सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 495, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 495

१७६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
अतः परं व्रणावस्थान्तरहेतून्वक्ष्यामः—क्रियाविपर्ययादुत्तानशयमलवधब-
न्धप्रतिहस्त्यभिघातपतनाध्वगमनाद्वैद्योपरोधाच्च ये द्वियोनयो व्रणाः संभ-
वन्ति । इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिक-
ठिनः, तमसाध्यं विद्यात् । मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात् ।
अथवा यस्य नागस्य कृष्णः परिशुष्को विगन्धो व्रणः, तमसाध्यं विद्यात् ।
कोष्ठान्तर्गतः परिश्रा(स्रा)वी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात् ।
आ(औ)दुम्बरमुखः शोणितपरिश्रा(स्रा)वी व्रणः कठिनः, तमसाध्यं विद्यात् ।
वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यं विद्यात् ।
बिम्बोष्ठ उन्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात् ।
मर्माभिघातशोणितपरिश्रा(स्रा)वी जलयन्त्रवत्, तमसाध्यं विद्यात् । पूयशो-
णितपरिस्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसाध्यं विद्यात् । मांसावगा-
ढोऽस्थिभागाश्रित आड(औदु)म्बरमुखः, तमसाध्यं विद्यात् । सिरानुगतः
परिस्रावी पिच्छिल आध्मातो व्रणः, तमसाध्यं विद्यात् । अथ कठिनोष्ठः सवे-
दनः सशोफः, तमसाध्यं विद्यात् ॥
तत्र श्लोकः—
निर्गन्धो ह्यपरिस्रावी पद्मपत्रप्रभो व्रणः ।
निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
व्रणचिकित्सितं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चदशोऽध्यायः ।
अत ऊर्ध्वं नाडीव्रणसमुत्थानचिकित्सितं व्याख्यास्यामः—इति ह स्माऽऽह
भगवान्पालकाप्यः—अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातैः
पञ्चविधा नाड्यो भवन्ति ॥
यदा तु शल्यं प्रविशत्यन्तर्देहे वारणानां वातपित्तकफादिभिर्दोषैर्दुष्टैर्मांस-
शोणितं भूयः स्वभागानुगतं कालप्राप्तो न निवार्यते शस्त्रैरन्तर्देहे ततः पूयब-
हुत्वात्समुदीर्यते । ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति । ततो धातूनभ्य-
न्तराश्रितान्दूषयित्वा तद्गतमगमनाद्रुतिरुच्यत इति । अजस्रं यतः स्रवति पूयं
पिच्छिलं विवर्णं नाडीवत् । तस्मान्नाडीमभिनिर्दिशेदिति ॥
१ क. ॰दुत्थान॰ ।