हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 483, कुल 742 में से
संदर्भ में पढ़ेंप्रनष्टशल्याहरणं यथावद्वक्तुमर्हसि ॥
यष्टितोमरशक्त्युष्ट्रिकिणयः सपरश्वधैः ॥ २ ॥
शरैश्च विविधैर्घोरैः परप्राणापहारिभिः ॥
नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥
भल्लैर्वराहकर्णैश्च क्षुरमैरिक्षुपत्रकैः ॥
पीलुशङ्कुप्रमथनः शिखराग्रैः सकण्टकैः ॥ ४ ॥
सावरैरर्धकर्णैश्च शृङ्गशीर्षैस्तु कण्टकैः ॥
नालीकेरैर्धनालीकैस्तथा वेतसपत्रकैः ॥ ५ ॥
मुकुलाग्रैर्विकीर्णैश्च मुद्गरैः कूटमुद्गरैः ॥
एतैश्चान्यैश्च विद्धानां विप्रनष्टैर्महामुने ॥ ६ ॥
दृश्यन्ते वारणेन्द्राणां गूढशल्याः सुदारुणाः ॥
व्रणा हि बहुविश्रा(स्रा)वा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥
गम्भीरा वेदनाप्रायाः सशोणितपरिश्र(स्र)वाः ॥
न शोधनैः कषायैर्वा विशुध्यन्ति कदाचन ॥ ८ ॥
तेषां यथा चिकित्सा च शोधनं तु सुखं भवेत् ॥
कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥
असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥
ब्रह्मा शास्त्रमिदं प्राह पूर्वमेव प्रजापतेः ॥
प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः ॥ ११ ॥
अश्विनौ चापि तौ देवानृषिभ्यः प्रत्यभाषताम् ॥
प्रनष्टशल्याहरणं पालकाप्यो महायशाः ॥ १२ ॥
सद्यःक्षतविधाने च द्विव्रणीये च तन्मया ॥
व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम् ॥ १३ ॥
शल्यस्य विप्रनष्टस्य लक्षणं शृणु पार्थिव ॥
स्थानान्येतानि जानीयाद्येषु शल्यं प्रणश्यति ॥ १४ ॥
तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध मे ॥
छविर्मांसं तथा मेदः संधिः स्नायुस्तथाऽस्थि च ॥ १५ ॥
कोष्ठश्चो(स्रो)तांसि चैवैषां स्थानान्येतानि विद्धि वै ॥
तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥