सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 448, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 448

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४२९
मोहाद्गन्धप्रमादाद्वा बन्धादुद्विजते द्विपः ॥
दन्तिनां तु विशेषेण तत्प्रमाणाधिको हि यः ॥ १४ ॥
संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः ॥
उच्छ्वासमुपरुन्ध्याद्यो गात्रसंचारमेव वा ॥ ३१५ ॥
संबन्धसंज्ञया तज्ज्ञैरत्यायूत इति स्मृतः ॥
भूयश्चोपरिविक्षेपादेळकोऽङ्क्षा(?) च योगतः ॥ १६ ॥
सोऽतिप्रबन्धो विज्ञेयो बन्धो यो दुष्प्रमादतः ॥
एवं दोषं व्यवस्यन्ति तस्मादभ्यधिको हि यः ॥ १७ ॥ .
परिक्षेपातिबाहुल्याद्दन्तिनां हस्तिनां परे ॥
एवं बन्धोद्भवैर्दोषैः प्राप्नुवन्त्यत्र कुञ्जराः ॥ १८ ॥
रोगांश्च दोषैर्गात्राणां हानिं च बलतेजसाम् ॥
कर्मणाऽतिप्रवृद्धेन योक्तुरज्ञानजेन वा ॥ १९ ॥
तथा च क्रियमाणेन 'नित्यं दुष्यन्ति वारणाः ॥ ३२० ॥
यो हि जातिविभागं तु सत्त्वानूकं च तत्त्वतः ॥
अबुद्ध्वा योजयेत्कर्म स भद्रानपि दूषयेत् ॥ २१ ॥
यस्तु लक्षणनिर्देशं विदित्वा कर्म योजयेत् ॥
असंशयं स मतिमान्संकीर्णानपि साधयेत् ॥ २२ ॥
अन्योन्यकर्मव्यत्यासात्तेषु सिद्धिर्न विद्यते ॥
पंथोपदेशयोगाद्धि सर्वाः सिध्यन्ति जातयः ॥ २३ ॥
पित्तं गर्भे शयानस्य त्वचं चेत्प्रतिपद्यते ॥
कालो भवति मातङ्गो ह्यरूक्षस्निग्धदर्शनः ॥ २४ ॥
श्लेष्मा मारुतसंसृष्टस्त्वचं यद्यनुगच्छति ॥
(*श्यामो भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः ॥ ३२५ ॥
श्लेष्मा गर्भे शयानस्य त्वचं चेत्प्रतिपद्यते ॥
हरिर्भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः ॥ २६ ॥
पित्तं मारुतसंसृष्टं त्वचं यद्यनुगच्छति ॥ )
कालः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २७ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।
    १ क. ०कायापि यो० । २ क. ध्वनिं । ३ क. दुष्यति वारणः । ४ क.
    ०संश्लिष्ट० ।