हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 446, कुल 742 में से
संदर्भ में पढ़ें८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४२७
मृगस्वरूपसंपन्नो मन्दश्चे(चे)ष्टश्च वारणः ॥
इत्येकरूपयोगेन त्रयोऽन्यमनसो गजाः ॥ २८५ ॥
तथा मन्दमृगश्चापि मृगत्वं मनसा गतः ॥
मृगमन्दश्च भद्रश्च मनसाऽपि गतः सदः ॥ ८६ ॥
सर्वभद्रस्तथा चैव भवेद्भद्रमना गजः ।।
एवं त्रयश्च षट् द्वौ च नवान्यमनसो गजाः ॥ ८७ ॥
वक्ष्यन्ते द्वित्रिरूपाश्च तथा स्वमनसो नव ॥
द्विरूपसंकरे यच्च नाम पूर्वं निपात्यते ॥ ८८ ॥
तस्मिन्करोति तत्सत्त्वमिति सर्वेषु निश्चयः ॥
भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत् ॥ ८९ ॥
तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः ॥
मन्दभद्रश्च मन्दत्वं चेतसाऽपि प्रमिद्यते ॥ २९० ॥
मृगता मृगभद्रस्य व्यतिक्रमणचेतसः ॥
मृगमन्दो मृगत्वं च मनसा संप्रकाशयेत् ॥ ९१ ॥
तथा मन्दमृगो यश्च मन्दत्वं मनसा गतः ॥
मृगतां मृगभद्रश्च संप्राप्नुश्चेतसा गजः ॥ ९२ ॥
मृगमन्दो मृगस्यैव मनसा संप्रकाश्यते ॥
इति द्विरूपयोगेन षडेते परिकीर्तिताः ॥ ९३ ॥
त्रिरूपाश्च त्रयोऽन्ये तु स्वमनोभिः समन्विताः ॥
त्रिरूपसंकरे चास्मिन्समर्नैस्त्वः स्थितिर्भवेत् ॥ ९४ ॥
इत्येष बुद्धिप्रसरश्चिन्ताविचेन पच्यते ॥
एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ॥ २९५ ॥
अष्टादशैव संकीर्णाः काश्यपेनोपपादिताः ॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा ॥ ९६ ॥
मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः ॥ ९७ ॥
इति जाताः षडेवात्र जातितन्त्रोपदेशवित् ॥
निश्चित्य बुद्धो भगवान्गजानामाह गौतमः ॥ ९८ ॥
मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा ॥
चतस्रो जातयस्त्वेवं राजपुत्रमते स्मृताः ॥ ९९ ॥
१ क. °तसा । मृ° । २ क. यथा । ३ क. °गश्चैव । ४ क °नस्त्वस्थि-
भिर्भ° । ५ ख. जाती । ६ क. °देशिवत् ।