हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 490, कुल 742 में से
संदर्भ में पढ़ें१२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४७१
अप्राप्तसंधिशल्ये च शल्यनिर्हरणं भवेत् ॥
विशल्यं च व्रणं कृत्वा प्रतिकर्म समाचरेत् ॥ ७ ॥
लम्बितं व्यथितं छिन्नमवकृतं च यद्भवेत् ॥
दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत् ॥ ८ ॥
क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत् ॥
पूर्वोक्ता च क्रिया तस्य कारयेद्व्रणशान्तये ॥ ९ ॥
विद्धः शरेण काकोला ..........च्छिन्नरोहयोः ॥
.................... चूर्णैश्च प्रतिचूर्णयेत् ॥ ११० ॥
अथास्य शोफो भवति तेनैव प्रतिलेपयेत् ॥
क्षीरवृक्षकषायेण सर्पिषा चैव धारयेत् ॥ ११ ॥
शुध्यते च व्रणं तस्य क्षिप्रं चैव प्ररोहति ॥
अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२ ॥
स्व(श्व)पथोर्दिग्धविद्धस्य पूतिमांससमुद्भवः ॥
श्रा(स्रा)वो भवत्यशुद्धश्च भिन्नवर्णश्च जायते ॥ १३ ॥
स तप्तदेहश्च भवेच्छोफशेषश्च जायते ॥
एतानि पूर्वरूपाणि दिग्घविद्धस्य हस्तिनः ॥ १४ ॥
व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा ॥
नस्यं तस्य ततो दद्याद् गदं चानुपाचयेत् ॥ ११५ ॥
शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव ॥
स्तब्धो विवर्णो निःसुप्तो(?) व्रणो यस्य तु हस्तिनः ॥ १६ ॥
स्थापयित्वा युतं स्थाने पञ्चापित्वा यथाक्रमम् ॥
तन्तुसूत्रपटैर्वाऽपि क्षौमसूत्रेण वा भिषक् ॥ १७ ॥
सुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् ॥
मधुव्रणविधानेन प्रतिकुर्याद्द्विपगवरः ॥ १८ ॥
इतीह पृष्टो भगवानङ्गराजेन धीमता ॥
पालकाप्यः क्रियामाह शल्यस्योद्धरणं प्रति ॥ ११९ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने
शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥