हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 489, कुल 742 में से
संदर्भ में पढ़ें१७० पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने ]
पीलुशृङ्गमथनैः शिखराग्रैस्त्रिकण्टकैः ॥
शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥
गोधामुखेन यन्त्रेण सर्वेषामनुपूर्वशः ॥
कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥ ९३ ॥
इति कर्णसीचारकं शृङ्गशीर्षं त्रिकण्टकम् ॥
तालीकमर्धतालीकं तथा वेतसपत्रकम् ॥ ९४ ॥
शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः ॥
अन्यैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥
कर्णभङ्गेन भङ्क्त्वाऽथ कर्णतस्य(?)प्रवर्तयेत् ॥
अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ ९६ ॥
यन्त्रयित्वा च तं सम्यक्सिद्धार्थः कुशलो भिषक् ॥
यन्त्रं सिंहमुखं नाम तेन तानुद्धरेच्छनैः ॥ ९७ ॥
पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि ॥
नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत् ॥ ९८ ॥
मुकुलाग्रं च कर्तव्यं मण्डूकवक्त्रेण पार्थिव ॥
यन्त्राणां च विभागं च शल्यानां च महीपते ॥ ९९ ॥
कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे ॥
मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽनघ ॥ १०० ॥
तेषु विद्धस्य नागस्य शल्यं सद्भिप्रणश्यति ॥
अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥
युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥
अभ्यङ्गालेपनाद्याभिः सिद्धार्थव्रणशोधनम् ॥ २ ॥
मस्तकेऽथ शरेणेव विद्धस्यान्येन केनचित् ॥
अनिर्गते निर्गते वा न स जीवति वारणः ॥ ३ ॥
आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा ॥
अनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥
उपर्यापामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् ॥
शोणितानुगतो भूत्वा स्याद्घातव्याधिरन्तकः ॥ १०५ ॥
कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः ॥
विद्धस्यापनयेच्छल्यं मर्माणि परिरक्षयेत् ॥ ६ ॥