सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 442, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 442

शिराभिर्वलिभिर्मुक्तैर्युक्तो गात्रैः समाहितैः ॥
इषीके चाक्षिकूटे च कुम्भश्चावग्रहेऽपि च ॥ २२९ ॥
कटो च सगदो वाऽपि दन्तवेष्टो तथैव च ॥
अनुत्सन्ना ह्यनिन्द्याश्च प्रदेशास्तस्य कीर्तिताः ॥ २३० ॥
तथैषां तुल्यसंस्थानौ दन्तौ चापि विशेषतः ॥
मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ॥
स्निग्धौ च परिनिम्नौ च समौ चापि प्रमाणतः ॥
कर्णौ सूक्ष्माण्डरोमाणौ ज्ञेयौ तस्य विपश्चिता ॥ २३२ ॥
समानवर्णैर्मृदुभिः सूक्ष्मैः स्निग्धैस्तनूरुहैः ॥
एकजाश्रितरोमा च स्वायतव्यायतच्छविः ॥ २३३ ॥
मांसैः स्थिरैः समग्रैश्च यथाभागैः प्रतिष्ठितैः ॥
तनुभिर्बहुभिश्चैव सर्वतः स विभूषितः ॥ २३४ ॥
प्रोहौ च पलिहस्तौ च पलिपादौ च यस्य तु ॥
[