हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 447, कुल 742 में से
संदर्भ में पढ़ें४२६ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने
मृगः शुद्धोऽथ मन्दश्च मृगमन्दस्तथाऽपरः ॥
भद्रभावे मृगस्येह तन्मयत्वं कथं भवेत् ॥ ३०० ॥
अधिकत्वेऽपि तस्यैवैमरिमेदिनं मृष्यते ॥
एवं च ब्रुवतस्तस्य चतस्रो जातयो मताः ॥ १ ॥
मृगो भद्रश्च मन्दश्च संकीर्णश्चेति तन्मनाः ॥
एवं विप्रतिपन्नेषु पूर्वाचार्येषु बुद्धिमान् ॥ २ ॥
हस्तिचारी तु भगवाञ्ज्ञातीः षोडश मन्यते ॥
सर्वव्यञ्जनपूर्णांस्तु शुद्धा भद्रादय॑स्त्रपः ॥ ३ ॥
भद्रो मन्दमनाश्चौन्यो भद्रो मृगमनास्तथा ॥
संकीर्णो मनसा भद्र इत्येताः सप्त जातयः ॥ ४ ॥
मन्दो भद्रमना ज्ञेयो मन्दी मृगमनाः पुनः ॥
मन्दः संकीर्णचेताश्च देश संरूपाः समर्थिताः ॥३०५ ॥
मृगो भद्रमना दृष्टो मन्दश्च मनसा मृगः ॥
मृगः संकीर्णचेताश्च संख्यया एतास्त्रयोदश ॥ ६ ॥
भद्रमन्दशरीरेण मृगस्य मनसा युतः ।
तथा भद्रमृगश्चापि मन्दचेता मतङ्गजः ॥ ७ ॥
यश्च मन्दमृगो योन्या दृष्टो भद्रमतिर्गजः ॥
तेन सार्थमिमास्तस्य जाताः षोडश जातयः ॥ ८ ॥
संकीर्णाः सुलभाः शुद्धा दुर्लभास्तु मृगादयः ॥
हेतुभिर्बहुधिष्ठानेरैता गजजातयः ॥ ९ ॥
प्राप्नुवन्ति बहून्दोषान्वक्ष्यन्ते ते मयाऽधुना ॥
प्रकृत्या हीयते कश्चित्कश्चिद्वा विनयाङ्गजः ॥ ३१० ॥
अप्रभावात्तथाऽन्यश्च मिथ्याविनयतोऽपरः ॥
अनानुपूर्व्या संतापात्तीक्ष्णदण्डैश्च घातनात् ॥ ११ ॥
स मिथ्याविनयाद्रोरोहच्छेद्रात्रे व्यथान्तरः ॥
एवं विवर्णो विमनाः कृशः पर्यश्रुलोचनः ॥ १२ ॥
मोहाद्दण्डविचारेण मूढो भवति वारणः ॥
गुरुणाऽतिप्रवृद्धेन बन्धेनात्यायतेन वा ॥ १३ ॥
१ क. गजस्येह । २ क. ॰व परिमर्द्दिनम्॑ । ३ क. ॰यश्च ये ॥ भ॰ ।
४ क. ॰श्चान्ये भ॰ । ५ क. देशसंख्या । ६ क. ॰गोऽन्यो यो दृ॰। ७ क. ॰रान्पृ-
च्छोभाद्वियतां गतः ॥ ए॰ ।