सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

रजॊ न स्रवते यासां तिर्यग्योनिस्वभावतः ॥
अदृश्यमर्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥ ६१ ॥
उत्पन्नपुष्पा विज्ञेया कामलीलाविचेष्टितैः ॥
समुत्पन्नार्तवा राजन्वृतेङ्गतातेति तां विदुः ॥ ६२ ॥
अहानि द्वादश भवेदृतुस्तस्या नराधिप ॥
तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते ॥ ६३ ॥
ऋतुकाले तु संप्राप्ते धेनुकां पुवते गजः ॥
कल्पः कल्पां महीपाल मुदितो मुदितामपि ॥ ६४ ॥
ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः ॥
तच्छुक्रं भजते योनिप्रच्युतं तस्य मेहनात् ॥ ६५ ॥
योन्या मुखं प्रविष्टं तु गर्भाशयमवाप्य च ॥
ततः संयुज्यते तत्र रक्तेन सह पार्थिव ॥ ६६ ॥
योनि रुधिरसंसृष्टां यदा शुक्रं प्रपद्यते ॥
शुक्रशोणितसंयोगात्कललं संभवेत्ततः ॥ ६७ ॥
जीवः संक्रामति ततो गर्भमित्येष निश्चयः ॥
लब्धबीजा ततो मुक्ता प्रहर्षेण श्रमेण च ॥ ६८ ॥
हस्तिनी दन्तिनं दृष्ट्वा शनैर्विष्टभ्य गच्छति ॥
विनमत्याकम्पयति यथोक्ते कर्णचूलिके ॥ ६९ ॥
कण्डूयते तथा देहं तरुमाश्रित्य सर्वतः ॥
अवगाहं च पङ्कं च शीतां छायां च सेवते ॥ ७० ॥
गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम् ॥
लिङ्गैरैतैर्विजानीयाज्जातगर्भां तु हस्तिनीम् ॥ ७१ ॥
—:०:—
अतःपरं प्रवक्ष्यामि गर्भिण्या लक्षणं नृप ॥
कषायमधुराहारा द्विरदं द्वेष्टि भावतः ॥ ७२ ॥
संजातगर्भा प्रथमे मासे भवति हस्तिनी ॥
मृदुत्वग्जृम्भणपरा द्वितीये कललोद्भवात् ॥ ७३ ॥
योन्या प्रभूतॊदकया तृतीये मासि वारणी ॥
करेणुरलसा च स्यान्मृदुशीताभिनन्दिनी ॥ ७४ ॥
१ क. ॰तुकालमपि शृणु ॥ अ॰ । २ क. संयुध्यते । ३ क. संक्रामति ततो गर्भमित्येष
निश्चयः कृतः । ४ क. लब्धबीजं ततो मुक्त्वा प्र॰ । ५ क. सर्वशः । ६ क. ॰रम्लास्या स्या॰ ।

चतुर्थे मन्दगमना मन्दमन्दोपसेविनी ॥
पञ्चमे पूर्णजठरा पांशुपङ्कजलप्रिया ॥ ७५ ॥
यूथप्रान्तं मृदुसमं देशं षष्ठे निषेवते ॥
अत्यर्थं जृम्भणपरा मन्दवेगा च सप्तमे ॥ ७६ ॥
द्विजान्दशति गम्भीरतोयप्लवनतत्परा ॥
अष्टमे नवमे मासि जलं विष्टभ्य तिष्ठति ॥ ७७ ॥
म्लानानना शीर्णकेशी दशमे क्लान्तलोचना ॥
निद्रामेकादशे द्वेष्टि संवेशोत्थानविक्लवा ॥ ७८ ॥
उन्नद्धनाभिरुन्नता गुरुगर्भतया च सा ॥
करिणी द्वादशे मासीत्युक्तं गर्भस्य लक्षणम् ॥ ७९ ॥
—:०:—
अतः शृणु महाराज गर्भाधानं विशेषतः ॥
मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः ॥ ८० ॥
ग्रन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः ॥
रसो रक्तमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१ ॥
मज्जा शुक्रं तु सप्तेते शरीरेषु शरीरिणाम् ॥
मधुरः कटुकश्चैव तथाऽम्लश्च रसा नृप ॥ ८२ ॥
तिक्तः कषायो लवणस्तेषामुपरसाह्वयः ॥
एतेषां वीर्यनिर्वृत्तौ रसधातुर्नराधिप ॥ ८३ ॥
अव्यक्तः प्राणिनां प्राणान्प्रीणयत्यभिसौहृदः ॥
स पूर्वं शोणितं प्राप्य मांसं भवति पार्थिव ॥ ८४ ॥
पारंपर्येण तेषां तु धातून्प्रीणाति दन्तिनाम् ॥
ततो हर्षो भवेज्जन्तोः प्रीणितेष्वथ धातुषु ॥ ८५ ॥
ततो हर्षात्प्रयत्नेन शुक्रं तस्य प्रजायते ॥
यथा ह्यरण्यां ज्वलनः सूक्ष्मो यत्नेन दृश्यते ॥ ८६ ॥
एवं मैथुनयत्नेन जन्तोः शुक्रं हि दृश्यते ॥
यस्मिन्समये हि प्रकृतिः पुंसंज्ञा क्रियते नृप ॥ ८७ ॥
प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते ॥
त्रयाणां समवाये तु गर्भाधानं भवेदिति ॥ ८८ ॥
मातापित्रोर्न्नृ(र्नर)पते जीवस्य च न संशयः ॥
पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥ ८९ ॥
१ क. ॰श्रोश्च नृप' ।

८ गर्भावक्रान्त्याध्यायः ] हस्त्यायुर्वेदः। ४१३
भूतान्येतानि कथ्यन्ते पञ्चैव खलु देहिनाम् ॥
समवायः पुनस्तेषां योन्यां कललसंज्ञितः ॥ ९० ॥
कललस्य परिणामात्स्वरत्वमुपजायते ॥
खरीभवति तद्राजन्विदाहेन स्वतेजसा ॥ ९१ ॥
खरस्य च परिणामादर्बुदं नाम जायते ॥
अर्बुदस्य परिणामात्पेशी स्यादिति निश्चयः ॥ ९२ ॥
ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप ॥
गर्भस्थेहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥
यथा मधुच्छिष्टकृतं रूपमन्वेति विग्रहः ॥
स्त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ ९४ ॥
*पर्वभिस्तु यथा सर्वैर्वेणुरुत्पद्यते नृप ॥
सर्वैरङ्गैस्तथा सूक्ष्मैर्जातर्गर्भो विवर्धते ॥ ९५ ॥
शुक्लं रजो मलश्चैव गर्भस्थस्य न जायते ॥
चतुर्थे मासि जायन्ते स्नाव्यस्थीनि सिरास्तथा ॥ ९६ ॥
जायते तस्य निर्वृत्तिरङ्गानां तु महीपते ॥
निर्वृत्तिरनुपूर्वेण यथावच्छ्रोतुमर्हसि ॥ ९७ ॥
शिरो ग्रीवा च पृष्ठं च कर्णौ चाऽस्यं करस्तथा ॥
गात्रापरमथो बालस्तथा निष्कोश एव च ॥ ९८ ॥
उरस्तथाऽऽयामकाण्डमानुपूर्व्यान्नराधिप ॥
छवी च पञ्चमे मासि यथावत्प्रविभज्य च ॥ ९९ ॥
चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च ॥
वृक्कौ नखानि रोमाणि यकृदन्त्राणि पुप्फुसम् ॥ १०० ॥
व्यज्यते हृदयं चैव षष्ठे मासि नराधिप ॥
संभवन्ति महीपाल गर्भस्थस्येह दन्तिनः ॥ १०१ ॥

  • ‘गर्भस्य हि संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रि-
    याणाम् । हृदयमिति कृतवीर्यो बुद्धेर्मनसश्च स्थानत्वात् । नाभिरिति पाराशर्यः, ततो
    हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यश-
    रीरमिति सुभूतिर्गौतमस्तन्निबन्धनत्वात्सर्वगात्रसंभवस्य । तत्तु न सम्यक् । सर्वाङ्गप्रत्य-
    ङ्गानि संभवन्तीत्याह धन्वन्तरिः । गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च ।
    तथथा—चूतफले परिपके केशरमांसास्थिमज्जानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव
    तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति ।
    एतेनैव वंशाङ्कुरोऽपि व्याख्यातः’ इति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दर्शितः ॥

२१४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने
जीवोपजीवमाश्रित्य गर्भे भवति कालतः ॥
रसेन प्रीणितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥
जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते ॥
वायोर्गतिनिरोधाच्च गर्भस्थो न प्ररोदिति ॥ ३ ॥
मलाल्पत्वादपयोगाच्च वायोः पक्वाशयस्य च ॥
वातमूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥
सूक्ष्मत्वाद्विशदत्वाच्च नात्र किट्टं प्रशस्यते ॥
नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ॥ १०५ ॥
मात्रोपयुक्तान्देहस्थो गर्भो वहति वै रसान् ॥
चतुर्भागेन चांशेन गर्भं प्रीणाति हस्तिनी ॥ ६ ॥
†नाडी रसवहा ज्ञेया तया गर्भः स जीवति ॥
ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ॥ ७ ॥
ज्ञानं$^२$ च रसवीर्याभ्यां$^३$ संभूयाऽऽशु विवर्धते ॥
बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ॥
अष्टमे स्थिरसर्वाङ्गः संधिस्नायुसमन्वितः ॥
त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥
नवमे दशमे चैव भवेदेकादशेऽपि वा ॥
द्वादशे वा गजो राजञ्जायते नात्र संशयः ॥ ११० ॥
नृप या द्वादशे मासि गर्भिणी न प्रसूयते ॥
इदं तु कारणं तस्या विज्ञेयं नरसत्तम$^४$ ॥ ११ ॥
क्षीणशोणितमांसाया रूक्षशुष्काशनाद्भवेत् ॥
अध्वनो गमनाद्भारान्बन्धनाच्च श्रमाद्भयात् ॥ १२ ॥
गर्भो मुह्यति हस्तिन्या वायुना परिशोषितः ॥
न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥
न गच्छांत विनाशं च न च काले प्रसूयते ॥
अल्पप्राणा निरुत्साहा गर्भशय्यां न मुञ्चति ॥ १४
सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि ॥
धेनुर्वन्धाकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥
†‘अयमर्धश्लोकः ‘नाभ्यां’—इत्यर्धतः परं पाठ्यः’ इति प्रतिभाति ॥
१ क. ॰र्भागो नवांशे॰ । २ क. ॰नं सर॰ । ३ क. ॰भ्यां स भूयान्सुविव॰ ।
४ क. राजसत्तम ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४१६
एकद्वित्रिसमा गर्भं धारयन्ति यथाक्रमम् ॥ १६ ॥
हस्तिनी गर्भिणी या तु बहुश्नात्यहितं यदा ॥
आहारं तरुणे गर्भे तेन दोषः प्रवर्तते ॥ १७ ॥
ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते ॥
स गर्भे जनयत्याशु व्याधीन्बहुविधान्बहून् ॥ १८ ॥
यदा त्वाहारगुणतो गर्भो भवति तर्पितः ॥
मातुर्गुणबलोत्साहसत्त्वतेजःसमन्वितः ॥
गर्भशय्यां परित्यज्य विमथ्य परिवर्तते ॥ १९ ॥
योनिद्वारं समासाद्य तदा क्षिप्रं विजायते ॥
इत्येतदभिनिर्दिष्टं गर्भोत्पत्तिलक्षणम् ॥ १२० ॥
—:(०):—
अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते ॥
ब्रह्मा मूर्ध्नि गले शक्रः स्कन्धे विष्णुरवस्थितः ॥ २१ ॥
नाभ्यामग्नी रविर्दृष्ट्योर्मित्रः पादेषु दन्तिनाम् ॥
धाता विधाता कुक्ष्योस्तु मेण्ढ्रे वाऽपि प्रजापतिः ॥ २२ ॥
अँगेषु नागास्तिष्ठन्ति सर्वलोकधुरंधराः ॥
वारणेषु प्रधानात्मा तिष्ठति ह्यजरोऽक्षयः ॥ २३ ॥
गात्रयोरश्विनौ श्रोत्रे दिशो मनसि चन्द्रमाः ॥
पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४ ॥
—:(०):—
आकाशाच्छ्रोत्रनिर्वृत्तिः शब्दः खानि च दन्तिनाम् ॥ २५ ॥
गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात् ॥
दृष्टेरूष्मा च पित्तं च रूपज्ञानं च तैजसम् ॥ २६ ॥
सलिलात्तु रसज्ञानं स्नेहः क्लेदः कफस्तथा ॥
गन्धज्ञानं च गन्धश्च संघातश्च महीगुणाः ॥ २७ ॥
इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः ॥
भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम् ॥ २८ ॥
केशा रोमाणि मज्जा च स्नायूनि च नखानि च ॥
सत्त्वं चक्षुर्बलं बुद्धिः स्मृतिर्मेधा श्रुतिर्जवः ॥ २९ ॥
पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते ॥
त्वक्पेशी शोणितं चैव मेदोऽस्राणि गुदस्तथा ॥ १३० ॥
१ ख. परित्याज्य । २ क. °तदिति नि°। ३ क. °ष्ट्योरिन्द्राः पा° । ४ क.
अङ्गेषु । ५ क. °ष्टिः सूक्ष्मा च । ६ क. पितृतो ।

११६ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने—
धमन्यश्चेति नागानां विज्ञेया मातृजा शुभाः ॥
आत्मजानि निर्वृतिश्च स्वकर्मफलसङ्गजाः ॥ ३१ ॥
शरीरं बलवृद्धिश्च गर्भस्य रसजाः स्मृताः ॥
रसस्य प्रोणनं कर्म जीवनं शोणितस्य च ॥ ३२ ॥
प्रलेपनं च मांसस्य स्नेहो वर्ष्म च मेदसः ॥
देहधारणमस्थां च मज्जश्चैवास्थिपूरणम् ॥ ३३ ॥
संभूतमथ गर्भस्थं वायुर्जीवयति द्विपम् ॥
शरीरे चान्तरिक्षे च दिव्यो राजन् महाबलः ॥ ३४ ॥
भगवान्जीव इत्येष सर्वप्राणभृदीश्वरः ॥
शरीरस्थोऽप्यदृश्यश्च वायुरित्युच्यते बुधैः ॥ १३५ ॥
(*यदा शिशुविंचरति जातमात्रो गर्भाशयाद्गर्भनिरोधमुक्तः ॥
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥
तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता) ॥३७॥
—:०:—
पूर्वं तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥
जनयेत्तत्र मातङ्गमत्र मे नास्ति संशयः ॥ ३८ ॥
संगमे तु यदा राजनरक्तं मुञ्चति धेनुका ॥
जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥
ऋतौ नित्यं यदा राजन्धेनुकां प्लुवते गजः ॥
ततः शुक्लं प्रथमतॊ वारणस्य प्रसिच्यते ॥ ४० ॥
तच्चेत्प्रणिहितं शुक्लं करोति पवनो द्विधा ॥
जायेते यमकौ पोतौ तत्र मे नास्ति संशयः ॥ ४१ ॥
ऋतौ यदि समुत्पन्ने धेनुकां प्लुवते गजः ॥
धेनुकायाः प्रथमतस्तत्र रक्तं प्रसिच्यते ॥ ४२ ॥
द्विधा करोति तद्वायुश्चेत्प्रणिहितं यदि ॥
भवतः पोतिके तत्र अत्र नास्ति विचारणा ॥ ४३ ॥

  • धनुराकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिखितौ
    केवलं खपुस्तके पुनरुक्तौ । कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयो-
    गाभावेन व्यर्थत्वाद्गमेन न लिखितौ ॥
    १ ख. प्रीणनं । २ ख. धेनुकम् । ३ क. ॰मकोपेतो । ४ क. चात्र ।

६ गर्भावक्रान्त्याध्य्यायः ] हस्त्यायुर्वेदः । ११७
यदा तु प्लवते नागो वशामृतुमतीं नृप ॥
ततस्तु युगपच्छुक्रं प्रसिच्येत यदृच्छया ॥ ४४ ॥
करोति मारुतस्तच्छेच्छुक्रं प्रणिहितं द्विधा ॥
यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥
रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतङ्गजः ॥
कटुकं च कषायं च रूक्षं, चैव महीपते ॥ ४६ ॥
मृंदा १ सेमुपदिग्धं च प्रावृङ्काले च वारणः ॥
असंजातरसं खादेद्गर्भं यवसं यदा ॥ ४७ ॥
यथेष्टं हस्तिनी वाऽपि रसाँनेतान्निषेवते ॥
यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥
नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥
शुक्ररक्तसमायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥
दौर्बल्याच्चापि शुक्रस्य रसहीनतयाऽथवा ॥
यदि प्रादुर्भवॆद्गर्भस्तस्मिन्काले यदृच्छया ॥ १५० ॥
षण्ढः संजायते तेन वातोपहतपौरुषः ॥
षण्ढा वाऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥
─:०:─
बलीसंतानभक्षाणां पित्तधातुर्विवर्धते ॥
कट्वम्ललवणप्राये काले कफेविघातने ॥ ५२ ॥
रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः ॥
वृष्टेरुपरमाद्वाऽपि शुक्लोर्दैकबलाहके ॥ ५३ ॥
शरत्काले निदाघे वा तत्समानगुणे ऋतौ ॥
मध्याह्ने मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्वयोः ॥ ५४ ॥
वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा ॥
शुद्धः संजायते जात्या मृगनामा मतङ्गजः ॥ १५५ ॥
तस्यैव संप्रवक्ष्यामि सत्त्वाकारमसंशयम् ॥
वनचर्याक्रियाणां च लक्षणं प्रविभज्यते ॥ ५६ ॥
तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः ॥
तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥
१ क. मृदु । २ ख. समुपदग्धं । ३ क. खादेद्द्रभं यवसकं य० । ४ क.
ख. ॰सान्नेता॰ । ५ क. ॰यः ॥ बली॰ । ६ ख. ॰फनिघातनैः ॥ २ ॰ । ७ क. ॰नैः ॥
दृष्टेरुपरमे वाऽपि । ८ क. ॰दरख॰ ।
५३

४१४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
तनुगात्रापरानद्धस्तनुग्रीवस्तथैव च ॥
दीर्घजिह्वाविषाणश्च दीर्घगात्रस्तथा च यः ॥ ५८ ॥
स ह्रस्वहनुहस्तास्यवालवालधिपुष्करः ॥
ह्रस्वाल्पमस्तकश्चैव ह्रस्वरोमाऽणुमेहनः ॥ ५९ ॥
निसृष्टस्रकनियाणकक्षांसंसगदान्तरः ॥
प्रस्तब्धरोमकर्णत्वक्पुरस्ताच्चापि संनतः ॥ १६१ ॥
करालो वृतकर्णश्च जलौकावर्णसप्रभः ॥
स्थूलोत्कृष्टवकैश्च संयुक्तः सर्वसंधिभिः ॥ ६१ ॥
उन्नद्धनाभिरन्ध्रश्च निर्मांसाष्ठीव्यपिण्डकः ॥
स्थूलो निर्मीलिताक्षश्च कुब्जवंशश्च वारणः ॥ ६२ ॥
उच्चश्राप्यल्पपार्श्वश्च तथा चाप्यल्पपेचकः ॥
ग्रीवया चाप्यपेतोऽसावुच्चैर्वृद्धापसद्द्वयः ॥ ६३ ॥
एतद्धनगजस्यास्य शारीरं लक्षणं भवेत् ॥
वनस्थस्यैव वक्ष्यामि तस्य सत्त्वाश्रयं पुनः ॥ ६४ ॥
निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः ॥
रूपादिभयशङ्की च नित्यमेवानवस्थितः ॥ १६५ ॥
इत्युक्तं वनवासस्य चर्यामपि तु वक्ष्यते ॥
सत्त्वस्य लक्षणं तस्य निश्चयेन विनिश्चितम् ॥ ६६ ॥
चर्यां वनमनुचरन्निपिनष्टि करं भुवि ॥
हस्तश्रवणलाङ्गूलो दीर्घं विभ्रमते क्रमैः ॥ ६७ ॥
भिन्नमूत्रपुरीषः समुद्विग्नः संप्रधावति ॥
पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत् ॥ ६८ ॥
समुन्नम्य शिरो याति यूथान्तं चोपदेशते ॥
चर्यां निर्गन्तुकामस्य द्वारमप्राप्य तिष्ठति ॥ ६९ ॥
कर्मण्युत्तानवेदी तु चण्डो दुर्विनयश्च यः ॥
शोकालुश्चाप्यसोढुश्च दुर्मना गुरुमक्षिकः ॥ १७० ॥
बह्वाशी बहुलापश्चेदृशीलो विषमाशनः ॥
रंभसो दुर्भगश्चैव दन्तपातेषु चाक्षमः ॥ ७१ ॥
१ क. °समगादान्तुरः । २ क. संवृतः । ३ क. स्थूलकृष्णोविक्र° । ४ क.
निर्मिलि°। ५ क. °प्यवपा°। ६ क. वनसंस्थस्य । ७ क. त्वस्य । ८ ख. विक्रमते ।
९ क. °मप्यवति° । १० क. दुर्विर्जयश्च । ११ क. नमसो ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४१९
पुरोधिसंपराये च विपरार्मशदुर्वलः ॥
जवे प्रकृष्टवेगश्च भारं प्राप्यावसीदति ॥ ७२ ॥
रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः ॥
प्रकृत्या पैत्तिको ह्येष जात्या वाऽपि मृगो मतः ॥ ७३ ॥
कृच्छ्राच्चाऽऽप्यायते नागः क्षिप्रं च परिहीयते ॥
विधाः स्नेहाश्च तद्योगास्तृणानि विविधानि च ॥ ७४ ॥
लवणं प्रतिपानं च कवलान्कुवलानि च ॥
नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना ॥ १७५ ॥
विशिष्टबलयोगो हि तस्य तज्ज्ञैः प्रशस्यते ॥
तिक्तैः कषायमधुरैः स्निग्धैश्चाऽऽप्यायते हि सः ॥ ७६ ॥
कट्वम्ललवणैश्चैव रूक्षैश्चाऽऽतुरतां व्रजेत् ॥
तस्माद्योगविभागज्ञो भिषक्शास्त्रविशारदः ॥ ७७ ॥
प्रकृतेरविरोधेन बल्यमाहारमादिशेत् ॥
बलं ज्ञात्वा च तद्योग्यं भिषक्कर्म समादिशेत् ॥ ७८ ॥
नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ॥
सोढुं स हि न शक्नोति तीक्ष्णदण्डावचारणम् ॥ ७९ ॥
तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम् ॥
पिण्डोदकप्रदानं तु सान्त्वपूर्वं प्रशस्यते ॥ १८० ॥
तृणकूर्चोपचारेण ततश्चैनमुपाचरेत् ॥
कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत् ॥ ८१ ॥
अङ्कुशप्राजनैश्चैनं विशुद्धमवमार्जयेत् ॥
असंतापक्षमं चैनं वाचं न कटुकां वदेत् ॥ ८२ ॥
एवं हि सान्त्वतः कर्म सुखेन प्रतिपद्यते ॥
कर्माथश्चायमारम्भः कर्म चैवं प्रसिध्यते ॥ ८३ ॥
—:०:—
अथ मन्दस्तु हेमन्ते मासयोः पौषमाघयोः ॥
नागानां शीतसात्म्यानां मांसं मेदश्च वर्धते ॥ ८४ ॥
तुषारवातपरुषे प्रभूतयवसोदके ॥
स्वाद्वम्ललवणानां च रसानामुद्भवात्मके ॥ १८५ ॥
इन्द्रियोद्रेकजनने मेदो मांसं विवर्धते ॥
अम्ला मधुरवीर्याश्च भवन्त्योषधयस्तदा ॥ ८६ ॥
१ क. जीवे । २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. ॰नके मे० ।

४२० पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
ततस्तासां विपाकेन श्लेष्मा समुपचीयते ॥
भवन्ति च विचित्राणि धान्यानि वसुधातले ॥ ८७ ॥
वर्णं पुष्णन्ति परमं शुक्रं चैषां विवर्धते ॥
संजातमांसा हेमन्ते भवन्ति बलिनो गजाः ॥ ८८ ॥
तदा हर्षेण संपन्नाः समर्था मैथुने नृप ॥
रात्रौ निवाते गच्छन्ति सायं ते वाऽऽतपं दिवा ॥ ८९ ॥
न च दूरं विधावन्ति ग्रासनिर्वाणकारणात् ॥
तस्मिन्काले यदा राजन्धेनुकां प्लुवते गजः ॥ १९० ॥
सा योथ लभते गर्भं हस्तिनं प्राप्य हस्तिनी ॥
संजायते महाराज यादृशं तादृशं शृणु ॥ १९१ ॥
महामुखो महाग्रीवो महाश्रोता महोदरः ॥
महोरस्कुम्भसगदाप्रतिमानासनैर्युतः ॥ ९२ ॥
महापस्कारनिष्कोशो वलिमांस्थूलपेचकः ॥
निःसृष्टकूटभागश्च दीर्घस्थूलतनूरुहः ॥ ९३ ॥
चीनानुवंशः सान्द्रत्वक्सुविभक्तमहाशिराः ॥
उत्पाश्र्वः सूक्ष्मनाभिश्च दीर्घवालधिमेहनः ॥ ९४ ॥
पुरस्तादुच्छ्रितश्चापि पश्चादवनतोऽपि च ॥
अच्छिद्रदेहबन्धश्च तथा च परिमण्डलः ॥ १९५ ॥
ह्रस्वास्पः पृथुजिह्वश्च ज्ञेयो ह्रस्वशिरोधरः ॥
मृदुसंभोगभागश्च हंढपर्वा तथैव च ॥ ९६ ॥
महाण्डकोशः पेक्षाभ्यां स्तनोभ्यां चोपलक्षितः ॥
बहलैर्मृदुभिश्चैव युक्तः स्निग्धैस्तनूरुहैः ॥ ९७ ॥
स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः ॥
अल्पोत्सेधश्च विज्ञेयो गूढोत्कृष्टः समाहितः ॥ ९८ ॥
दीर्घेण दीर्घाङ्गुलिना दीर्घपुष्करशोभिना ॥
युक्तो हस्तेन हर्यक्षः प्रभूतमृदुना च यः ॥ ९९ ॥
स्थिरे स्निग्धे विशाले च पीने चापि प्रकीर्त्यते ॥
विषाणे तस्य विद्वद्भिर्द्रोष्ठो दीर्घश्च रोमशँः ॥ २००॥


१ क. चाद्य । २ क. ष्कोऽसौ व० । ३ क. दृढप० । ४ क. ०कोशप० ।
५ ख. पक्ष्माभ्यां । ६ क. ०नाम्यामभिल० । ७ क. ०शः ॥ सप्तवृ० ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४२१
स्वयंवृत्तो मृदुस्निग्धो महाकर्णस्वनश्च यः ॥
पश्चादधश्च बद्धौ च कर्णौ जात्युपलक्षणौ ॥ १ ॥
संदानभागौ प्रोहौ च पलिहस्तौ तथैव च ॥
पलिपादश्च पादश्च ज्ञेयस्तस्य कचाविलाः ॥ २ ॥
रन्ध्रौ कक्षौ च कुक्षी च विशेषज्ञैर्विनिश्चिते ॥
प्रलम्बौ चोपदिग्धौ च श्रवणौ तस्य तद्वि च ॥ ३ ॥
शिथिलैर्बहुलेश्चैव मांसैः संलिप्तविग्रहः ॥
गूढो नीचैः प्रबद्धश्च बलवांश्चापि वारणः ॥ ४ ॥
कूर्मसंस्थानगमनो मन्दो मन्दगतिक्रमः ॥
चिह्नैरैतैः शरीरस्थैर्विज्ञेयो वनसंस्थितः ॥ २०५ ॥
वनस्थ एव च सदा विहरन्विविधाशनः ॥
अनवेक्ष्य चरत्येव शब्दादिभयकारणम् ॥ २०६ ॥
यूथमार्गानुसारी च स्थले वाऽप्यथवा जले ॥
संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २०७ ॥
हस्तिन्यां हस्तमासज्य प्रायेण मदनातुरः ॥
पृष्ठे च जघने वाऽपि वीर्यमथ स तिष्ठति ॥ २०८ ॥
पार्थिवाज्ञाप्रयुक्तेषु मोहशङ्कादिहेतुषु ॥
वादित्रोद्घटशब्देषु न मुह्यति न शङ्कते ॥ २०९ ॥
*पादपाशिकविक्षिप्तैस्तथैवापरया पुनः ॥
पाशैरुरुद्वेजनैर्बद्धोऽप्युद्वेगं नाधिगच्छति ॥ २१० ॥
इत्युक्तं लक्षणं तस्य वनचर्या तु सात्त्विकम् ॥
अतः परमिदं कृत्स्नं सत्त्वकर्मणि कीर्त्यते ॥ २११ ॥
अल्पश्रमः क्लेशसहो मृदुकोपोऽथ निर्जवः ॥
दंशस्पर्शक्षमश्चापि गम्भीरस्य च वेदिता ॥ २१२ ॥
मन्दाशनोऽथ मन्दाग्निरल्पाशी बलवांश्च सः ॥
महाधृतिरसंरोषी स्तिमितः सुभरोऽपि वा ॥ २१३ ॥
आकूजनश्च प्रायेण मेधया चापि मध्यमः ॥
पित्तोत्सन्नं पुरीषं च मूत्रं च विसृजत्यसौ ॥ २१४ ॥
*'पदे' इति भवेत् ।
१ क. ॰कर्णश्च निश्च॰ । २ क. रन्ध्रे । ३ क. ॰मासाद्य प्रा॰ । ४ क.
॰प्युद्योगं । ५ ख. दंशे स्प॰ । ६ क. ॰वापि स्ति॰ । ७ क. ॰तोच्छन्नं ।

१२३ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने
त्रासितो वधबन्धैश्च नातित्रासं स गच्छति ॥
प्रकृत्या श्लेष्मलैस्त्वेष¹ मन्दस्तामस एव च ॥ २१५ ॥
पूर्वोक्त एवास्याऽऽहारो विशेषोऽयं ततो भवेत् ॥
स्निग्धैः कषायकटुकैस्तिक्तैश्चाऽऽप्यायते हि सः ॥ २१६ ॥
त्रासदंशवदातीक्ष्णै²स्तस्येष्टं प्राजनाङ्कुशैः ॥
दृढप्रबद्धकर्मा स्याद्गुरुगम्भीरवेदिता ॥ २१७ ॥
मृगस्याधैर्यमाधेयं मन्दस्यापि च लाघवम् ॥
श्लेष्मप्रकृतिरेवं च³ मन्दो लाघवमाप्नुयात् ॥ २१८ ॥
─:०:─
समशीतोष्णसुभगे प्रकामयवसोदके ॥
ऋतो वसन्तस्य मुखे मन्मथादेशनक्षमे ॥ २१९ ॥
तत्समानमुखे वाऽपि पूर्वाह्ने पूर्वजन्मनः ॥
ये चाप्याहारजा दोषा मातापित्रोः कफादयः ॥ २२० ॥
सात्म्यत्वाद्देहबीजैत्वान्न⁴ ते दोषकराः स्मृताः ॥
विषजन्मा यथा जन्तुर्विषदोषैर्न हन्यते ॥ २२१ ॥
त्रिदोषवशगो नागो न दोषप्रकृतिर्भवेत् ॥
रसाधिक्योपयोगेन(न) दोषाः स्युः स्वगुणाधिकाः ॥ २२२ ॥
शुक्रार्तवसमायोगस्तैश्चाऽऽदावनुभाव्यते ॥
पित्तादीनां त्रयाणां च कार्यं यत्र हि च द्विपे ॥ २२३ ॥
दृश्यते तद्विशेषाग्रेः स तयोनिरिति स्मृतः ॥
दोषसात्म्याच्चसौ भद्रः समधातुः प्रकीर्तितः ॥ २२४ ॥
सर्वजात्याधिकैस्वेदस्तस्य लक्षणसंपदः ॥
भद्रश्च राज्ञो भूत्यर्थमिति तज्ज्ञाः प्रचक्षते ॥ २२५ ॥
प्रतिमाने सुविपुलश्चारुपृष्ठायताननः ॥
मुखे सुरभिनिःश्वासस्ताम्रजिह्वोष्ठतालुकः ॥ २२६ ॥
पीनाण्डकोशः सुश्रोताः सुदीर्घाङ्गुलिपुष्करः ॥
स्वायतेनानुवृत्तेन करेण⁵ च करी पुनः ॥ २२७॥
सुप्रभूतान्तरमणिर्व्यस्तपीनस्तनान्तरः ॥
तथा व्यूढमहोरस्को महांसो विपुलासनेः⁶ ॥ २२८ ॥


१ क. ०ल्क्षैष । २ क. ०तीक्ष्णोस्तस्येष्टं प्रा० । ३ क. च शब्दला० ।
४ क. ०जत्त्वा न ते । ५ क. ०करेणहस्त० । ६ क. ०नः ॥ ऋतुभिश्च सुनिर्वृत्तैर्यु०।

शिराभिर्वलिभिर्मुक्तैर्युक्तो गात्रैः समाहितैः ॥
इषीके चाक्षिकूटे च कुम्भश्चावग्रहेऽपि च ॥ २२९ ॥
कटो च सगदो वाऽपि दन्तवेष्टो तथैव च ॥
अनुत्सन्ना ह्यनिन्द्याश्च प्रदेशास्तस्य कीर्तिताः ॥ २३० ॥
तथैषां तुल्यसंस्थानौ दन्तौ चापि विशेषतः ॥
मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ॥
स्निग्धौ च परिनिम्नौ च समौ चापि प्रमाणतः ॥
कर्णौ सूक्ष्माण्डरोमाणौ ज्ञेयौ तस्य विपश्चिता ॥ २३२ ॥
समानवर्णैर्मृदुभिः सूक्ष्मैः स्निग्धैस्तनूरुहैः ॥
एकजाश्रितरोमा च स्वायतव्यायतच्छविः ॥ २३३ ॥
मांसैः स्थिरैः समग्रैश्च यथाभागैः प्रतिष्ठितैः ॥
तनुभिर्बहुभिश्चैव सर्वतः स विभूषितः ॥ २३४ ॥
प्रोहौ च पलिहस्तौ च पलिपादौ च यस्य तु ॥
[

आवेगयदनाविग्नः श्रुत्वा हर्ष स गच्छति ॥
हृद्वानहरति कामार्तः संजिघ्रति समन्ततः ॥ ४४ ॥
शब्दानप्यतिवृद्धश्च हृष्टः संपरिजीवति ॥
अथ दीप्ता दिशो घोराः प्रसृताश्च दवाग्नयः ॥ २४५ ॥
ज्वलिताश्चाग्निसंघाताः क्षिप्रभ्रान्तांश्च विद्युतः ॥
तथैवान्यानि रूपाणि दृष्टानि सुवहून्यपि ॥ ४६ ॥
भीषयन्तीह नैवैतं भियान्युद्वेजनानि च ॥
वनस्थ एव स गजः स्वयूथमनुपालयेत् ॥ ४७ ॥
अनेन खलु विज्ञेयो वने सत्त्वेन सात्त्विकः ॥
चर्यायां चाग्रतः स्थित्वा यूथमेकोऽभिरक्षति ॥ ४८ ॥
ईरितः कोपमादत्ते क्षिप्रं चैवोपशाम्यति ॥
आरक्ष(क्ष्य)माणः पुरुषैर्भक्ष्यं खादेदनाकुलः ॥ ४९ ॥
इति चर्यासमुद्दिष्टं तस्येदं सत्त्वलक्षणम् ॥
जातियूथौवसाहार्य(?) पुनः कर्मणि कीर्त्यते ॥ २५० ॥
अन्वर्थवेदी गुरूंश्च क्षमावाञ्च च कर्कशः ॥
कल्याणमेधा ते(स्ते)जस्वी सदासंतापवर्जितः ॥ ५१ ॥
समज्योतिः समाहारः सात्त्विकः शीलवांश्च यः ॥
तथा मशकदंशस्य संतापानां च स क्षमः ॥ ५२ ॥
तोत्राङ्कुशश्निमित्तानामन्येषां च पृथक् पृथक् ॥
सोढा स तीक्ष्णस्पर्शानामिति ज्ञेयः क्रियागतः ॥ ५३ ॥
एवं वने च चर्यायां क्रियायां चापि कीर्तितम् ॥
यथागमं मया सम्यक्संपूर्ण भद्रलक्षणम् ॥ ५४ ॥
समधातुशरीरस्य तस्यायमशनाश्रयः ॥
प्राप्तसामान्यभोज्यस्य विशेषोऽत्र विवक्षितः ॥ २५५ ॥
· कफपित्तानिलानां हि समृद्ध्या वर्धते द्विपः ॥
एषामेव समेतानां हान्या च परिहीयते ॥ ५६ ॥
तस्माद्रससमायोगो यस्त्रिदोषाभिवृद्धये ॥
तत्तस्मै कुशलो युक्त्या नित्यमेव प्रदापयेत् ॥ ५७ ॥
प्रवृद्धबलसत्त्वं च ततस्तं कर्मणि क्षिपेत् ॥
लघुना साधयेच्चैनं न कर्म गुरु कारयेत् ॥ ५८ ॥


१ क. ॰तिबन्धश्च । २ क. ॰श्चन्दनाग्र॰ । ३ क. ॰थाचसा॰ । ४ क. न ।

? अल्-पाल्-पं= 3 syllables! मल्-पाल्-पं(with precedingभिन्नम्->भिन्नम्+अल्पाल्पं=भिन्नमल्पाल्पं)! भिन्-नम् (2) + अल्-पाल्-पं (3) + प-रि-मुञ्-च-ति (5) -> wait! भिन् (1) नम् (2) = 2 syllables. Where does pāda 1 end? शंकृन्मूत्रं ततो भिन्नम्-> शं (1) कृन् (2) मू (3) त्रं (4) त (5) तो (6) भिन् (7) नम् (8)! YES!भिन्नम्is the END of the first half (pāda c)! Then pāda d starts withअल्पाल्पं! अल् (1) पाल् (2) पं (3) प (4) रि (5) मुञ् (6) च (7) ति (8) = 8 syllables! EXACTLY 8 SYLLABLES! Therefore, the word MUST BE: अल्पाल्पं! Combined with भिन्नम्: भिन्नम्+अल्पाल्पं=भिन्नमल्पाल्पं`!
Now look at the print in line 23

४२६ पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
चतुर्भिरेव लिङ्गैरस्तु लिङ्गितं जातितो गजम् ॥
तं संकरज्ञः संकीर्णं याज्ञवल्क्योऽभिमन्यते ॥ ७३ ॥
स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु यः स्मृतः ॥
संकीर्णलक्षणापेक्षो विशेषस्तत्र कीर्त्यते ॥ ७४ ॥
(※स्वाद्वम्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसैः ॥
कटुतीक्ष्णकषायैस्तु रोगमाशु प्रपद्यते ॥ २७५ ॥
तस्मादेवं विभागज्ञो बलमाधाय योगवित् ॥ )
सर्वोपञ्जनसंकीर्णं भिषक्कर्म समादिशेत् ॥ ७६ ॥
वेदनार्तमसंमूढो विविधैः प्राजनाङ्कुशैः ॥
यथाजाति प्रदेशांस्तान्कर्ता कर्मसु संस्पृशेत् ॥ ७७ ॥
येन योऽभ्यधिकः स्यात्तु तस्मिंल्लक्षणसंकरे ॥
तन्मना इति तेनासौ चिह्नेन व्यपदिश्यते ॥ ७८ ॥
एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान् ॥
अष्टादशैव संकीर्णा जातीर्जानाति काश्यपः ॥ ७९ ॥
एकद्विरूपास्तस्याग्रे नवान्यमनसो द्विपाः ॥
द्वित्रिरूपाः सुमनसो नवैवेति विनिश्चयः ॥ २८० ॥
※भद्रो मन्दमनास्तत्र भद्रो मृगमनाश्च यः ॥
भद्रो भद्रमना नागो मृगो मन्दमनास्तथा ॥ ८१ ॥
इत्येकरूपयोगेन षडन्यमनसो गजाः ॥
द्विरूपसमवायेन वक्ष्यन्तेऽत्र त्रयः पुनः ॥ ८२ ॥
भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः ॥
तथा भद्रमृगश्चापि †मन्दत्वमनसा गजः ॥ ८३ ॥
चेतसाऽभिप्रपन्नश्च मृगमन्दोऽपि भद्रताम् ॥
भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ * 'मन्दो भद्रमना नागो मन्दो
    मृगमनास्तथा । मृगो भद्रमना नागो मृगो मन्दमनास्तथा ' इत्येव पाठो भवितुमर्हति
    वक्ष्यमाणषट्संख्यानुरोधात् । † 'मन्दत्वम्' इति पाठो भवेत् ॥
    १ ख. लिङ्गिनं । २ ख. ०ल्क्यो विम० । ३ ख. ०र्जानीहि पार्थिव ॥ ए० ।
    ० । ५ क. ०त्येष रू० । ६ क. ०न्ते तत्र यः । ७ क. गतः । ८ क.
    १ क. ०।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४२७
मृगस्वरूपसंपन्नो मन्दश्चे(चे)ष्टश्च वारणः ॥
इत्येकरूपयोगेन त्रयोऽन्यमनसो गजाः ॥ २८५ ॥
तथा मन्दमृगश्चापि मृगत्वं मनसा गतः ॥
मृगमन्दश्च भद्रश्च मनसाऽपि गतः सदः ॥ ८६ ॥
सर्वभद्रस्तथा चैव भवेद्भद्रमना गजः ।।
एवं त्रयश्च षट् द्वौ च नवान्यमनसो गजाः ॥ ८७ ॥
वक्ष्यन्ते द्वित्रिरूपाश्च तथा स्वमनसो नव ॥
द्विरूपसंकरे यच्च नाम पूर्वं निपात्यते ॥ ८८ ॥
तस्मिन्करोति तत्सत्त्वमिति सर्वेषु निश्चयः ॥
भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत् ॥ ८९ ॥
तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः ॥
मन्दभद्रश्च मन्दत्वं चेतसाऽपि प्रमिद्यते ॥ २९० ॥
मृगता मृगभद्रस्य व्यतिक्रमणचेतसः ॥
मृगमन्दो मृगत्वं च मनसा संप्रकाशयेत् ॥ ९१ ॥
तथा मन्दमृगो यश्च मन्दत्वं मनसा गतः ॥
मृगतां मृगभद्रश्च संप्राप्नुश्चेतसा गजः ॥ ९२ ॥
मृगमन्दो मृगस्यैव मनसा संप्रकाश्यते ॥
इति द्विरूपयोगेन षडेते परिकीर्तिताः ॥ ९३ ॥
त्रिरूपाश्च त्रयोऽन्ये तु स्वमनोभिः समन्विताः ॥
त्रिरूपसंकरे चास्मिन्समर्नैस्त्वः स्थितिर्भवेत् ॥ ९४ ॥
इत्येष बुद्धिप्रसरश्चिन्ताविचेन पच्यते ॥
एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ॥ २९५ ॥
अष्टादशैव संकीर्णाः काश्यपेनोपपादिताः ॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा ॥ ९६ ॥
मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः ॥ ९७ ॥
इति जाताः षडेवात्र जातितन्त्रोपदेशवित् ॥
निश्चित्य बुद्धो भगवान्गजानामाह गौतमः ॥ ९८ ॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा ॥
चतस्रो जातयस्त्वेवं राजपुत्रमते स्मृताः ॥ ९९ ॥
१ क. °तसा । मृ° । २ क. यथा । ३ क. °गश्चैव । ४ क °नस्त्वस्थि-
भिर्भ° । ५ ख. जाती । ६ क. °देशिवत् ।

४२६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने
मृगः शुद्धोऽथ मन्दश्च मृगमन्दस्तथाऽपरः ॥
भद्रभावे मृगस्येह तन्मयत्वं कथं भवेत् ॥ ३०० ॥
अधिकत्वेऽपि तस्यैवैमरिमेदिनं मृष्यते ॥
एवं च ब्रुवतस्तस्य चतस्रो जातयो मताः ॥ १ ॥
मृगो भद्रश्च मन्दश्च संकीर्णश्चेति तन्मनाः ॥
एवं विप्रतिपन्नेषु पूर्वाचार्येषु बुद्धिमान् ॥ २ ॥
हस्तिचारी तु भगवाञ्ज्ञातीः षोडश मन्यते ॥
सर्वव्यञ्जनपूर्णांस्तु शुद्धा भद्रादय॑स्त्रपः ॥ ३ ॥
भद्रो मन्दमनाश्चौन्यो भद्रो मृगमनास्तथा ॥
संकीर्णो मनसा भद्र इत्येताः सप्त जातयः ॥ ४ ॥
मन्दो भद्रमना ज्ञेयो मन्दी मृगमनाः पुनः ॥
मन्दः संकीर्णचेताश्च देश संरूपाः समर्थिताः ॥३०५ ॥
मृगो भद्रमना दृष्टो मन्दश्च मनसा मृगः ॥
मृगः संकीर्णचेताश्च संख्यया एतास्त्रयोदश ॥ ६ ॥
भद्रमन्दशरीरेण मृगस्य मनसा युतः ।
तथा भद्रमृगश्चापि मन्दचेता मतङ्गजः ॥ ७ ॥
यश्च मन्दमृगो योन्या दृष्टो भद्रमतिर्गजः ॥
तेन सार्थमिमास्तस्य जाताः षोडश जातयः ॥ ८ ॥
संकीर्णाः सुलभाः शुद्धा दुर्लभास्तु मृगादयः ॥
हेतुभिर्बहुधिष्ठानेरैता गजजातयः ॥ ९ ॥
प्राप्नुवन्ति बहून्दोषान्वक्ष्यन्ते ते मयाऽधुना ॥
प्रकृत्या हीयते कश्चित्कश्चिद्वा विनयाङ्गजः ॥ ३१० ॥
अप्रभावात्तथाऽन्यश्च मिथ्याविनयतोऽपरः ॥
अनानुपूर्व्या संतापात्तीक्ष्णदण्डैश्च घातनात् ॥ ११ ॥
स मिथ्याविनयाद्रोरोहच्छेद्रात्रे व्यथान्तरः ॥
एवं विवर्णो विमनाः कृशः पर्यश्रुलोचनः ॥ १२ ॥
मोहाद्दण्डविचारेण मूढो भवति वारणः ॥
गुरुणाऽतिप्रवृद्धेन बन्धेनात्यायतेन वा ॥ १३ ॥
१ क. गजस्येह । २ क. ॰व परिमर्द्दिनम्॑ । ३ क. ॰यश्च ये ॥ भ॰ ।
४ क. ॰श्चान्ये भ॰ । ५ क. देशसंख्या । ६ क. ॰गोऽन्यो यो दृ॰। ७ क. ॰रान्पृ-
च्छोभाद्वियतां गतः ॥ ए॰ ।

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४२९
मोहाद्गन्धप्रमादाद्वा बन्धादुद्विजते द्विपः ॥
दन्तिनां तु विशेषेण तत्प्रमाणाधिको हि यः ॥ १४ ॥
संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः ॥
उच्छ्वासमुपरुन्ध्याद्यो गात्रसंचारमेव वा ॥ ३१५ ॥
संबन्धसंज्ञया तज्ज्ञैरत्यायूत इति स्मृतः ॥
भूयश्चोपरिविक्षेपादेळकोऽङ्क्षा(?) च योगतः ॥ १६ ॥
सोऽतिप्रबन्धो विज्ञेयो बन्धो यो दुष्प्रमादतः ॥
एवं दोषं व्यवस्यन्ति तस्मादभ्यधिको हि यः ॥ १७ ॥ .
परिक्षेपातिबाहुल्याद्दन्तिनां हस्तिनां परे ॥
एवं बन्धोद्भवैर्दोषैः प्राप्नुवन्त्यत्र कुञ्जराः ॥ १८ ॥
रोगांश्च दोषैर्गात्राणां हानिं च बलतेजसाम् ॥
कर्मणाऽतिप्रवृद्धेन योक्तुरज्ञानजेन वा ॥ १९ ॥
तथा च क्रियमाणेन 'नित्यं दुष्यन्ति वारणाः ॥ ३२० ॥
यो हि जातिविभागं तु सत्त्वानूकं च तत्त्वतः ॥
अबुद्ध्वा योजयेत्कर्म स भद्रानपि दूषयेत् ॥ २१ ॥
यस्तु लक्षणनिर्देशं विदित्वा कर्म योजयेत् ॥
असंशयं स मतिमान्संकीर्णानपि साधयेत् ॥ २२ ॥
अन्योन्यकर्मव्यत्यासात्तेषु सिद्धिर्न विद्यते ॥
पंथोपदेशयोगाद्धि सर्वाः सिध्यन्ति जातयः ॥ २३ ॥
पित्तं गर्भे शयानस्य त्वचं चेत्प्रतिपद्यते ॥
कालो भवति मातङ्गो ह्यरूक्षस्निग्धदर्शनः ॥ २४ ॥
श्लेष्मा मारुतसंसृष्टस्त्वचं यद्यनुगच्छति ॥
(*श्यामो भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः ॥ ३२५ ॥
श्लेष्मा गर्भे शयानस्य त्वचं चेत्प्रतिपद्यते ॥
हरिर्भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः ॥ २६ ॥
पित्तं मारुतसंसृष्टं त्वचं यद्यनुगच्छति ॥ )
कालः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २७ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।
    १ क. ०कायापि यो० । २ क. ध्वनिं । ३ क. दुष्यति वारणः । ४ क.
    ०संश्लिष्ट० ।

४३० | पालकाप्यमुनिविरचितो— | [ ३. शल्यस्थाने-
(*पित्तं श्लेष्मा च वातश्च प्रपद्यन्ते यदि त्वचम् ॥
श्यामः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २८ ॥
कफस्त्वनिलसंसृष्टस्त्वचं यद्यनुगच्छति ॥
हरितारुणवर्णाभो निःस्नेहस्तेन जायते ॥ २९ ॥)
असृग्गर्भे शयानस्य ( †त्वचं चेदनुधावति ॥
हरिः श्यामोऽथ रक्तो वा स तु रक्तच्छविर्भवेत् ॥ ३० ॥
वायुः पित्तं च रक्तं च त्वचं ह्यनुविधावति ॥
ततोलूकसवर्णाभा छविर्नामस्य जायते ॥ ३१ ॥
पित्तं गर्भे शयानस्य नखेषु यदि लीयते ॥
संभवेयुर्नखाः काला वारणस्य महीपते ॥ ३२ ॥
श्लेष्मा पित्तेन संसृष्टो नखेषु यदि लीयते ॥
श्यामान्येव नखानि स्युरत्र मे नास्ति संशयः ॥ ३३ ॥
श्लेष्मा गर्भे शयानस्य ) नखेष्वालीपते यदि ॥
श्वेतान्येवं नखानि स्युरत्र मे नास्ति संशयः ॥ ३४ ॥
—:०:—
पित्तं गर्भे शयानस्य तालुके यदि जायते ॥
तेनास्य तालुकं कृष्णं जायते नात्र संशयः ॥ ३३५ ॥
कफः पित्तं च वातश्च तालुके लीयते यदि ॥
कल्माषतालुर्मातङ्गः संभवेन्नात्र संशयः ॥ ३६ ॥
असृग्गर्भे शयानस्य तालुके यदि लीयते ॥
तेन पद्मपलाशाभं तालु नागस्य जायते ॥ ३७ ॥
तालुके चैव व्याख्यातं जिह्वौष्ठं दांन्तनां शृणु ॥
रक्तं नीलं तु कल्माषं वातपित्तकफादिभिः ॥ ३८ ॥
—:०:—
पित्तं रुधिरसंसृष्टं चक्षुष्याधीयते यदि ॥
पिङ्गाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३९ ॥
कफोऽनिलेन संसृष्टश्चक्षुश्वेत्प्रतिपद्यते ॥
हर्यक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४० ॥


* धनुराकारमध्यस्थौ श्लोकौ न स्तः खपुस्तके । † धनुराकारमध्यस्थाः श्लोका
भ्रष्टाः खपुस्तके ॥


१ क. पिशङ्गास्तेन मातङ्गा जायन्ते ना० ।