सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 486, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 486

१२ शल्योद्धरणाध्यायः ] हस्तिआयुर्वेदः । ४१७
वामेन तु मुखाभ्यास उत्तानेनैव पाणिना ॥
दक्षिणेन तु हस्तेन दृढं यन्त्रं निपीडयेत् ॥ ४७ ॥
आहरेत्तु ततः शल्यं क्रियायोगेन दन्तिनाम् ॥
त्वग्गतं शल्यमेवं स्यादाहर्त्तव्यं विजानता ॥ ४८ ॥
मांसोपचितदेहस्य मांसभागमुपाष्ट(श्रि)तम् ॥
यदा न दृश्यते शल्यं तस्य वक्ष्याम्युपक्रमम् ॥ ४९ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्यमुद्धरेत् ॥
शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥
तस्योपायं प्रवक्ष्यामि यथा शल्यं प्रदृश्यते ॥
गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा ॥ ५१ ॥
व्यायामं कारयेत्तस्य तथैव विषमेऽध्वनि ॥
भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥
शीघ्रं प्रच्यवते स्थानात्तस्मादेनं विचारयेत् ॥
वेदनां कुरुते तीव्रां यत्र तेनोपनाहयेत् ॥ ५३ ॥
एषिण्या गतिमासाद्य पूर्ववच्छल्यमुद्धरेत् ॥
स्नायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥
सिराजालमते शल्ये या क्रिया तां समाचरेत् ॥
यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५५ ॥
चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ॥
बद्ध्वा चङ्क्रमयेच्छीघ्रं लङ्घयेत्प्लावयेदपि ॥ ५६ ॥
संधौ व्यापृच्छमानस्य रुजा शोफश्च जायते ॥
ततस्तं पूर्ववद्बद्ध्वा यन्त्रैः शल्यं समुद्धरेत् ॥ ५७ ॥
यदा न दृश्यते शल्यमस्थिकायप्रतिष्ठितम् ॥
बहुमांसशरीरत्वाद्विजानां तु नराधिप ॥ ५८ ॥
स्वभ्यक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् ॥
यथोक्तां मांसदेशस्थे क्रियां तद्वत्समाचरेत् ॥ ५९ ॥
अथ शल्यं न कम्पेत दृढं लग्नं यथा स्थितम् ॥
वा(?)ङ्गमूले तद्बद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥
स्रोतःसु च यदा शल्यं सिराणां संगमेषु च ॥
घटयन्नेव तत्प्राज्ञो मर्मदेशे च यद्भवेत् ॥ ६१ ॥