
यन्त्रविधिर्नामैकादशोऽध्यायः ॥ ११ ॥
अथ द्वादशोऽध्यायः ।
कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥
रोमपादो महाप्राज्ञः पालकाप्यं स्म पृच्छति ॥ १ ॥

प्रनष्टशल्याहरणं यथावद्वक्तुमर्हसि ॥
यष्टितोमरशक्त्युष्ट्रिकिणयः सपरश्वधैः ॥ २ ॥
शरैश्च विविधैर्घोरैः परप्राणापहारिभिः ॥
नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥
भल्लैर्वराहकर्णैश्च क्षुरमैरिक्षुपत्रकैः ॥
पीलुशङ्कुप्रमथनः शिखराग्रैः सकण्टकैः ॥ ४ ॥
सावरैरर्धकर्णैश्च शृङ्गशीर्षैस्तु कण्टकैः ॥
नालीकेरैर्धनालीकैस्तथा वेतसपत्रकैः ॥ ५ ॥
मुकुलाग्रैर्विकीर्णैश्च मुद्गरैः कूटमुद्गरैः ॥
एतैश्चान्यैश्च विद्धानां विप्रनष्टैर्महामुने ॥ ६ ॥
दृश्यन्ते वारणेन्द्राणां गूढशल्याः सुदारुणाः ॥
व्रणा हि बहुविश्रा(स्रा)वा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥
गम्भीरा वेदनाप्रायाः सशोणितपरिश्र(स्र)वाः ॥
न शोधनैः कषायैर्वा विशुध्यन्ति कदाचन ॥ ८ ॥
तेषां यथा चिकित्सा च शोधनं तु सुखं भवेत् ॥
कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥
असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥
ब्रह्मा शास्त्रमिदं प्राह पूर्वमेव प्रजापतेः ॥
प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः ॥ ११ ॥
अश्विनौ चापि तौ देवानृषिभ्यः प्रत्यभाषताम् ॥
प्रनष्टशल्याहरणं पालकाप्यो महायशाः ॥ १२ ॥
सद्यःक्षतविधाने च द्विव्रणीये च तन्मया ॥
व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम् ॥ १३ ॥
शल्यस्य विप्रनष्टस्य लक्षणं शृणु पार्थिव ॥
स्थानान्येतानि जानीयाद्येषु शल्यं प्रणश्यति ॥ १४ ॥
तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध मे ॥
छविर्मांसं तथा मेदः संधिः स्नायुस्तथाऽस्थि च ॥ १५ ॥
कोष्ठश्चो(स्रो)तांसि चैवैषां स्थानान्येतानि विद्धि वै ॥
तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥

११ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४५६
बाह्यमेतद्भवेच्छल्यं प्रकारैर्बहुभिर्युतम् ॥
शोणितं त्वस्थि मांसं च शिरा स्नायुभि वाऽप्यथ ॥ १७ ॥
पूपं(पूयं) चापि भवेच्छल्यमेतत्सर्वं शरीरजम् ॥
तत्र बाह्यानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥
शरीरजेषु चास्थीनि दारुणानि विनिर्दिशेत् ॥
शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥
निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते ॥
यानि दारुणशल्यानि तानि सर्वाणि भूपते ॥ २० ॥
गूढतां याति कालेन शरीरस्थानि दन्तिनाम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं नृप ॥ २१ ॥
वेदनाऽथ परिश्रा(स्रा)वः शोफः स्तम्भः परिग्रहः ॥
व्रणं शल्यमुखस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥
दुर्गन्धः पिच्छिलश्चापि स्रावस्तत्र प्रवर्तते ॥
स लोहितश्च विच्छिन्नः कदाचिच्चापि संहतः ॥ २३ ॥
अष्टानां व्रणवस्तूनां यच्च वस्तु समाश्रितम् ॥
सादृश्यं तस्य च पुनः कदाचिच्छ्र(स्र)वति श्र(स्र)वम् ॥ २४ ॥
एतैर्लिङ्गैस्तु विज्ञेया व्रणाः सम्यग्भिषग्वरैः ॥
ईषंदुन्नत उत्सन्नं त्वचं लक्षेत दन्तिनः ॥ २५ ॥
मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति ॥
शिरास्नायुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥
चेष्टानिरोधः संधौ तु महांश्च श्वयथुर्भवेत् ॥
अस्थिभेदस्त्वस्थिगते तेन न श्र(स्र)वति व्रणः ॥ २७ ॥
गुणोपरोधः श्रो(स्रो)तः स्याद्यस्मिंस्तिष्ठति श्रोतसि ॥
कोष्ठस्थे रक्तसंसृष्टं विसंश्र(स्र)वति च व्रणः ॥ २८ ॥
गुदः श्र(स्र)वति चात्यर्थं द्विपस्त्वानह्यते च सः ॥
संध्यस्थिधमनीस्नायौ सद्यःप्राणहरेषु च ॥ २९ ॥
वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् ॥
मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥
अनिर्हतानि तिष्ठन्ति वर्षाणि सुबहून्यपि ॥ ३१ ॥
५९

४६६ पालकाप्यमुनिबिरचितो— [ १ शल्यस्थाने-
शल्यानि नैवं दृश्यन्ते भिद्यन्ते नैव दन्तिनाम् ॥
निर्व्रणाश्चापि जायन्ते कदाचिच्चापि सव्रणाः ॥ ३२ ॥
न कदाचित्प्रदृश्यन्ते सुनिक्षिप्ततया नृप ॥
भूयस्तु संप्रवक्ष्यामि सशल्पव्रणलक्षणम् ॥ ३३ ॥
व्रणे प्रभिन्ने तस्याथ श्रा(स्रा)वगन्धं च लक्षयेत् ॥
सगदापानसंस्थानः खराणां वाजिनां तथा ॥ ३४ ॥
नृणां च गुदसंस्थानो नाभीभूतश्च जायते ॥
दुर्गन्धः पिच्छिलश्चापि श्रा(स्रा)वस्तत्र प्रवर्त्तते ॥ ३५ ॥
स लोहितश्च विच्छिन्नः काञ्जिकौदनगन्धवान् ॥
कण्डूयते दह्यते च शुष्यंश्च परिपोच्यते ॥ ३६ ॥
वालुकाकर्दमैश्चैनं पांशुभिश्च करेण च ॥
वीजते जिघ्रति तथा सशल्यं व्रणमादिशेत् ॥ ३७ ॥
व्रणोपचारैस्तस्येह वारणस्य महीपते ॥
यदि शल्यं न दृश्येत तस्य वक्ष्याम्युपक्रमम् ॥ ३८ ॥
स्वभ्यक्तं तिलतैलेन ससि(शि)रस्कं घृतेन वा ॥
मेदसा वा प्रलिम्पेत्तु वसया त्रिवृतेन वा ॥ ३९ ॥
निवाते स्वेदयेद्वैद्यो यथोक्तैः स्वेदनैस्तु तम् ॥
विमर्दनं विमार्गं च सर्वेष्वङ्गेषु कारयेत् ॥ ४० ॥
परिमर्दैन नागस्य शल्यं तदुपलभ्यते ॥
अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते ॥ ४१ ॥
यत्र वा सज्जते स्पर्शस्तत्र शल्यं विनिर्दिशेत् ॥
यथै(द्ये)वं नोपलभ्येत मृदा तमुपलेपयेत् ॥ ४२ ॥
निवाते तु समावेश्य यत्र पूर्वं विशुष्यति ॥
तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत् ॥ ४३ ॥
तत्र शल्यं विदित्वा तु क्षिप्रं तदुपनाहयेत् ॥
मृदुं विवर्णं शिथिलं पक्वं शस्त्रेण पाटयेत् ॥ ४४ ॥
एषिण्या गतिमासाद्य गजानां राजसत्तम ॥
विष्कम्भेन विमार्गे(मर्जये)नं पश्चाच्चेवोपनाहात् ॥ ४५ ॥
सकर्णं वाऽप्यकर्णं वा प्रच्छन्नं तत्र दृश्यते ॥
उपस्थितं तु यच्छल्यं यन्त्रेण ग्राहयेद्दृढम् ॥ ४६ ॥

१२ शल्योद्धरणाध्यायः ] हस्तिआयुर्वेदः । ४१७
वामेन तु मुखाभ्यास उत्तानेनैव पाणिना ॥
दक्षिणेन तु हस्तेन दृढं यन्त्रं निपीडयेत् ॥ ४७ ॥
आहरेत्तु ततः शल्यं क्रियायोगेन दन्तिनाम् ॥
त्वग्गतं शल्यमेवं स्यादाहर्त्तव्यं विजानता ॥ ४८ ॥
मांसोपचितदेहस्य मांसभागमुपाष्ट(श्रि)तम् ॥
यदा न दृश्यते शल्यं तस्य वक्ष्याम्युपक्रमम् ॥ ४९ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत् ॥
शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥
तस्योपायं प्रवक्ष्यामि यथा शल्यं प्रदृश्यते ॥
गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा ॥ ५१ ॥
व्यायामं कारयेत्तस्य तथैव विषमेऽध्वनि ॥
भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥
शीघ्रं प्रच्यवते स्थानात्तस्मादेनं विचारयेत् ॥
वेदनां कुरुते तीव्रां यत्र तेनोपनाहयेत् ॥ ५३ ॥
एषिण्या गतिमासाद्य पूर्ववच्छल्यमुद्धरेत् ॥
स्नायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥
सिराजालमते शल्ये या क्रिया तां समाचरेत् ॥
यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५५ ॥
चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ॥
बद्ध्वा चङ्क्रमयेच्छीघ्रं लङ्घयेत्प्लावयेदपि ॥ ५६ ॥
संधौ व्यापृच्छमानस्य रुजा शोफश्च जायते ॥
ततस्तं पूर्ववद्बद्ध्वा यन्त्रैः शल्यं समुद्धरेत् ॥ ५७ ॥
यदा न दृश्यते शल्यमस्थिकायप्रतिष्ठितम् ॥
बहुमांसशरीरत्वाद्विजानां तु नराधिप ॥ ५८ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् ॥
यथोक्तां मांसदेशस्थे क्रियां तद्वत्समाचरेत् ॥ ५९ ॥
अथ शल्यं न कम्पेत दृढं लग्नं यथा स्थितम् ॥
वा(?)ङ्गमूले तद्बद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥
स्रोतःसु च यदा शल्यं सिराणां संगमेषु च ॥
घटयन्नेव तत्प्राज्ञो मर्मदेशे च यद्भवेत् ॥ ६१ ॥

१६४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने
एतेष्वेव प्रदेशेषु शस्त्रकर्म न कारयेत् ॥
न चापके न चाछिन्ने न च तिर्यङ्निपातयेत् ॥ ६२ ॥
न मुक्ताशिथिले मांसे मृदुभूते न हस्तिनः ॥
विदग्धे वाऽप्यपक्के वा निर्दोषं हरणं भवेत् ॥ ६३ ॥
एवं स्रोतोगतं शल्यमाहर्त्तव्यं विजानता ॥
कुम्भस्रोतोगतं शल्यं यदा नागे न दृश्यते ॥ ६४ ॥
पूर्वं शिरोभितापेषु जत्रुप्रधमनं स्मृतम् ॥
स्निग्धस्विन्नस्य नागस्य करस्रोतसि दापयेत् ॥ ६५ ॥
ततस्तं बृंहमाणस्य वनथोविन(?)मूर्च्छितम् ॥
क्लेदितं दोषसंसृष्टं मुखं श्रो(स्रो)तः प्रपद्यते ॥ ६६ ॥
ततस्तत्प्रच्युतं स्थानाद्भूमौ पतति हस्तिनः ॥
कोष्ठप्राप्ते तु कवलं दद्यात्तस्य विरेचनम् ॥ ६७ ॥
पुरीषदोषसंसृष्टं तस्मादेतद्भिरस्यते ॥
अथवा मर्दनात्तस्य पाणिघाताद्विलीपते ॥ ६८ ॥
सहसा प्रतिपद्येत मार्गवेगसमीरितम् ॥
एवं कोष्ठगतं शल्यमाहर्तव्यं विजानता ॥ ६९ ॥
इति स्थानेषु सर्वेषु ज्ञात्वा शल्यं समुद्धरेत् ॥
ततोऽपहृतशल्यस्य घृतेन परिषेचनम् ॥ ७० ॥
कर्तव्यं हस्तिनस्तस्य सलिले चावगाहनम् ॥
अशुद्धे शोधनं चापि शुद्धे संरोपणं भवेत् ॥ ७१ ॥
सवर्णकरणं चापि द्विव्रणीये प्रकीर्तितम् ॥
एवं प्रनष्टे विज्ञानं शल्ये नागस्य कीर्तितम् ॥ ७२ ॥
शल्येनोपहृतं सम्यगेभिर्योगैरुपाचरेत् ॥
.... .... .... .... ....ञ्चे यन्त्रं सिंहमुखं तथा ॥ ७३ ॥
यष्ट्यग्रं कर्कटकं दात्यूहं सर्वकायिकम् ॥
गोधामुखं मकरकं दन्तेरुभय .... .... .... ॥ ७४ ॥
....शङ्कुमेकदन्तं च मुष्टिशार्दूलमुष्टिकम् ॥
आकृतिर्यन्त्रयोनिश्च यथावदनुकीर्तिता ॥ ७५ ॥
तस्माद्युक्तं च वचनात्साङ्ख्यादागमादपि ॥
दर्शनाच्चान्ययन्त्राणां कारयेद्यन्त्रसंग्रहम् ॥ ७६ ॥

११ शल्योद्धरणाध्यायः ] हस्त्वायुर्वेदः । ४६१
अतः परं प्रवक्ष्यामि मर्माणि मनुजाधिप ॥
मूर्ध्नि चत्वारि मर्माणि सर्वाणि च समन्ततः ॥ ७७ ॥
येषु विद्धो महाराज मुहूर्तं न स जीवति ॥
अण्डकोशे बस्तिशीर्षे शिश्ने च वृषणे तथा ॥ ७८ ॥
विद्धः शरेण हि गजो न जीवेच्चेन केनचित् ॥
सद्यः प्राणहरेष्वेव सद्यः प्राणैर्विमुज्यते ॥ ७९ ॥
कालान्तरविनाशेषु विद्धः कालाद्विपद्यते ॥
शोणिते च्याविते स्थानाद्भागः प्राणैर्विमुच्यते ॥ ८० ॥
यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम् ॥
मर्माश्रितेषु सर्वेषु यो भवेत्ताडितो गजः ॥ ८१ ॥
तेषु तेष्वेव शल्येषु विप्रनष्टेषु दन्तिनाम् ॥
तेषामाहरणे यन्त्राण्यशेषेण निबोध मे ॥ ८२ ॥
त्र्यस्रं तथैकदंष्ट्रं च मुष्टिं शार्दूलमुष्टिकम् ॥
नन्दीमुखं शङ्कुकपार्श्वं यन्त्रं सिंहमुखं तथा ॥ ८३ ॥
यन्त्रजातिभिरेताभिः शल्यं विनिहरेद्बुधः ॥
अङ्गुल्येवाप्यथैषण्या परिमृश्य नखेन च ॥ ८४ ॥
सम्यक्शल्यं तु विज्ञाय प्रतिकर्म समाचरेत् ॥
वृद्धिपत्रेण शस्त्रेण निकृन्तेद्व्रणमादितः ॥ ८५ ॥
नन्दीमुखेन यन्त्रेण तेन तच्छल्यमानयेत् ॥
शोणितं पीडयेच्चैव व्रणं वांश्चा च शोधयेत् ॥ ८६ ॥
विडङ्गचूर्णसंसृष्टघृतं स्याद्व्रणसेचनम् ॥
आपसेनाग्निवर्णेन समन्ताद्दाहयेद्व्रणम् ॥ ८७ ॥
घृतपानं च दातव्यं वारणस्य महीपते ॥
कङ्कादिकृतयन्त्रेण सर्वेषामनुपूर्वशः ॥ ८८ ॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥
विशीर्णं साबरेत्कर्णं शङ्कुशीर्षं त्रिकण्टकम् ॥ ८९ ॥
भक्तेन प्रतिषिद्धस्य शल्यस्याऽऽनयने हितम् ॥
पूर्वोक्तेन विधानेन सेचनं स्यान्महीपते ॥ ९० ॥
विद्धो वराहकर्णेन क्षुरेण क्षरेण वा ॥
वृद्धिपत्रेण सर्वास्ताः क्षिप्रमेव समानयेत् ॥ ९१ ॥

१७० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने ]
पीलुशृङ्गमथनैः शिखराग्रैस्त्रिकण्टकैः ॥
शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥
गोधामुखेन यन्त्रेण सर्वेषामनुपूर्वशः ॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥ ९३ ॥
इति कर्णसीचारकं शृङ्गशीर्षं त्रिकण्टकम् ॥
तालीकमर्धतालीकं तथा वेतसपत्रकम् ॥ ९४ ॥
शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः ॥
अन्यैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥
कर्णभङ्गेन भङ्क्त्वाऽथ कर्णतस्य(?)प्रवर्तयेत् ॥
अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ ९६ ॥
यन्त्रयित्वा च तं सम्यक्सिद्धार्थः कुशलो भिषक् ॥
यन्त्रं सिंहमुखं नाम तेन तानुद्धरेच्छनैः ॥ ९७ ॥
पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि ॥
नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत् ॥ ९८ ॥
मुकुलाग्रं च कर्तव्यं मण्डूकवक्त्रेण पार्थिव ॥
यन्त्राणां च विभागं च शल्यानां च महीपते ॥ ९९ ॥
कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे ॥
मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽनघ ॥ १०० ॥
तेषु विद्धस्य नागस्य शल्यं सद्भिप्रणश्यति ॥
अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥
युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥
अभ्यङ्गालेपनाद्याभिः सिद्धार्थव्रणशोधनम् ॥ २ ॥
मस्तकेऽथ शरेणेव विद्धस्यान्येन केनचित् ॥
अनिर्गते निर्गते वा न स जीवति वारणः ॥ ३ ॥
आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा ॥
अनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥
उपर्यापामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् ॥
शोणितानुगतो भूत्वा स्याद्घातव्याधिरन्तकः ॥ १०५ ॥
कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः ॥
विद्धस्यापनयेच्छल्यं मर्माणि परिरक्षयेत् ॥ ६ ॥

१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४७१
अप्राप्तसंधिशल्ये च शल्यनिर्हरणं भवेत् ॥
विशल्यं च व्रणं कृत्वा प्रतिकर्म समाचरेत् ॥ ७ ॥
लम्बितं व्यथितं छिन्नमवकृतं च यद्भवेत् ॥
दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत् ॥ ८ ॥
क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत् ॥
पूर्वोक्ता च क्रिया तस्य कारयेद्व्रणशान्तये ॥ ९ ॥
विद्धः शरेण काकोला ..........च्छिन्नरोहयोः ॥
.................... चूर्णैश्च प्रतिचूर्णयेत् ॥ ११० ॥
अथास्य शोफो भवति तेनैव प्रतिलेपयेत् ॥
क्षीरवृक्षकषायेण सर्पिषा चैव धारयेत् ॥ ११ ॥
शुध्यते च व्रणं तस्य क्षिप्रं चैव प्ररोहति ॥
अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२ ॥
स्व(श्व)पथोर्दिग्धविद्धस्य पूतिमांससमुद्भवः ॥
श्रा(स्रा)वो भवत्यशुद्धश्च भिन्नवर्णश्च जायते ॥ १३ ॥
स तप्तदेहश्च भवेच्छोफशेषश्च जायते ॥
एतानि पूर्वरूपाणि दिग्घविद्धस्य हस्तिनः ॥ १४ ॥
व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा ॥
नस्यं तस्य ततो दद्याद् गदं चानुपाचयेत् ॥ ११५ ॥
शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव ॥
स्तब्धो विवर्णो निःसुप्तो(?) व्रणो यस्य तु हस्तिनः ॥ १६ ॥
स्थापयित्वा युतं स्थाने पञ्चापित्वा यथाक्रमम् ॥
तन्तुसूत्रपटैर्वाऽपि क्षौमसूत्रेण वा भिषक् ॥ १७ ॥
सुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् ॥
मधुव्रणविधानेन प्रतिकुर्याद्द्विपगवरः ॥ १८ ॥
इतीह पृष्टो भगवानङ्गराजेन धीमता ॥
पालकाप्यः क्रियामाह शल्यस्योद्धरणं प्रति ॥ ११९ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥

१७२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने
अथ त्रयोदशोऽध्यायः।
'अथातो विद्रधिचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पाल-
काप्यः ॥
इह भो वातपित्तकफसंनिपातैर्विद्रधयः संभवन्ति । तत्र कटुकषायरूक्ष-
भोजनैर्वातलैः प्रकुप्यत्यनिलः । प्रदुष्टो मांसशोणितमभिमूद्य कृकणवृक्कण-
प्लीहायकृद्धृदयक्लोमवस्तिमुत्समेहानानामन्यतममधिष्ठाय घनीभवति गम्भीरो
ग्रन्थिः, तं वातविद्रधिमाचक्ष्महे । तत्र वातविद्रधिरनिमित्तं पच्यते । लिक्कुम्-
पकमुश्रा(स्रा)वं विच्छिन्नं फेनिलमरुणवर्णं रूक्षं स्रवति ॥
यदा तु कटुकाम्लानि पित्तप्रकोपनीयानि भोज्यते नागः, तस्य पित्तं प्रकुपितं
विद्रधिमापाद)यति । तत्र पित्तविद्रधिराशु प्रपच्यते । पक्वस्तीव्रो दुर्गन्धिः
कुलत्थरससदृशः स्रावो दोहप्रायश्च भवति ॥
यदा तु मधुरं दिवास्वप्नं चोपसेवते, तस्य श्लेष्मा प्रकुपितो विद्रधिमापाद-
यति । स चिरात्पच्यते बहुश्वेतो बहुलसान्द्रपिच्छिलो मेदोमज्जासदृशस्रावो
भवति स कफविद्रधिः ॥
संनिपातजे विद्रधौ सर्वरूपदर्शनम् । विशेषतश्च प्लीहश्वासारोचकाश्च
भवन्ति । तस्मादविरोध्यतस्य चिकित्सितं कुर्यात् । स्नेहकल्पोक्तेयेनं स्नेहेने-
वोप(क्र)मेत ॥
तत्र श्लोको—
पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेस्तु सेचयेत् ॥
संजातधा(प्रा)णमांसस्य प्रतिपूर्णेषु धातुषु ॥ १ ॥
स्नेहपानोपचारेण स्नेहं चास्मै प्रदापयेत् ॥
शोधनं रोपणं चोक्तं प्रतिव्रणचिकित्सितम् ॥ २ ॥
यथावत्कुशलेपोंडपं श्रा(स्रा)वणं भेदनं तथा ॥

अथ विद्रधयः प्राह वातपित्तकफात्मकाः ॥ ३ ॥
संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम् ॥
रसांस्तु तिक्तकटुकान्कषायानिवषमान्यदा ॥ ४ ॥
शीतांभिःस्नेहलवणानाहारानपि सेवतः ॥
बृंहितेनाथ विषमं स्वपतः कंठिनेन वा ॥ ५ ॥

१ ख. दाहश्च । २ क. कण्ठितेन ।

१३ विद्रधिरोगाध्यायः ] हस्त्यायुर्वेदः । १७३
गजस्य कुपितो वायुर्धमनीः संसृ(श्चि)तो यदा ॥
तदाऽस्यान्यतमे देशे प्रपाचयति शोणितम् ॥ ६ ॥
अथास्य रक्तसंसृष्टो जनयत्याशु विद्रधिम् ॥
मन्यादेशे च कक्षायां तथा गात्रापरेषु च ॥ ७ ॥
जघेनाभ्यन्तरे कोशे स्तेनास्थाने च भूपते ॥
नाभौ *चलेषु देशेषु तथाऽन्येष्वपि दन्तिनः ॥ ८ ॥
प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः ॥
जायते स्व(श्व)यथुस्तेन सविदाहः सवेदनः ॥ ९ ॥
─:०:─
किंचिद्विवर्णो गम्भीरः संप्रलुप्तश्च भक्ष्यते ॥
अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥
प्रदुष्टश्चैव लक्ष्येत अप्रदुष्टश्च लक्ष्यते ॥
मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च ॥ ११ ॥
मन्दं विक्षिपते देहं याति कण्डूयतः शमम् ॥
भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा ॥ १२ ॥
उष्णे शान्तिं स लभते शीतेन च विवर्धते ॥
इति वातसमुत्थाया लक्षणं संप्रकीर्तितम् ॥ १३ ॥
─;०:─
उष्णादत्यर्थलवणात्तथाऽम्लरससेवनात् ॥
संरम्भोद्धर्मसंतापादध्वनो गमनेन वा ॥ १४ ॥
एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते ॥
आक्षिप्तं वायुमाक्षिप्तं देहे समुपँलीयते ॥ १५ ॥
लीनं स्थानाच्च्युतं चास्य श्वयथुं जनयेद्भृशम् ॥
तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते ॥ १६ ॥
दह्यते चाग्निनेवास्य स देशस्तुद्यतेऽपि च ॥
हारिद्रो हारितो वाऽथ स देशः संप्रकाशते ॥ १७ ॥
पाकं चान्वेति सहसा तदेवान्तकरं तथा ॥
सुवर्णसदृशश्चास्य ततः श्रा(स्रा)वः प्रवर्तते ॥ १८ ॥

  • 'च तेषु' इति पाठो भवेत् ।
    १ क. ॰घन्याम्य॰ । २ क. स्थनास्थाने । ३ ख. वलेषु । ४ क. ॰व्यापि-
    प्रभञ्जनम् ॥ जा॰ । ५ क. लक्षेते अवदुष्टश्च लुक्षते । ६ ख. ॰म्भावर्मसंपाताद॰ ।
    ७ क. ॰पचीय॰ । ८ ख. कृष्णा ।
    ६०

४७४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
जानीयाल्लक्षणैरेभिर्विद्रधिं पित्तसंभवाम् ॥
—:०:—
चतुर्विधमथाऽऽहारं भोज्यते मधुरं यदा ॥ १९ ॥
अप्रदानप्रदानेन शीतलं वा निषेवते ॥
अव्यायामदिवास्वप्नाद्विज्वलादशनादिह ॥ २० ॥
तस्यैवं वर्तमानस्य श्लेष्मा चाऽऽशु प्रकुप्यति ॥
तमादाय तदा वायुरस्थीन्त्याविश्य दन्तिनः ॥ २१ ॥
शोफं संजनयत्याशु तस्य रूपाणि मे शृणु ॥
पृथुलः श्याववर्णाभो नीलो वा स्वल्पवेदनः ॥ २२ ॥
विकसंश्च स विज्ञेयो बहुश्लेष्माऽल्पमारुतः ॥
व्याधिमेवंविधैर्लिङ्गैर्जानीयाच्छ्लेष्मविद्रधिम् ॥ २३ ॥
—:०:—
अथ त्रयाणां दोषाणां यो विरोधीनि सेवते ॥
कुक्षी(क्षौ) तस्योपजायन्ते दोषा वातादयस्त्रयः ॥ २४ ॥
यदा विरस्यमानस्तु वायुर्वातवहाः शिराः ॥
दूषयेच्चापि श्लेष्माणं पित्तं रक्तं तथैव च ॥ २५ ॥
एकीभूतास्ततो राजन्विद्रधिं जनयन्ति ते ॥
अथास्य जायते दाहः सर्वत्यर्थं सवेदनः ॥ २६ ॥
स तस्य दोषबाहुल्याद्देहो दग्ध इवाग्निना ॥
दिवा स दृश्यते रक्तो रात्रौ रसमवाप्नुयात् ॥ २७ ॥
मञ्जिष्ठासदृशाः स्फोटाः पच्यन्ते मांसपाकतः ॥
दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः ॥ २८ ॥
दृष्टा(ष्टाः) प्रोणहरा राजन्नानावर्णोष्मणा युंताः ॥
ततो नाभिलभेदन्नं तृष्णाज्वरसमन्वितः ॥ २९ ॥
अतीसारस्तथा कासः श्वासश्चैवोपजायते ॥
एवंविधाः संनिपाताद्विद्रधिः(धीः) समवाप्नुयात् ॥ ३० ॥
तासां तु प्रथमं कुर्यादनुरूपं क्रियापथम् ॥
स्नेहपानमथाम्भ्यङ्गं निरुहमनुवासनम् ॥ ३१ ॥
विश्रा(स्त्रा)वणं वेधनं च शीतलं परिषेचनम् ॥
विलायनं शोधनं च दद्याद्रोपणमेव च ॥ ३२ ॥
१ क. शरा । २ क. प्राणहरो । ३ क. युतः । ४ क. ०द्रर्षिं स० ।

मूलश्च कण्डूमांश्चैव यो भवेत् ॥ Wait,महापर्यन्तमूलश्च! Look at महापर्यन्तमूलश्च: म ह ा प र् य न् त म ू ल श् च`

Line 28:
समस्तैर्लक्षणैरेभिर्वातपित्तकफात्मकैः ।
स म स् तै र् ल क्ष णै रे भि र् व ा त पि त् त क फ ा त् म कै ः ।

Line 29:
संनिपातात्मकं विद्याद्व्रणं व्रणविभागवित् ॥

Line 30: divider line:
------------------------------------------------------------------------

Line 31: Footnote:
१ ख. निर्विशेषेण । २ क. ॰गतः ॥ अ° ।
Wait, before १ ख. is there a symbol?
Look at the start of footnote line:
There is a small circle or degree sign or avagraha?
It looks like: `१ ख. निर्विशेषेण । २ क. ॰गतः ॥ अ

१७६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
अतः परं व्रणावस्थान्तरहेतून्वक्ष्यामः—क्रियाविपर्ययादुत्तानशयमलवधब-
न्धप्रतिहस्त्यभिघातपतनाध्वगमनाद्वैद्योपरोधाच्च ये द्वियोनयो व्रणाः संभ-
वन्ति । इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिक-
ठिनः, तमसाध्यं विद्यात् । मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात् ।
अथवा यस्य नागस्य कृष्णः परिशुष्को विगन्धो व्रणः, तमसाध्यं विद्यात् ।
कोष्ठान्तर्गतः परिश्रा(स्रा)वी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात् ।
आ(औ)दुम्बरमुखः शोणितपरिश्रा(स्रा)वी व्रणः कठिनः, तमसाध्यं विद्यात् ।
वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यं विद्यात् ।
बिम्बोष्ठ उन्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात् ।
मर्माभिघातशोणितपरिश्रा(स्रा)वी जलयन्त्रवत्, तमसाध्यं विद्यात् । पूयशो-
णितपरिस्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसाध्यं विद्यात् । मांसावगा-
ढोऽस्थिभागाश्रित आड(औदु)म्बरमुखः, तमसाध्यं विद्यात् । सिरानुगतः
परिस्रावी पिच्छिल आध्मातो व्रणः, तमसाध्यं विद्यात् । अथ कठिनोष्ठः सवे-
दनः सशोफः, तमसाध्यं विद्यात् ॥
तत्र श्लोकः—
निर्गन्धो ह्यपरिस्रावी पद्मपत्रप्रभो व्रणः ।
निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
व्रणचिकित्सितं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः ।
अत ऊर्ध्वं नाडीव्रणसमुत्थानचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह
भगवान्पालकाप्यः—अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातैः
पञ्चविधा नाड्यो भवन्ति ॥
यदा तु शल्यं प्रविशत्यन्तर्देहे वारणानां वातपित्तकफादिभिर्दोषैर्दुष्टैर्मांस-
शोणितं भूयः स्वभागानुगतं कालप्राप्तो न निवार्यते शस्त्रैरन्तर्देहे ततः पूयब-
हुत्वात्समुदीर्यते । ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति । ततो धातूनभ्य-
न्तराश्रितान्दूषयित्वा तद्गतमगमनाद्रुतिरुच्यत इति । अजस्रं यतः स्रवति पूयं
पिच्छिलं विवर्णं नाडीवत् । तस्मान्नाडीमभिनिर्दिशेदिति ॥
१ क. ॰दुत्थान॰ ।

१९ नाडीव्रणचिकित्सिताध्यायः] हस्त्यायुर्वेदः । ४७७
गन्धाः स्रावाश्च वर्णाश्च व्रणानां ये प्रकीर्तिताः ।
वातादिदोषप्राप्तानां नाडीष्वपि हि तान्विदुः ॥
इति नाडी पञ्चविधाऽऽख्याता ॥
तत्र श्लोकः—
नाव्रणा जायते नाडी व्रणादेवोपजायते ।
प्रमादाद्वाऽपि वृद्धा सा कृच्छ्रसाध्या ध्रुवं भवेत् ॥
अत ऊर्ध्वं येषु भागेषु व्रणा नाड्यो वा साध्याः, तान्व्पारुपास्यामः । तत्र
दन्तेवेष्टास्थिसंधिकक्षानुगता नखनयनमर्मतलप्रोहविष्कापस्कराष्ठीव्यपलि(त)ह-
स्तनस्वान्तरप्रत्यङ्गप्रतीकाशकुक्षिपङ्कुलिमण्डूकीवक्त्रसक्थिसकुटिकान्तरापरिक्षो-
भजवेभागोत्कृष्टावग्रहे वंशरन्ध्राण्डकोशगात्रसंदानक्षयभागस्रोतोन्तरतालुनाभि-
मेढ्रकर्णतलसंधितलवातकुम्भत्रयस्थिजघनगुह(द)भागेषु चेति ॥
तत्र श्लोकः—
भागेष्वेतेषु या नाड्यो गम्भीरानुगताश्च याः ।
तासु सम्यकप्रयुक्ताऽपि क्रिया दुःखेन सिध्यति ॥
अथ या नाडी (?) तिर्यग्गता परंपरागता मण्डलावर्ता कुटिला अनुगता
(*बहुप्रदेशानुगता दन्तवेष्टे(ष्ठे)ऽनुगता अस्थिसंधिगता नेत्रानुगताश्च भव-
न्त्येता या नाड्यः, तासु सिद्धिर्न भवति । त्वचमनुगता) अधोमुखा या नाड्यः
साध्या भवन्ति ताः ॥
तत्र श्लोकौ—
अनुनीय भिषक् सम्यक् परिमृश्य च भागशः ।
छिन्द्यात्तु नाडीं शस्त्रेण अनुलोमं प्रयत्नतः ॥
• शस्त्रमेव तु भेषज्यं ये शस्त्रकुशला नराः ।
उत्तानो हि व्रणो राजन्क्षिप्रमेव प्ररोहति ॥
अथाङ्गराजः पुनरेव पप्रच्छ पालकाप्यम्—'भगवन् यत्र शस्त्रपथो नास्ति
नास्ति क्षारपथोऽपि वा, तत्र वारणानां माडीव्रणचिकित्सितं कथं कर्तव्यम् ॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु यदा वैद्यः शस्त्राग्निक्षारकर्म-
क्रियासु विशेषं नोपलभते, तदा त्रिकटुकहरिद्रालाङ्गलकीदन्ती(†समभागानि
[पिष्ट्वा नाडीव्रणपूरणं दद्यात् । शृङ्गीकटुकरोहिणीगवेधुकार्क मूलविडङ्गसर्षपा-
*धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके। †धनुराकारमध्यस्थो नास्ति
पाठः कपुस्तके।
१ क. ०न्तचेष्टा० । २ क. ०वनोत्कृ० । ३ क. ०मृष्य च ।

१७६ पालकाप्यमुनिविरचितो- [?]
न्गोमूत्रपिष्टान्यातपशुष्कां गुलिकां नाडीव्रणदोषप्रशमनीं कुर्यात् । निम्बार्कपू-
तीकरञ्जकरवीरपत्रतिलक्षारलवणैः समभागैः पिष्टां गुटिकां नाडीव्रणविशुद्धय-
र्थमप्रमत्तो भिषग्दद्यात् । कुष्ठतगरहरिद्राचित्रकसैन्धवतिलकुतिलक्षारारस१म-
भागानिप्पाऽश्वमूत्रेण गुलिकाः कार्याः । आतपशुष्का नाडीव्रणलेपनमुत्तमं
दद्यात् । सैन्धवलवणकिण्वदन्त्यतिविषाचित्रकमूलोत्तमकरणास्तिलक्षाराः सम-
भागाः पिष्टा, आतपशुष्का नाडीव्रणानां सपूयानां शोधनं दद्यात् । स्वर्णक्षी-
रातगरविडङ्गमहोषधशुकनासादन्ती)देवदारुसैन्धवलवणं समभागं पिष्टा गुटि-
कामातपशुष्कां नाडीव्रणशोधनं दद्यात् । ग्रन्थिर्यस्य भवति पक्वः सपूयः
पिच्छिलः, तच्छोधनमिदम् । हस्तिलिण्डरसं किण्वलवणं चाऽऽलेपनमप्यग्रं प्रद-
द्यात् । सर्षपचित्रकदन्तीसैन्धवमिति । स्नुहीक्षीरपिष्टं कृत्वा दुष्टव्रणशोधनं
दद्यात् । चित्रकनागदन्तीयवक्षारपिष्टं दुष्टव्रणचिकित्सितमिति २ । पाठामधुरसा-
दन्तीमधुकानि सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात् । दन्तीशुकनासार्क-
मूलं सैन्धवलवणसंयुक्तं दुष्टव्रणशोधनं दद्यात् । चित्रकसर्षपतेजोवतीदन्तीश्वे-
तालवणसंयुक्तं प्रदुष्टव्रणलेपनं दद्यात् । हरिद्रादारुहरिद्राशुकनासादन्तीकटुरो-
हिणीबिल्वसैन्धवलवणसंयुक्तं समभागपिष्टं व्रणशोधनं दद्यात् । पाठादन्त्यति-
विषाविषाग्नादेवदारुयवक्षारसंपुक्तं व्रणशोधनं दद्यात् । पिचुमन्दनक्तमालपत्राणि
पिष्टा कांस्यनीलयुक्तं व्रणरोपणं दद्यात् । मुष्ककाक्षीवतिलकुतिलक्षारसर्षपयुक्तं
क्षिप्ररोपणं घृतसंयुक्तं ३ दुष्टव्रणलेपनमुत्तमं दद्यात् ॥
तत्र साध्यानां शस्त्रकर्मोपक्रमविशेषाननुव्याख्यास्यामः॥
अथ भिषग्गजाध्यापोक्तेन विधिना सुयन्त्रितं वारणमभिविश्वोंस्याऽऽशु(श्रि)त्य ४
स्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नाडीव्रणमेषण्या च विदित्वा वृद्धिपत्रेण
शस्त्रेणानुलोमं पूयप्रतिहरणार्थं छेदं कुर्यात् । ततश्चात्र किण्वसैन्धवक्षोद्रसर्पि-
र्यवक्षारैः श्लक्ष्णपिष्टैः क्षौमं वस्त्रं प्रलिप्य वर्तिं प्रणिदध्यात् । अथाकँक्षीरपलाश-
लाङ्गलीश्यामातृ(त्रि)वृद्दन्तीचित्रकपवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिका हरि-
तालपिप्पलीमूलश्ववकशङ्गिन्वर्कक्षीरयुक्तं केल्कं ५ शोधनं दद्यात् । तकार्यारग्वध-
पटोलशङ्गिन्चश्वगन्धानक्तमालमधुकजीवकाङ्कोल्लखदिरवनकर्पासीहरिद्रासुरसा-
सप्तपर्णिनिम्बकरवीरकुटजास्फोटारोहिणीक्षीरिण्यामलकीः क्वाथयित्वा तेन नाडीं
रोपयेत् । शङ्खिनीचित्रकतेजोवतीतृ(त्रि)वृद्धीवेरदन्तीकुष्ठकटुरोहिणीस्नुहीसु-
वर्णक्षीर्यर्कक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम् । बृहत्यश्वगन्धाजशृं-
१ क. ०क्षारासं० । २ क. ०कुक्षिति० । ३ क. घृतसंसृष्टं । ४ क. ०श्वास्य
मृत्य । ५ ख. कल्कशोधनं ।

द्वेहरिद्रासर्षपपाठाचित्रकपिपलीमूलमूर्वाकोशातकीकटुकालाबूकालात्रपुसीसं-
मदनफलानि च गवां मूत्रेण पी(पे)षयित्वा गवां मूत्रेण तैलं पचेत् । ततः पारं-
पकेन नाडीः शोधयेत् । अथ जीवन्त्यारग्वधगोजीमुष्ककटुतुम्बकमञ्जिष्ठाक्षीर-
वृक्षमवालैः श्लक्ष्णपिष्टैर्वर्तिरोहणमुपदध्यात् । शल्लक्यश्वकर्णमुष्ककाशमन्तक-
करवीरारग्वधादिवृक्षाणां त्वक्कथयित्वा रोपणार्थं कषायमेतैरेवौषधैर्जीवन्त्यार-
ग्वधादिभिः सर्पिस्तैले कषायगर्भे रोपणार्थं विपाचयेत् ॥
अथातोऽग्निकर्म व्याख्यास्यामः ।
नाडीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिर्वर्तिवदनुवृत्तां गुलिकां कुर्यात् ।
पावदाहस्य सोष्मणः प्रवेगोपशमः स्यादिति । भतो द्विव्रणीयोपचारः ॥
(* इति शस्त्रकर्माग्नि†.... .... .... .... ।
........कथयिष्यामः । मर्मोपचारान्व्याख्यास्यामः ॥ )
अथ चेच्छस्त्राग्निकर्मणार्त्तमार्गः( ?) स्यात्तत्र नाडीदोषनिर्हरणार्थं भेषज-
विधिमनुव्याख्यास्यामः । पवतगरपिचुमन्दपूतीकरञ्जकुष्ठैलामलककरवीरार्क-
पत्राणि तिलकुतिलक्षारसयुक्तान्यश्वमूत्रेण पिष्ट्वा गुलिकाः कृत्वाऽर्कक्षीरसंतप्त¹-
नाड्यां निदध्यान्नाडीदोषनिर्हरणार्थम् । अथवाऽञ्जनतगरकुष्ठदरितालमनःशि-
लाकटुरोहिण्यश्वगन्धालाङ्गलीसोराष्ट्रीरोचनासुरसावराचित्रकबिल्वसर्षपखदिर-
सारगवाक्षीदन्तीविडङ्गान्यर्कशोभाञ्जनकमूलानि च तिलक्षारेण पिष्ट्वा गुलिकाः
कारयेत् । ता नाड्या(ड्यां) निदध्यादर्कसंतप्तनाडीदोषनिर्हरणार्थं चेति ॥
अंत ऊर्ध्वं क्षारकपम(र्मा)नुव्याख्यास्यामः ॥
मुष्ककपलाशतिनिशसर्जारग्वधकरञ्जचिरिबिल्वशिग्रुककुतिलस्फूर्जकपाटला-
रिमेदपारिभद्रककरवीरापामार्गाश्वगन्धावरार्जुनकुटीकुटजतिलकतिलसौगन्धि-
कावल्गुजकटुकतुम्बीकूष्माण्डीकाकजङ्घाकोशातकीवेतसबिल्वमाचाचलसप्र-
र्णकृतमालहरिद्रानीपयवनानि चेत्येवं संभृत्य संभारं काण्डशः कल्पयित्वाऽऽदि-
त्यशोषितमीषच्छुष्कं दाहयेद्विविक्तदेशे त्वतृणभूमिभागे।ततो भस्म समादाय महा-
भाजनस्थं पुनः श्रा(स्रा)वयेदजाविगोमहिष्यश्वाश्वतरखरोष्ट्राणां मूत्रैः । ततः
सुपरिश्रु(स्रु)तं तैलमायसे कुम्भे शनैर्मृद्वग्निना पचेत् । तत्राऽऽवपेल्लाङ्गलीकीदन्ती-
चित्रकपिपलीमूलतीक्ष्णगन्धाश्वगन्धापलमरिचशृङ्गवेरस्वार्जिकापवक्षारविडसै-
न्धवखञ्जर्र्कक्षीराणि शनैर्दर्य्या घट्टयेद्यावन्निःशर्करं स्निग्धसान्द्रश्लक्ष्णमथ पाको
निवर्तते । ततो वैश्वानरपूजां कृत्वा कृष्णायसे² निर्मले भाजने³ स्थापयेत्तत्पि-

  • धनुश्चिह्नान्तरगतः पाठस्तुल्यो द्विपुस्तके । † पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते ॥
    १ क. ॰र्करसं तत॰ । २ क. कृष्णायमे । ३ क. भोजने ।

धाने त्र्यहं सप्ताहं वा। ततश्च प्रत्यहनि(?) शिरःस्रावो वेधोऽहतवासा ब्राह्म-
णान्स्वस्ति वाच्य ततः शस्त्रेण संशोध्य नाडीमुखं वीक्ष्येन रुधिरपूयपरिस्रावा-
न्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाकां क्षारेण प्रलिप्य क्षारबलं
चावेक्ष्य निपातयेत् ॥
अथवाऽऽर्द्रां वर्तिं गुलिकां वा कृत्वा निपातयेत् । पक्वजाम्बवसंकाशां गति-
मवेक्ष्य क्षारमथ निवर्तयेत् । अथ मोहात्प्रमादाद्वाऽतिदग्धं वेपथुश्वसनजृम्भणप्र-
मोहशोषदाहज्वरशो(?)षितातीवातिप्रवृत्ति(?)तमेवमवस्थमभिसमीक्ष्य धान्या-
म्लदधिमस्तुसु(शु)क्तसौवीरकाणामन्यतमेन सेचयेत् ॥
अथवा दध्यम्लबदरोत्क्लेदमातुलुङ्गरसानामन्यतमेन सेचयेत् । दाडिमतिन्ति-
डीकाम्रपेशीश्च कृष्णतिलसंयुक्तं कल्कं शुक्ते(क्ते)न पी(पे)षयित्वा घृताक्तमालेपनं
दद्यात् । क्षीरदधिसर्पिर्मेदोवसाभिश्च सततमनुलिम्पेत् । शस्त्राग्निप्रणिधानोक्तवि-
धिरनुक्षेपः ॥
अथारिमेदार्जुनकदम्बरोध्रारग्वधक्षीरिकासोमवल्कस्यन्दनमेषशृङ्गीधवशिरो-
षशालार्जकर्णबदर्यङ्कोटपलाशवञ्जुलधातक्यरिमेदान्संहृत्याष्टगुणे ह्यम्भसि क्वाथ-
यित्वा पादावशिष्टमवतार्य श्रा(स्रा)वयित्वा तेन रसेन तैलद्रोणं पाचयेत् ।
पच्यमाने चात्र गिरिकर्णिकाश्वगन्धापातातिल्लकमालत्यलाबुशिशिपानागद-
न्तीमूर्वाशुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्चेनं बिल्व-
प्रमाणं समावपेत् । सिद्धमपहृत्य भूयो गुडपलशतं पिप्पलीचूर्णप्रस्थेन पुनर-
प्यधिश्रयेत् । तत्सिद्धमवतार्य सुसंस्कृतं स्नेहविधिमोक्तेन विधिना पाययेत् ।
न्यग्रोधोदुम्बराश्वत्थमधूककदम्बधवकदरमहाजम्बूपलाशप्लक्षश्रीपर्णीमेषशृङ्गीपू-
तीकप्रियङ्गुवज्रकर्णककुभानां त्वचः समाहृत्य वृक्षादन्यश्वगन्धावर्षाभूर्पोरटाह-
रिद्राद्वयपृश्निपर्णीविन्नाभद्रोदुम्बरीसुवहानां मूलैः सह निष्क्वाथयेत् । क्वाथावशे-
षेणानेन तैलं विपाचयेत् । तत्र च दारुहरिद्राहरेणुकेलाप्रियङ्गुमञ्जिष्ठा चेति ।
तत्सिद्धमपहृत्य स्नेहपानोक्तेन विधिना पाययेत् । ततोऽस्य नाडी समाधिमुप-
गच्छति ।
न्यग्रोधोदुम्बराश्वत्थप्लक्ष मधूकजम्बूपलाशानवेतसखदिरबिल्वकदम्बश्रीपर्ण्य-
जकर्ण्यवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहृत्य
चतुर्षु तोयकुम्भेषु क्वाथयेत् । अर्धावशिष्टमवतारयेत् । ततः प्रातरुत्थितमप्रसे-
तवन्तं (?) वारणं पाययेदर्धप्रस्थं कुडवं वा । यावद्वा संपिबति नागस्तावदद्या-
न्नाडीव्रणविशुद्धयर्थम् । लाङ्गलीचित्रककुटजकरवीरमातुलुङ्गपत्रैः सप्तभ्वलवण-

१ क. सुखं पि० ।

१६ शिराव्यूह्योध्यायः ] हस्त्यायुर्वेदः । ४८१
हरिद्रायष्टीमधुकं चेति, आन्तरिक्षोदकसंयुक्तैस्तैलं पाचयेत् । ततोऽस्य बस्ति-
नेत्रेण पिचुनाऽपि व्रणनाड्यां तैलमिदं दद्यान्नाडीव्रणविशुद्ध्यर्थम् । यदि हृद-
यगता नाडी, अन्यं वा गूढप्रदेशमुपगता ततोऽस्य तैलपानाभ्यङ्गेन च नाडी
प्रशान्तिमुपगच्छति ॥
मुद्गो(द्रौ)दनं घृतसंयुक्तं दद्यात् । यवसानि च हरितमृदूनि क्रमश्रो मत्स्य-
पिण्डकागर्भाणि दद्यात् ॥
तत्र श्लोकः—
यथोक्तेनोपचारेण यस्तु प्रक्रमते व्रणान् ।
आगन्तुर्दोषजो वाऽपि तस्य सिद्धिर्नियच्छति ॥
इति श्रीपालकाप्ये गजायुर्vede महाप्रवचने महापाठे तृतीये शल्यस्थाने
नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अथ षोडशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १ ॥
कति वातवहा विद्वन्कति पित्तवहाः शिराः ॥
श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः ॥ २ ॥
श्वे(स्वे)दं मदं वा शुक्रं वा का वहन्ति द्विजोत्तम ॥
का मांसमस्थि मेदो वा मज्जानं वा वहन्ति काः ॥ ३ ॥
काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति ॥
˙सिराणां निचयं कृत्स्नं यथावद्वक्तुमर्हसि ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः ॥
विस्तरेण यथातत्त्वं सिराविचयमब्रवीत् ॥ ५ ॥
गर्भस्य हृदयं पूर्वं सह प्राणेन वर्धते ॥
ततः सिराः संभवन्ति सूर्यादिव गभस्तयः ॥ ६ ॥
सर्वाः शरीरसंसृष्टास्तिर्यगूर्ध्वमधस्तथा ॥
सर्वाश्चेष्टाः प्रकुर्वन्ति सिरा वै यन्नवर्धिते ॥ ७ ॥
तस्मात्तु मातृके द्वेऽग्रे(?) हृदयात्कण्ठमाश्रिते ॥
जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् ॥ ८ ॥
१ क. प्राणेन । २ क. °मथापि वा ॥ स° ।
६१

४८२ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने .
'ततः कण्ठे च मध्य च धमन्योऽष्टौ समाश्रिताः ॥
कर्णयोस्तु तथा विद्यात्ताभिस्तु परिबीजति ॥ ९ ॥
ततः शिरा बस्तिकोषमुरो वालं गुदंस्तथा ॥
मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा ॥ १० ॥
एवमङ्गेषु सर्वेषु मातृका देहगोचराः ॥
काये शिराः सप्तशतं विभागाः शृणु पार्थिव ॥ ११ ॥
गुदं मेढ्रमथो नाभिं तत्र बस्तिं समाश्रिताः ॥
ताभिः संमूर्च्छितो वायुर्धमनीः प्रतिपद्यते ॥ १२ ॥
शतार्धमेव ता विद्याच्छिरा वै देहगोचराः ॥
या रसान्प्रविभागेन(ण) वायुमेव वहन्ति ताः ॥ १३ ॥
नाभेस्तु हृदयं यावदपरा परतस्तु या ॥
ताभिः संमूर्च्छितं पित्तं धमनीः प्रतिपद्यते ॥ १४ ॥
शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः ॥
उरःसंधिशिरोग्रीवं मर्माणि च समन्ततः ॥ १५ ॥
ततः संमूर्च्छितः श्लेष्मा धमनीः प्रतिपद्यते ॥
विद्धि पञ्चाशदेवैताः शिराः श्लेष्मवहा गजे ॥ १६ ॥
तावन्त्या(त्यः) फुप्फुसयकृद्धृदयानां च मध्यतः ॥
पा रसानुविभागेन शोणितं संवहन्ति तु ॥ १७ ॥
त्वङ्मांसमध्ये विज्ञेयाः शिरा रसवहाः पृथक् ॥
यथास्थानविभागेन धातूनाप्याययन्ति याः ॥ १८ ॥
मांसमेदोस्थिमज्जानां शुक्रस्य च नराधिप ॥
एकैकस्याः शतार्धं तु शिरा ज्ञेयाः पृथक्पृथक् ॥ १९ ॥
दोषधातुप्रकर्षेण हर्षेण च बलेन च ॥
मदः संजायते राजन्स्वभावाच्चैव दन्तिनाम् ॥ २० ॥
शतार्धमेव तु शिराः पृथङ्मदवहाः स्मृताः ॥
या रसानुविभागेन कटौ मेढ़े च संस्थिताः ॥ २१ ॥
समासात्कण्डरा ह्यष्टौ विद्धि गात्रापरे तथा ॥
पश्चात्पुरस्ताच्चैकैकं पादं प्रत्येकमाश्रिताः ॥ २२ ॥
सूक्ष्मो विचारी परुषः कटुः शीतश्च मारुतः ॥
उष्णमम्लं द्रवं पित्तं विवर्णं दारुणं भृशम् ॥ २३ ॥
१ क. परिजीव्यति । २ क. शिरो । ३ क. ०च्छिरो वै । ४ क. ०भावञ्चैव ।