सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 445, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 445

४२६ पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
चतुर्भिरेव लिङ्गैरस्तु लिङ्गितं जातितो गजम् ॥
तं संकरज्ञः संकीर्णं याज्ञवल्क्योऽभिमन्यते ॥ ७३ ॥
स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु यः स्मृतः ॥
संकीर्णलक्षणापेक्षो विशेषस्तत्र कीर्त्यते ॥ ७४ ॥
(※स्वाद्वम्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसैः ॥
कटुतीक्ष्णकषायैस्तु रोगमाशु प्रपद्यते ॥ २७५ ॥
तस्मादेवं विभागज्ञो बलमाधाय योगवित् ॥ )
सर्वोपञ्जनसंकीर्णं भिषक्कर्म समादिशेत् ॥ ७६ ॥
वेदनार्तमसंमूढो विविधैः प्राजनाङ्कुशैः ॥
यथाजाति प्रदेशांस्तान्कर्ता कर्मसु संस्पृशेत् ॥ ७७ ॥
येन योऽभ्यधिकः स्यात्तु तस्मिंल्लक्षणसंकरे ॥
तन्मना इति तेनासौ चिह्नेन व्यपदिश्यते ॥ ७८ ॥
एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान् ॥
अष्टादशैव संकीर्णा जातीर्जानाति काश्यपः ॥ ७९ ॥
एकद्विरूपास्तस्याग्रे नवान्यमनसो द्विपाः ॥
द्वित्रिरूपाः सुमनसो नवैवेति विनिश्चयः ॥ २८० ॥
※भद्रो मन्दमनास्तत्र भद्रो मृगमनाश्च यः ॥
भद्रो भद्रमना नागो मृगो मन्दमनास्तथा ॥ ८१ ॥
इत्येकरूपयोगेन षडन्यमनसो गजाः ॥
द्विरूपसमवायेन वक्ष्यन्तेऽत्र त्रयः पुनः ॥ ८२ ॥
भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः ॥
तथा भद्रमृगश्चापि †मन्दत्वमनसा गजः ॥ ८३ ॥
चेतसाऽभिप्रपन्नश्च मृगमन्दोऽपि भद्रताम् ॥
भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ * 'मन्दो भद्रमना नागो मन्दो
    मृगमनास्तथा । मृगो भद्रमना नागो मृगो मन्दमनास्तथा ' इत्येव पाठो भवितुमर्हति
    वक्ष्यमाणषट्संख्यानुरोधात् । † 'मन्दत्वम्' इति पाठो भवेत् ॥
    १ ख. लिङ्गिनं । २ ख. ०ल्क्यो विम० । ३ ख. ०र्जानीहि पार्थिव ॥ ए० ।
    ० । ५ क. ०त्येष रू० । ६ क. ०न्ते तत्र यः । ७ क. गतः । ८ क.
    १ क. ०।