सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 484, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 484

११ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । ४५६
बाह्यमेतद्भवेच्छल्यं प्रकारैर्बहुभिर्युतम् ॥
शोणितं त्वस्थि मांसं च शिरा स्नायुभि वाऽप्यथ ॥ १७ ॥
पूपं(पूयं) चापि भवेच्छल्यमेतत्सर्वं शरीरजम् ॥
तत्र बाह्यानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥
शरीरजेषु चास्थीनि दारुणानि विनिर्दिशेत् ॥
शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥
निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते ॥
यानि दारुणशल्यानि तानि सर्वाणि भूपते ॥ २० ॥
गूढतां याति कालेन शरीरस्थानि दन्तिनाम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं नृप ॥ २१ ॥
वेदनाऽथ परिश्रा(स्रा)वः शोफः स्तम्भः परिग्रहः ॥
व्रणं शल्यमुखस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥
दुर्गन्धः पिच्छिलश्चापि स्रावस्तत्र प्रवर्तते ॥
स लोहितश्च विच्छिन्नः कदाचिच्चापि संहतः ॥ २३ ॥
अष्टानां व्रणवस्तूनां यच्च वस्तु समाश्रितम् ॥
सादृश्यं तस्य च पुनः कदाचिच्छ्र(स्र)वति श्र(स्र)वम् ॥ २४ ॥
एतैर्लिङ्गैस्तु विज्ञेया व्रणाः सम्यग्भिषग्वरैः ॥
ईषंदुन्नत उत्सन्नं त्वचं लक्षेत दन्तिनः ॥ २५ ॥
मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति ॥
शिरास्नायुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥
चेष्टानिरोधः संधौ तु महांश्च श्वयथुर्भवेत् ॥
अस्थिभेदस्त्वस्थिगते तेन न श्र(स्र)वति व्रणः ॥ २७ ॥
गुणोपरोधः श्रो(स्रो)तः स्याद्यस्मिंस्तिष्ठति श्रोतसि ॥
कोष्ठस्थे रक्तसंसृष्टं विसंश्र(स्र)वति च व्रणः ॥ २८ ॥
गुदः श्र(स्र)वति चात्यर्थं द्विपस्त्वानह्यते च सः ॥
संध्यस्थिधमनीस्नायौ सद्यःप्राणहरेषु च ॥ २९ ॥
वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् ॥
मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥
अत ऊर्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥
अनिर्हतानि तिष्ठन्ति वर्षाणि सुबहून्यपि ॥ ३१ ॥
५९