सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

तेजोवतीं त्रिकटुकं हरिद्रे लशुनं वचा।
क्षुण्णाः सक्षौद्रकवला देया स्थैर्याग्निवर्धनाः।
तैलपानप्रयोगाद्वा गजः प्रकृतिमाप्नुयात् ॥
इति स्थूलशारदः।
अतः परं प्रवक्ष्यामि पैत्तिकं कृशशारदम्।
यस्य संवत्सरोत्सृष्टकर्मणः पित्तवर्धनेः ॥
बलक्षयकृताहारैर्विषमै रूक्षसेवितैः।
शालीभूतस्य चाभाव्यदाहार (?) वातवस्तुषु ॥
एभिः प्रकुपितं पित्तं जनयेत्कृशशारदम्।
ततः कृशोऽलसश्छायाकाङ्क्षी प्रद्वेष्टि चाऽऽतपम्।
इच्छेच्च स्निग्धमधुरमनुपानं तृणाशनम् ॥
पूर्ववत्कर्म चास्यापि कार्यं व्यायामजं शनैः।
भोजनं चैव शालीनां प्रातः सघृतशर्करम् ॥
तस्यानुपाने(नं) मृद्वीकाशर्करामधुकैः स्मृतम्।
सर्पिः क्षीरं प्रयुञ्जीत पानं चाप्यथ शक्तितः ॥
पित्तघ्ना बृंहणीयास्तु क्रियाः सर्वाश्च कारयेत्।
इति कृशशारदः ॥
वक्ष्यते² वातिकस्त्वेकः प्राकृतो नाम शारदः।
अव्यायामस्य षण्मासान्विधास्नेहविवर्जितम् ॥
तृणमेवाश्रतः शुद्धं विरोधाच्चापि सात्म्यतः।
कुर्याद्विप्रतिपन्नः सन्वायुः प्राकृतशारदम् ॥
ततस्तु कृच्छ्रविण्मूत्रो मन्दग्रासोऽलसो गजः।
अवसीदन्ति वीर्येण क्रिया तस्यापि पूर्ववत् ॥
भोजनं स्निग्धमधुरमम्लं सलवणं हितम्।
सुरां सपञ्चलवणां षडङ्गं चापि पाययेत्³ ॥
तैलमांससमायुक्तैर्लशुनैर्बृंहयेच्च तम्।
यद्येवं सुस्थिरो न स्याद्धस्तिकर्म च संस्मृतम् ॥
( इति ) प्राकृतशारदः।
चतुर्थोऽतः परं राजञ्ज्ञेयो लोहितशारदः।
आहाराचारमुक्तिनः षण्मासोत्सृष्टकर्मणः ॥
१ क. ०प्यथ श०। २ क. ०ते प्राकृतस्त्वेको वातिको ना०। ३ ख. पाचयेत्।

५४ मधुमक्षिकादष्टोऽध्यायः ] [ हस्त्यायुर्वेदः । ] २७७
कटुकाम्ललवणभोजनाद्रक्तशारदः ।
मन्दग्रासोऽलसोत्स्रष्टभ्रमन्नासातुरो भवेत् ॥
शतधौतघृताभ्यक्ते पैत्तिकस्य विधिः स्मृतः ।
खर्जूरबदराद्राक्षाशर्करालाजसक्तुकैः ॥
स्वेञ्जावतोपे मथितैः तृष्णाघ्नं पानमुत्तमम् ।
( इति ) लोहितशारदः ॥
शारदान्तवयसे विशारदः कुञ्जरान(?)चतुरश्चतुरोऽपि ।
कर्मसु क्रमविवर्धितयोगात्स भिषग्वरे एव .... .... ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
शारदो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
अथ चतुष्पञ्चाशत्तमोऽध्यायः ।
*भगवांल्लोमपादेन राज्ञा संचोदितः पुनः ।
नागा नाश्नन्ति ग्रासि(?) ज्वरश्चास्योपजायते ॥
एवं दष्टस्य विज्ञानं चिकित्सितमतः परम् ।
ह्रदे निर्वाप्य मातङ्गं सर्पिषा परिषेचयेत् ॥
क्षीरवृक्षत्वचश्चैव पयसा सह पेषयेत् ।
† सशर्करां समृद्दीकां क्षीरपानं प्रशस्यते ॥
हरिद्रे वेणुपत्राणि कुष्ठं नलदसारिवे ।
कल्कपिष्टानि सर्वाणि सर्पिषा सह संसृजेत् ॥
ततः स्तम्भगतं नागं समन्तादनुलेपयेत् ।
तेन सौरूप्यमवाप्नोति वेदना चोपशाम्यति ॥
आहारं मधुरप्रायं सर्वमस्मै प्रदापयेत् ।
तेनासौ सुखमाप्नोति वेदना चोपशाम्यति ।
तथा मत्स्यण्डिकायुक्तं यवसं च प्रदीयते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
मधुमक्षिकादष्टो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

  • इतः प्राक्तनः प्रश्नग्रन्थो नोपलभ्यतेऽतस्त्रुटित इति प्रतिभाति । † 'सशर्करं
    समृद्दीकम्' इति पाठे न दोषः ॥
    १ ख. स्वज्जाव० । २ क. ०रपूज्यः । ३ क. भवांश्च रोम०। ४ क. प्रदापयेत् ।

An exact line-by-line transcription of the Sanskrit text provided in the image:

२७४. पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने]
अथ पञ्चपञ्चाशत्तमोऽध्यायः ।
अथ खलु रोमपादोऽङ्गाधिपतिरपृच्छत्—'भगवन्पालकाप्य, कथमिदानी-
मपि नागानां छविदोषा नानाविधसंस्थाना भवन्ति । तत्र साध्याः के, किं च
तेषां चिकित्सितं निदानं वा भवति, एतत्सर्वं विस्तरेण ममाऽऽख्यातुमर्हसि' इति॥
एवं पृष्टः पालकाप्य उवाच—इह खलु भो हस्तिनामेकादश च्छवीदोषा
भवन्ति । तद्यथा—विसर्पिकी, मण्डली, दद्रुकी, महादद्रुकी, जातसूका, पिटका,
फुल्लिका, उद्रण्डिका, विचर्चिका, तृणपुष्पी, किलासी च; इत्येवमेकादश च्छवी-
दोषा एकादशनामानो नानाविधलिङ्गसंस्थाना भवन्ति । अतः परमुत्पत्तिमनु-
व्याख्यास्यामः । तद्यथा—अनिलपित्तकफशोणितान्येकैकशो युगपद्वा कोपा-
दुदीर्णानि च्छवीमनुसृत्य रोगाननेकलिङ्गानूत्पादयन्ति ॥
तत्राऽऽदौ विसर्पिकी नाम वातशोणितात्मको व्याधिर्यस्माद्विसर्पति तस्मा-
द्विसर्पिकी । अस्योपक्रमः पुण्डरीकपाकले व्याख्यातोऽस्माभिः ॥
अथ द्वितीयश्छवीदोषा(षो) मण्डली पृथक्पृथङ्मण्डलानि श्वेतानि रक्ता-
भासानि कपिलानि भस्माभासानि लक्ष्यन्ते । एतानि कफशोणितसंसर्गतश्छ-
विमाश्रित्य जातानि साध्यानि भवन्ति । तस्योपक्रमः--क्षारलेपनाभ्यञ्जने-
द्विव्रणीयोपचारश्चेति ॥
*पिटकाभिर्वृतायां छवौ प्रस्तब्धाः (†सर्वतः पिटिकाश्छवीमाश्रित्य भवन्ति ।)
एष श्लेष्मपित्तसंसर्गाद्विकारः । तस्योपक्रमः—द्विव्रणीयोक्त एवानुष्ठेयो
भवति ॥
अतः परं फुल्लिका नाम । तेन सर्वतश्छविः पुष्पिता ....पाण्डुरा पु(प)रुषा
भवन्ति । स वातपैत्तिकश्छवीदोषः श्लेष्मशोणितक्षपादद्वति । तस्योपक्रमः—
स्निग्धैर्बृंहणीयैर्भक्ष्यभोज्यस्नेहपानादिभिरनुष्ठेय इति ॥
अथोद्रण्डिकाख्यः स्याच्छवीदोषो यत्र सर्वतश्छवी दद्रुभिव्र्व्याप्ता भवति ।
स कफकोपाद्विकारः संभवति । तस्योपक्रमः—तैलेनेवाभ्यङ्गस्वेदसूक्ष्मद्रव्यका-
येस्तूत्कर्द्द्यते, इति ॥
विचर्चिकाछवीदोषेऽप्यथ शूनाल्पवेदना विवर्णा प्रस्तब्धा च च्छविर्भवति ।
कफपित्तरुधिराद्विकारोऽयं भवति । तस्योपक्रमः—यथाव्याधि समानेरम्भङ्गेरो-

  • इतः प्राक्तनाः 'दद्रुकी, महादद्रुकी, जातसूका' इत्येते त्रयश्छवीदोषास्तु-
    टिताः पुस्तकद्वयेऽपि नोपलभ्यन्ते । + धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ॥
    १ क. ०ण समा०। २ क. जातस्तकी । ३ क. ०मासृज्य जा०। ख. ०मासृत्य ।

५६ मृत्तिकाऽध्यायः ] हस्त्यायुर्वेदः । २७९
षधैः शीतैः सौम्यैश्च लेपनैरनुष्ठेयो भवति । तथाविधं च पानं भोजनं परिक-
ल्पयेत् ॥
तृणपुष्पी नाम यथा—तृणमस्ति श्वेतशिरा नाम । तस्याग्रे श्वेतमुपलभ्यते
पुष्पम् । तत्पुष्पाकृतिसमस्थानैर्मण्डलैः सर्वतश्छविः पुष्पिता भवति । स 'तृण-
पुष्पी' इत्यभिधीयते । स वातकफरुधिर .... .... .... .... .... .... .... । तस्यो-
पक्रमः—तिक्तोषधैस्तैलमनुपंकमभ्यङ्गपानान्यप्र(न्युप)हरेत् ॥
किलासी नाम पित्तकफसमानि कैलासानि श्वेतानि कपिलानि कृष्णावभा-
सानि वा लक्ष्यन्ते । तानि संनिपातेन पृथक्पृथङ्मण्डलानि संभवन्त्यसा-
ध्यानि । पुनः कस्यचिद्गर्भदोषैर्गर्भस्थस्यैवोपजायन्ते । एष च विवर्जनीयः ।
तत्र श्लोकौ—
कुशलो मतिमान्वैद्यो दृष्टकर्मा विशारदः ॥
ऊहापोहविधिज्ञस्तु शस्त्रकर्मविचक्षणः ॥
यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि ॥
यः साधयति पूजां स पार्थिवात्प्राप्तुमर्हति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
छविदोषो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
अथ षट्पञ्चाशत्तमोऽध्यायः ।
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् ।
पालकाप्यं तु नृपतिः पप्रच्छासौ महायशाः ॥ १ ॥
मृत्यवः पञ्चदश च गजानां चरतां वने ॥
न ते भगवता प्रोक्ता ग्राम्याणां बहुरोगता ॥ २ ॥
अत्र मे संशयस्तीव्रो भगवन्समुपस्थितः ॥
तदशेषेण भगवन्व्याख्यातुं मे त्वमर्हसि ॥ ३ ॥
किमर्थं भक्षयित्वा तु मृत्तिकास्तु बहूरपि ॥
वारणा वह्निसंपन्ना राजन्वनविचारिणः ॥ ४ ॥
भवन्ति बलसंपन्नास्तेजोबलसमन्विताः ॥
दृढसर्वेन्द्रिया हृष्टाः कामवन्तो मनस्विनः ॥ ५ ॥
१ ख. °पक्रम° ।

.
Look at the digit in line 3: it looks like ५ or ६?
Wait, look at line 5: ॥ ७ ॥.
Line 4: तदा रोगान्नियच्छन्ति किमर्थमिह दारुणान् ॥
Line 5: ग्रासद्वेषं तथा गुल्मं वेपथुं सगलग्रहम् ॥ ७ ॥
Line 6: आनाहमथ हृद्रोगं चरणस्तम्भमेव च ॥
Line 7: तथाऽतीसारमध्यन्मे(?) लभन्ते पूतिगन्धिताम् ॥ ८ ॥
Line 8: मूर्च्छादींश्चापरान्रोगांल्लभन्ते विविधात्मकान् ॥
Line 9: भक्तं च यवसं चैव तेन चैषां विकारवत् ॥ ९ ॥
Line 10: एतदिच्छामि निखिलं वेदितुं भिषजां वर ॥
Line 11: सनिदानं समुत्थानं तथैव सचिकित्सितम् ॥ १० ॥
Line 12: ततोऽब्रवीत्तत्त्वदृष्टिः पालकाप्यो महायशाः ॥
Line 13: प्रश्नविज्ञानसंपन्नो रोमपादाय पृच्छते ॥ ११ ॥
Look at that!
Line 10 + 11

५१ मृत्तिकाध्यायः ] हस्त्यायुर्वेदः । २८१
रूक्षैः कषायैः कटुकैस्तृणद्रुमसमुद्भवैः ॥
रसैर्नानाविधैर्नागाः पुष्यन्ति सततं वने ॥ २० ॥
तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत् ॥
जेरयन्ति महीं भुक्त्वा वारणा भृशदारुणम् ॥ २१ ॥
इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः ॥
इत्यन्येऽपि तु दृश्यन्ते हेतवो मनुजाधिप ॥ २२ ॥
वन्या येन क्षितिं भुक्त्वा न भवन्ति विकारिणः ॥
बलं नास्ति* सर्वगात्रः प्रहृष्टेन्द्रियमानसः ॥ २३ ॥
यदा संयुज्यते नागो मुदितो जातकामया ॥
संप्रयोगगतं तत्र गर्भं गृह्णाति धेनुका ॥ २४ ॥
तस्यां संजातगर्भायां दौर्हृदं नाम जायते ॥
स द्वितीये तृतीये वा मासे संजायते भृशम् ॥ २५ ॥
तेन चाऽऽर्ता गजवशा मृत्तिकामुपसेवते ॥
तस्या हृदयसंबद्धा नाभ्यां नाडी प्रतिष्ठिता ॥ २६ ॥
सिरा रसवहा राजन्स गर्भः पुष्यते यया ॥
प्रसूते धेनुका काले हस्तिनी यदि वा गजम् ॥ २७ ॥
मातुर्दौर्हृदजातं तु मृदंशमनुवर्तते ॥
स पयोमृत्तिकाहारो मृदुपल्लवभोजनम् ॥ २८ ॥
वने चरति संहृष्टः समाः पञ्च मतङ्गजः ॥
स गजः पञ्चमे वर्षे क्षीरादेव निवर्तते ॥ २९ ॥
सुव्यक्तदन्तः स भवे (?) भवत्यतिविचेष्टितः ॥
ततः क्षीरादपवृत्तो वृक्षभङ्गं निषेवते ॥ ३० ॥
विविधं पल्लवं चैव चित्राणि यवसानि च ॥
ते पुनः पांशुवातेन तथा वप्रादिमर्दनैः ॥ ३१ ॥
क्षुधिता वारणा राजन्भक्षयन्ति मृदं सदा ॥
पक्वसस्ये तथा काले गर्भात्प्रभृति मृत्तिका ॥ ३२ ॥
वियोगाच्चान्नपानस्य विकाराय प्रकल्पते ॥
इत्येते हेतवः प्रोक्ता बहवो वनचारिणाम् ॥ ३३ ॥

  • अत्र कदाचित्किंचित्रुटितमिव प्रतिभाति ।

१ ख. जरजन्ती ।
३६

क्षितिमाहारयन्तोऽपि ये भवन्ति निरामयाः ॥
ग्राम्याणामिह वक्ष्यामि हेतून्येस्तु महीपते ॥ ३४ ॥
लभते यान्गजो राजन्विकारान्मृत्तिकाशनात् ॥
दावाग्निदग्धां पृथिवीं वारणा जलदागमे ॥ ३५ ॥
अभिवृष्टां जलधरैः सुगन्धां भक्षयन्ति वै ॥
पथ्यापथ्यैश्च बहुभिराहारैः संचितैर्नृप ॥ ३६ ॥
मधुराभ्यवहारैश्च तथाऽन्यैरपि भोजनैः ॥
(†कृमयो जठरोत्थास्तु हृल्लासं जनयन्ति ते ॥ ३७ ॥
.... .... .... राजन्मुहु ह्यस्य बहुद्रुजाः (?) ॥)
ग्राम्याः स्नेहामयैर्धान्यैस्तथैव रसभोजनैः ॥ ३८ ॥
पुष्यन्ति लवणैस्त्वेव ततस्तेषां महीपते ॥
ग्रहणी मार्दवं याति मृदुभिः स्निग्धपेशलैः ॥ ३९ ॥
ततस्तेषां विकाराय कल्पते भक्षिता मही ॥
मधुरैश्च तथाऽऽहारैः स्नेहपानैश्च नित्यशः ॥ ४० ॥
स्निग्धास्तु हेतुना तेन कुर्वन्त्यवनिभक्षणम् ॥
बलं च वर्धयत्येवमुपयुक्ता वसुंधरा ॥ ४१ ॥
आमाशयगता राजन्मृत्तिका बाधते गजम् ॥
उन्मादयन्ति रामास्वविधातुः (?) प्राणनाशनात् ॥ ४२ ॥
एतस्मात्कारणाद्राजन्नरक्षितव्या मतङ्गजाः ॥
सततं मृत्तिकादानादारक्षैः पुरुषैर्नृप ॥ ४३ ॥
ग्राम्याणां मृदुकोष्ठानां दुर्जरा भवति क्षितिः ॥
आहारपरिणामे तौ (?) *नागं खादति मृत्तिकाम् ॥ ४४ ॥
मृत्तिकापरिणामे वा यदाऽऽहारं निषेवते ॥
दोषं न लभते तेन मृत्तिकाभक्षणेन वै ॥ ४५ ॥
इत्येतत्कारणं प्रोक्तं ग्राम्यारण्यनिवासिनाम् ॥
(†गजानां मृत्तिकादाने हेतुर्दृष्टः पृथग्विधः ॥ ४६ ॥
अथ च्छिद्रानि वक्ष्यन्ते) गजानां मनुजाधिप ॥
मृत्तिकाभक्षणोत्थानि विविधच्छास्त्रनिश्चयात् ॥ ४७ ॥


* 'नागः' इति स्यात् ॥
† धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥
१ क. ख. ०विविधा० ।

[मृत्तिकाध्यायः ] हस्त्यायुर्वेदः । २८३
स्तब्धाध्मातोऽतिवेगेन सघोषश्च सशीकरः ॥
कृष्णोपयोगान्मातङ्गो मन्दग्रासोऽतिसार्यते ॥ ४८ ॥
शूलार्तो विमनाश्चापि परिशुष्कमुखो भृशम् ॥
श्वेतोपयोगान्मातङ्गो मन्दग्रासोऽतिसार्यते ॥ ४९ ॥
दह्यमान इवावस्थो म्लानगात्रोऽतिसार्यते ॥
जनयन्त्यूषराः श्वेतं पुरीषमिह दन्तिनः ॥ ५० ॥
विवर्णविवरावकर्णपङ्गो करीषवत् (?) ॥
नातिस्तम्भो न वा बद्धो न चैव विमना भृशम् ॥ ५१ ॥
भवेदूषरया नागो मन्दग्रासो मृदाऽर्दितः ॥
पाण्डूपयोगान्मातङ्गः कृमिदुष्टं निरूहति ॥ ५२ ॥
द्रवत्यत्यर्थदुर्गन्धं पुरीषं जलपन्नवत् ॥
विनमत्यथ कायेन प्रस्तब्धकरणो गजः ॥ ५३ ॥
शूलार्तश्च भवेन्नागः परिशुष्कमुखो भृशम् ।
मन्दग्रासस्तु विमनाः परिमूत्री च वारणः ॥ ५४ ॥
भवेत्पाण्डूपयोगेन विवर्णपरुषच्छविः ॥
नागोत्थं विह्वलो ˙˙˙˙नाभिपुत्रेन्द्रिय˙˙˙˙सः ॥ ५५ ॥
न चात्याध्मानकुक्षियः स गजः साध्यलक्षणः ॥
कर्णलाङ्गूलविष्टब्धस्तथाऽऽध्मातो मुहुर्मुहुः ॥ ५६ ॥
लक्ष्यते यत्र(श्च) मातङ्गो न स जीवति दुर्मनाः ॥
साध्यरूपं गजं दृष्ट्वा लक्षणैः संप्रकीर्तितैः ॥ ५७ ॥
ततस्तं मतिमान्वैद्य आरभेत चिकित्सितुम् ॥
आनद्धकुक्षिं विज्ञाय चोदयेत्स्थूलविक्रमैः ॥ ५८ ॥
ततस्तमालितं स्तम्भे सर्वतैलेन सेचयेत् ॥
अथैनं कथिते देशे-पक्वपक्षं निषादयेत् ॥ ५९ ॥
वार्तितस्य च निष्कोशौ पाणिभ्यां मर्दयेद्भृशम् ॥
*उत्थितोपरिपन्नस्य व्यायामः परिवर्तते ॥ ६० ॥
तेन कोष्ठगतो वायुः क्षिप्रमेव प्रशाम्यति ॥
चतुरस्रं खनेत्कूपं यावच्छ्रोणीप्रमाणतः ॥ ६१ ॥

  • उत्थितोपानिषन्न(ण्ण)स्य इति भवेत् ।
    १ ख. ॰तो विवे॰। २ क. कालेन । ३ क. स्तम्भैः । ४ ख. पाष्णिभ्यां । ५ क. उच्छ्रितो॰।

२८४ पालकाप्यमुनिविरचितो— [१ क्षुद्ररोगस्थाने-
ततस्तं वारिणा कूपं सुखोष्णेनावपूरयेत् ॥
तस्मिन्कूपे ततः सम्यङ्नागं तमवगाहयेत् ॥ ६२ ॥
निवातायां च शालायां धूपयेद्दोषघ्नैस्ततः ॥
हिङ्गुसर्जरसोशीरैः सर्वगन्धैश्च तेन च ॥ ६३ ॥
धूपेनानेन नागस्य वायुः शाम्यति कोष्ठजः ॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे ॥ ६४ ॥
पिप्पलीपिप्पलीमूले चित्रकं हस्तिपिप्पलीम् ॥
वचामतिविषां यासं तथा कटुकरोहिणीम् ॥ ६५ ॥
हरिद्रे द्वे विडङ्गानि मरिचानि महौषधः(म्) ॥
एलां मधूरसां चैव तथा तेजस्विनीमपि ॥ ६६ ॥
देवदारुं तथा हिङ्गुं त्रिवृतां गौरसर्षपम् ॥
त्रिफलां चाजमोदां च तथैवेन्द्रयवानपि ॥ ६७ ॥
लवणैः पञ्चभिर्युक्तं क्षोदयित्वा हुडूखले ।
गोमयेन च मृदीतां पिण्डं नागाय दापयेत् ॥ ६८ ॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति ॥
( † यद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ ६९ ॥
अथान्यदस्मै दातव्यं मृत्तिकाया निरूहणम् ॥
दन्ती कटुकतुम्बी च पान''''क्षजीरकम् ॥ ७० ॥
शिरीषपत्रं लशुनं सर्षपमक्षीपीहकम् (?) ॥
गोमयेनाथ मृदितं पिण्डमस्मै प्रदापयेत् ॥ ७१ ॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति । )
वार्त्ताकानि विडङ्गानि फलमारग्वधस्य च ॥ ७२ ॥
सुहाः पत्रं च मूलं च हरीतक्याः फलानि च ॥
श्यामां च शृङ्गवेरं च गेण्डीरं चाऽऽटरूषकम् ॥ ७३ ॥
उदूखले क्षोदयित्वा पञ्चभिर्लवणैः सह ॥
पिण्डं प्रदापयेद्वैद्यो गोमयेनैव मर्दितम् ॥ ७४ ॥
पद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥
अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे ॥ ७५ ॥
† धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ क. मण्डरी ।

५६ मृत्तिकाध्यायः ] हस्त्यायुर्वेदः । २६५
विडङ्गानि त्रिकटुकां पञ्चैव लवणानि च ॥
मर्दितं गोमयेनाथ पिण्डमस्मै प्रदापयेत् ॥ ७६ ॥
एतेन मृत्तिकां स्रां सपुरीषां निरूहति ॥
यद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ ७७ ॥
अथान्यदस्मै दातव्यं मृत्तिकाया निरूहणे ॥
पाठामतिविषां हिङ्गु वचां तेजस्विनीमपि ॥ ७८ ॥
रोहिणीं कटुकां मुस्तां फणिज्जकफलानि च ॥
इन्द्रदारु पयस्यां च द्वे हरिद्रे तथैव च ॥ ७९ ॥
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥
शङ्खिनीं त्रिवृतां चैव विडङ्गान्मरिचानि च ॥ ८० ॥
पञ्चभिर्लवणैः सार्धं क्षोदयित्वा ह्युदूखले ॥
गोमयेनाथ संमृद्य पिण्डमस्मै प्रदापयेत् ॥ ८१ ॥
एतेन मृत्तिकां सन्नां सपुरीषां निरूहति ।'
आनाहे च यथाप्रोक्तं बस्तिमस्मै प्रदापयेत् ॥ ८२ ॥
आनद्धं बद्धचिह्नं च कृमिकोष्ठं तथैव च ॥
उपक्रमे निरूहैस्तानवसन्नमृदुस्तये(?) ॥ ८३ ॥
बलसिद्धौ यथाप्रोक्तं निरूहं दापयेद्भिषक् ॥
उपक्रमे तथा नागं शास्त्रमाश्रित्य बुद्धिमान् ॥ ८४ ॥
शुद्धकोष्ठं विदित्वाऽथ बद्धलिण्डं च वारणम् ॥
ग्रहणीदीपनार्थाय वातप्रशमनाय च ॥ ८५ ॥
पञ्चभिर्लवणैः सार्धं पिप्पलीं मरिचानि च ॥
मैरेयं वा प्रसन्नां वा प्रतिपानं प्रदापयेत् ॥ ८६ ॥
भक्तार्धमेवानुगजं मुद्गयूषेण भोजयेत् ॥
ततः कुलत्थयूषेण भागोनं तु प्रदापयेत् ॥ ८७ ॥
समस्तभक्तं च ततो भोजयेद्रसभोजनम् ॥
इत्येवं मृत्तिकाध्यायः पृच्छतेऽङ्गाय कीर्तितम्(ः) ॥
पालकाप्येन ऋषिणा वारणानां हितैषिणा ॥ ८८ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने
मृत्तिका नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥

५८६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
ग्रहणीदोषनामानि तत्समाचक्ष्व पृच्छतः ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
व्यापत्सु प्रथमे स्थाने सूचिता ग्रहणीगदाः ॥ २ ॥
तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तरम् ॥
दोषैः पृथक्समस्तैर्वा ते भवन्त्यनिलादिभिः ॥ ३ ॥
अत्याहारादनाहारात्तथैव विषमाशनात् ॥
कुपिते मारुते कोष्ठे व्यापादयति पावकम् ॥ ४ ॥
तत्र भिन्नं पक्वं वाऽपि शकृदस्य प्रवर्तते ॥
सबिम्बं च सशूलं च साध्मानं फेनिलं बहु ॥ ५ ॥
इत्येतैर्लक्षणैर्विद्याद्वातजं ग्रहणीगदम् ॥
हस्तिनस्तु विशेषेणं करोति महतीं व्यथाम् ॥ ६ ॥
(*पञ्चमूलद्वयं क्वाथं बालबिल्वं वचा पुनः ॥
समुस्ताऽतिविषा हिङ्गु लवणं च प्रदापयेत् ॥ ७ ॥
† शकृदाद्यं सलवणं सांहेङ्गवतिविषा वचा ॥
तन्मूत्रेण युतं पिण्डं दद्यादस्मै यथाबलम् ॥ ८ ॥
क्वाथान्वा वातगुल्मोक्तान्दापयेदनुपूर्वशः ॥
निरामं च शकृज्ज्ञात्वा स्नेहयेद्वाऽपि युक्तितः ॥ ९ ॥
दीपनीयगुणक्वाथैस्तत्कल्कैश्च प्रसाधितैः ॥
स्नेहैरुपाचरेत्सम्यग्भोजनादिषु योजितैः ॥ १० ॥
पिबेदैरण्डतैलं वा दशमूलगणे सृ(शृ)तः ॥
विरिक्तगतविद्वा (?) च क्रमेणैवानुवासयेत् ॥ ११ ॥
सुस्निग्धं मनुजं घासेस्ततो नागं निरूहयेत् ॥
वातिकेन विधानेन स निरूह्यः क्रमात्ततः ॥ १२ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । † 'शकृदाज्यं, शकृदाढ्यं' वा स्यात् ।
    १ ख. ॰ण मभिन्नं करोति महपीडा उद्गदेतरावपि ॥ ६ ॥ प० । २ ख. ॰र्ध्वं
    च वा पु० । ३ क. ख. ॰ज्ञा घासैस्त० ।

१७. ग्रहणीदोषचिकित्साध्यायः ] हस्त्यायुर्वेदः । २८७
भूयोऽनुवासयेदेनं स्नैहैरनिलनाशनैः ॥
दीपनीयेन यावत्स्यात्स्निग्धं लिङ्गत्त्वदर्शनम् ॥ १३ ॥
प्रतिपानादिषु अन्यो विधिः शास्त्रे तदा न तत् ॥
इत्येषा वातिकी प्रोक्ता चिकित्सा ग्रहणीगदे ॥ १४ ॥
( इति ) वातिकः ॥
अत ऊर्ध्वं प्रवक्ष्यामि पैत्तिकस्यापि लक्षणम् ॥
पित्तं प्रकुपितं कोष्ठे कटुकोष्णादिभोजनैः ॥ १५ ॥
दूषयित्वाऽनलं कुर्याच्छकृद्वर्णैः स्वकैर्युतम् ॥
सदाहवेदनं भिन्नमल्प† .... .... .... ........ ॥ १६ ॥
.... .. ....... कथितं शृणु पैत्तिकसाधनम् ॥
मुस्तामलककाश्मर्यपृश्निपर्णीमधूलिकाः ॥ १७ ॥
मूर्वां च बालबिल्वानि मधुकं माषपर्ण्यपि ॥
लोध्रं प्रपौण्डरीकं च पक्त्वा पादावशेषितम् ॥ १८ ॥
शर्करामधुसंयुक्तं पानं पित्तात्मके स्मृतम् ॥
विमुक्तमस्ति(?)˙˙˙˙ ˙˙˙˙ ˙˙˙˙ सर्पिरेवं प्रयोजयेत् ॥ १९ ॥
पाने वो¹ भोजने वाऽपि विधिं तस्य प्रवर्तयेत् ॥
किराततिक्तं भूनिम्बं पटोलं बृहतीद्वयम् ॥ २० ॥
अमृतां वत्सकं मुस्तं पाठां तेजोवतीमपि ॥
तथा पर्पटकैशीरवासा²कटुकरोहिणी ॥ २१ ॥
पक्त्वाऽप्यतिविषां चैव तस्मिन्क्वाथे घृतं पचेत् ॥
तद्रूपं कल्प(ल्क)संयुक्तं पैत्तिके ग्रहणीगदे ॥ २२ ॥
तद्दोषप्रत्यनीकं च (सर्वशान्तिक) पैत्तिकम् ॥
(इति पैत्तिकः ॥)
कफे प्रकुपिते कोष्ठे ससमानरसादिभिः ॥ २३ ॥
अजीर्णाद्यशमाद्वाऽपि लिङ्गाद्दोषौ
विनिर्दिशेत् ॥
समूलकफपित्तं च शकृदामं विमुञ्चति ॥ २४ ॥

  • 'लिङ्गं स्निग्धत्वदर्शनम्' इति स्यात् । † एतदग्रे पुस्तकद्वयेऽपि 'सन्निविलंगं
    इत्येतावानेव पाठः ॥ * धनुराकारमध्यः पाठो नास्ति खपुस्तके । * 'दोषान्'
    स्यात् ।
    १ क. च । २ क. ॰वासो क॰ । ३ ख. ॰ङ्गा दोषा ।

प्रवाहमाननिसिद्धैः*•••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• •••• •••• •••• •••• •••• •••• ॰मालेपयेद्बहिः ॥ २५ ॥
जम्बूदुम्बरवेत्राणां कुष्ठस्य च धवस्य च ॥
कषायैः क्षालयेद्भाण्डं लेपयेन्मेधुना सह ॥ २६ ॥
एलालवङ्गकर्पूरपद्मकागुरुचन्दनैः ॥
सूक्ष्मचूर्णीकृतैरेव पिप्पलीमरिचानि च ॥ २७ ॥
मासादूर्ध्वं ततः पानं पाययेदुत्तमासवम् ॥
सर्ववातविकारेषु ग्रहणीं दा(दी)पयेद्भिषक् ॥ २८ ॥
तद्दोषहरणैश्चान्यैरेवमेव•••• •••• •••• भिषक् ॥
•••• •••• •••• •••• ज्ञेयो विस्तारिको विधिः ॥ २९ ॥
लवणं स्यादर्धनेतं(?)•••• •••• •••• क्षमते विधिः ॥
आरोग्यं कामयेद्यस्तु गजानां रोगसिद्धये ॥ ३० ॥
पञ्चमूलद्वयं पाठामपामार्गं सगोक्षुरम् ॥
पाषाणभेदकं लोध्रं द्वे हरिद्रे विभीतकम् ॥ ३१ ॥
अभया सल्लकी मुस्ता स्नुही चातिविषा चवी ॥
एलां तेजोवतीं व्योषं तथा कटुकरोहिणीम् ॥ ३२ ॥
वचां कुष्ठं वरीं श्वेतां विडङ्गं मूर्वया सह ॥
तथा कटुकतुम्बी च तथा निम्बकरञ्जकौ ॥ ३३ ॥
अहिंसां काकमाचीं च चित्रकं जीरकद्वयम् ॥
अजमोदां च कालां च पिप्पलीमूलमेव च ॥ ३४ ॥
द्वौ करञ्जौ तथाऽर्कं च शिग्रुकं सारिवामपि ॥
दाडिमं तिन्तिडीकं च मातुलिङ्गाम्लवेतसम् ॥ ३५ ॥
लवणानि च सर्वाणि श्लक्ष्णचूर्णानि कारयेत् ॥
श्लक्ष्णचूर्णीकृतैरेतैः समं तत्र प्रसाध्यते ॥ ३६ ॥
सैन्धवं च समायुक्तं रोमकौ वा चिकित्सितम् ॥
अतोऽर्धस्वापमानीय वीक्ष्य दोषबलाबलम् ॥ ३७ ॥
चतुःषष्टिः पञ्च चैशां हिङ्गुभागं समावपेत् ॥
सीधुं काञ्जिकयुक्तेन गोमूत्रेण द्रवीकृतम् ॥ ३८ ॥


  • एतदग्रे पुस्तकद्वयेऽपि ‘च तेष्वदग्निसमापेतु’ इत्येवोपलभ्यते ॥

१ क. ॰न्मधुना । २ क. दूर्वया ।

५८ [मोऽध्यायः ] हस्त्यायुर्वेदः । २८९
दध्ना च मधुना सार्धं सममेतद्विपाचयेत् ॥
पुष्येयोगे द्विजातीयान्स्वस्ति वाच्य१''''दक्षिणाम् ॥ ३९ ॥
सर्वमेतद्विजानीयात्पिण्डीभूतं विचक्षणः ॥
तद्योगं सम(प्त)रात्रं तु वैद्यशास्त्रविशारदैः ॥ ४० ॥
दातव्यं कृमिकोष्ठेन क्षीणाय वारणाय च ॥
मदक्षीणाय तथा भिन्नवर्चाय ताम'''' '''' ॥ ४१ ॥
येभ्यश्च मूलजं दन्तविषं येभ्यश्च कृत्रिमम् ॥
अजीर्णेमांसमद्भुक्तं मातङ्गं न हि नाशयेत् ॥ ४२ ॥
गजानामथवाऽश्वानां महिषीणां गवामपि ॥
प्राणिनामपि सर्वेषां (+सर्वेषा)मति सर्वदा ॥ ४३ ॥
अल्पमल्पं प्रदातव्यमेवमेतैः कृमिगैः क्रमात्(?) ॥
दाम्रिप(?)स्ततो ग्रीष्मे गतजने †वस्तु प्रदापयेत् ॥ ४४ ॥
द्व्यहं त्र्यहं वा विश्रम्य पुरुषेणाऽऽग्नेये*'''' .... ॥
.... .... .... .... .... पिण्डकल्कं समाहृतम् ॥ ४५ ॥
.... .... .... .... पर्युतं.... .... .... .... .... .... .... ॥
दापयेत्सर्पिषा सार्धं.... .... .... .... .... .... ॥ ४६ ॥
पस्थाकेतचिकित्सेषु (?) .... .... .... .... .... .... ॥
नानाविधं पयः ३प्रोक्तो (?) यद्यपि (?) श्चैव सूरिभिः ॥ ४७ ॥
गव्येषु तेषु ४तिस्तेषु (?) प्रधानेन तदुच्यते ॥
तेष्वमूत्रपुरीषत्वा५चोऽतिश्रेष्ठतया तथा ॥ ४८ ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने ग्रहणीदोषचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
अथाष्टपञ्चाशत्तमोऽध्यायः ।
अनूपयवसाहाराद्रुरुस्निग्धानि भोजयेत् ।
अल्पप्राणस्य मन्दाग्नेः सदा जागरणान्निशि ॥

  • धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके । † 'वस्तुप्रदापयेत्' इति द्वयो-
    रपि पुस्तकयोरुपलभ्यते । * इत उत्तरं द्वयोरपि पुस्तकयोः 'कृमिघ्नः' इत्युपलभ्यते ॥
    १ ख.°ष्यगे द्विजातीन्प्रति स्वस्ति वाच्य दक्षिणात् । २ क. ख. °र्णसमां° ।
    ३ क. प्रोक्तं । ४ क. तिखेषु । ५ क. °द्योनिश्श्रे° ।
    ३७

१९० पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
तदा न पच्यते भक्तमग्निसादाच्च जायते ।
अग्निसादादनुस्निग्धः कृष्णः शुक्लोऽरुणो भृशः ॥
रक्तः पीतोऽथ हरितः सर्ववर्णयुतस्तथा ।
चुरेकेणेति धातुः स आम इत्यभिसंज्ञितः ॥
उदकुम्भे यथापूर्वं पाचयित्वा च जायते ।
क्षीरं क्षीरस्य पात्रे वा एवमामाशयस्थिता ॥
आमो लक्षणसंयुक्तः स आम इति कीर्तितः ।
सुशीतं पिच्छिलं चैव दुर्गन्धं कृमिभिर्युतम् ॥
स योनिः सर्वरोगाणां प्रोच्यते नृपसत्तम ।
अपोक्षतो यदा वैद्यो रक्षणात्परिकर्मभिः ॥
कृच्छ्रसाध्यो भवत्येष विनाशयति वा गजम् ।
लक्षणं च चिकित्सां च तस्य वक्ष्याम्यहं शृणु ॥
यस्तु लालापरिस्रावी परितप्तमना भृशम् ।
शूनपर्यन्तनयनस्ततामुग्धानलोचनम् ॥
मन्दग्रासोऽल्पचेष्टश्च मन्दं च परिवीजति ।
पीताभासं सशूलं च मूत्रं प्रकुरुते मुहुः ॥
पुरीषं फेनिलं यस्य मदाध्मातः प्रमुञ्चति ।
रसस्थानगते चाऽऽमे लिङ्गान्येतानि निर्दिशेत् ॥
परिघर्षति योऽत्यर्थं तटे वृक्षे मतङ्गजः ।
देहे कण्डूयमानस्तु कोशमूलं सवेदनम् ॥
रक्तराजीवनेत्रस्तु शोणितश्चैत (?) संशयः ।
योऽतिसंकुचिताङ्गस्तु शूलार्तः संनिषीदति ॥
रूक्षः कृशो भिन्नवर्चा मांसस्थानगते भवेत् ।
हरितैः पिच्छिलैः स्निग्धैर्भक्तैः संवेष्टितं गजः ॥
लिण्डं प्रमुञ्चते यस्मान्मूत्रान्ते मेढ्रसंस्थिते ।
गुरुहस्तो निमील्यैकं चक्षुर्पो विधमत्यपि ॥
अतसीकुसुमाभं च मूत्रं यो बहु मुञ्चति ।
अस्थिधातुगते राजँल्लिङ्गान्येतानि निर्दिशेत् ॥


१ क. ॰ग्निमान्द्याद° । २ ख. ॰रकेणे धा°। ३ क. आपोक्षतो। ४ क. ख.
॰म् । स्तन° । ५ क. ख. ॰श्चेन सं° । ६ क. योऽत्ति सं° । ७ क. ॰ष्ठितो ग° ।
८. ख. ॰धसत्य° ।

५९ कृमिकोष्ठाध्यायः ] हस्त्यायुर्वेदः । २९१
रक्तं शकृच्छब्दवदल्पनित्यदुर्गन्धियुक्तं विसृजेच्च नागः ।
सर्वैश्च गात्रैर्गुरुभिर्युतश्चे(?)''''मपानस्य''''भेषजस्य ॥
मज्जागते जीवति वा यदि स्याच्छुक्रस्थिते१तः कथयामि चिह्नम् ।
पूर्वोदितैर्यो बहुभिस्तु चिह्नै रूपैरनिष्टैः सह *जाति जीवम् ॥
दोषाश्रितोऽयं प्रकरोति चेष्टां वाग्दारितः प्रागुदितो नरेन्द्रः(न्द्र) ।
प्रस्तम्भनं साकुलकं मनीत्वं(?) संमीलनं प्राक्पचनं नृयातः(?) ॥
कण्डूप्रदोऽयं हृदयप्रदाहशीताभिलाषं च स पित्तसंस्थः ।
स्तम्भं महच्छेषमतीवनिद्रां लालास्रुतिं वा कफदोषसंस्थः ॥
दोषाश्रितोऽयं खलु सिद्धिमिति धातुश्रितः पञ्च तु कृच्छ्रसाध्यः(ध्याः) ।
धातुद्वयेनैव नरेन्द्र साध्यं चिकित्सितं ते कथयामि राजन् ॥
निरूप्य सम्यक्खलु कालदेशौ व्याधीन्वयः सत्त्वशरीरसात्म्यम् ।
ततः प्रयुञ्जीत भिषग्गजे क्रियां यथा हि नागः स सुखी भवेच्च ।
स्वेदैर्यथोक्तैः खलु स्वेदयेत्तं प्रवेशयेद्वाऽपि निवातदेशे ॥
उष्णोदकं नागरदर्भमूलं प्रयोजयन्त्यामविशुद्धिहेतोः ।
सिद्धां गुडूचीं त्रिफलां सकृष्णां द्वे जीरके निम्बपटोलपत्रम् ॥
द्वौ वा करञ्जौ सह निम्बमूलं तेजोवती वा लवणैश्च युक्तम् ।
पिण्डं गजस्य संदद्यात्ततः संपद्यते सुखी ।
चूर्णारिष्टप्रयोगैश्च मृत्तिकागात्रभाषितैः ॥
साधयेत्तं यथायोगं सुसमीक्ष्य भिषग्वरः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थानेऽ-
ष्टपञ्चाशत्तम आमाध्यायः ॥ ५८ ॥
अथैकोनषष्टितमोऽध्यायः ।
श्रीमानङ्गाधिपो राजा रोमपादो महाद्युतिः ॥
अग्निकल्पमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥
कथं द्विपानां कृमयः कोष्ठे गच्छन्ति संचयम् ॥
निदानं च कथं तेषां किंच तेषां चिकित्सितम् ॥ २ ॥

  • 'याति' इति स्यात् ॥
    १ क. ॰तेऽन्तः क॰ ।

५९२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
स एवमुक्तो भगवान्प्रोवाच मुनिसत्तमः ॥
कृमिकोष्ठं यथान्यायं सनिदानं सभेषजम् ॥ ३ ॥
आनूपैर्यवसैर्नित्यमिक्षुभिः सेक्षुवालुकैः ॥
भक्ष्यैर्भोज्यैश्च मधुरैः पेशलैः श्लेष्मवर्धनैः ॥ ४ ॥
गोरसैश्च वसाभिश्च मत्स्यगुडघृतैस्तथा ॥
आमपक्वविपर्यासादजीर्णाच्चैव भोजनात् ॥ ५ ॥
अव्यायामाच्च सौख्याच्च कफं तस्य प्रवर्धते ॥
स प्रवृद्धः कफः कोष्ठे संचितः पिण्डितो घनः ॥ ६ ॥
कृमयस्तत्र जायन्ते विविधाः श्लेष्मसंभवाः ॥
ते तु खलु महाराज कृमयस्ताम्रपीतकाः कपिलारुणहरितनीलाः सितकुमुद-
पत्रनलिनदलसवर्णाभा नीलमुखाः संकुचितत्वचो विपुलमुखाः सूचीमुखा वोऽ-
रोमशा रोमशा वा स्निग्धा रूक्षाः स्थूलाः कृशा दीर्घा ह्रस्वा भवन्ति । वातरु-
धिरकफपित्तसंसृष्टा राजीव(म)न्तो भवन्ति । पाण्डुररुणाश्च कफवातसंसर्गात् ।
श्लेष्मणा शुद्धवर्णाः। ते तस्याऽऽमाशयात्पक्वाशयमनुप्रपन्ना हृदयप्लीहयकृद्वक्षः-
स्थलान्नाभिवङ्क्षणशकृत्स्थानमूत्रवस्त्यण्डकोशगुदप्रदेशान्मक्षयन्ति ॥
तस्य कृमिभिरुपसंसृष्टदेहस्य भोज्येष्वभ्यवहारेष्वश्रद्धाऽरोचकश्चास्य भवति ।
न चास्य श्रद्धापरिसरणविहरणलङ्घनप्रमाधपानान्मृतटवल्मीकवृक्षहरणावगाह-
सलिलक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्य भवति । स खल्वाध्मातो-
दरो विमना विकीर्णहस्तः परिहीयमानो(णो)त्साहशरीरबलः कृमिभिरुपसंसृष्टः
शकृद्भिन्नमपि शीर्यते । कृच्छ्रमूत्री च भवति । न चास्य मूत्रं प्रवर्तते ॥
तस्यैवं निदानं समीक्ष्य क्रमिभिरुपसंसृष्टकोष्ठत्वात्कृमिकोष्ठीति विज्ञाय तं
चिकित्सितुमुपक्रमेत—कुटजफलपत्रकभल्लातकं द्वे हरिद्रे करञ्जौ चेति ।
एतानि सर्वाणि समभागानि यथालाभं निष्क्वाथ्य तं क्षारेण सह योजयित्वा
पाययेत् । भल्लातककुटजकचोद्रं हरिद्रास्फूर्जकाश्रैति संक्षुद्य लवणसंयुक्ताभि-
स्ताभिः काले कवलं दद्यात् । काकादनाकाकजङ्घाकुटजाङ्कोलसुमनसं संक्षुद्य
सुवर्चिकालवणाकृतं हस्तिमूत्रे रात्रिं वासयित्वा कवलान्दद्यात् । मण्डूकपर्ण्यु-
न्दुरुकर्णीबृहतीकण्टकारिकायहधूम्रपिप्पलीबर्बराढक्यर्जकर्णञ्जकांश्च गोमूत्रे
साधयित्वा कवलान्दद्यात् । भयकालात् .... .... .... .... .... । अथवा सप्त-
१ क. ख. ०र्णाश्चैव । २ क. ०चितो पण्डितो । ख. संचितो पिण्डितो । ३ क.
वाऽरोमशो रोमशो वा । ४ क. ०स्य भक्ष्यमो०। ५ क. ०प्रसाद्ययाना०। ६ क. ख.
०कटुजकवाद्वं ।

६० ऽध्याध्यायः ] हस्त्यायुर्वेदः । २९३
र्णत्वकट्टुरोहिणीवचापिप्पलीकुटजहरेणुकालशूनानि द्वे हरिद्रे तेजोवतीं संक्षुद्य
यथालवणगोमूत्रसंयुक्तन्कवलान्दद्यात् । अथवाऽटरूषकपत्राणि श्यामातृवृत्पू-
तीकरञ्जामलकबिल्वमूलदन्तीं च गोमूत्रे विपाच्य तेन क्वाथेन तैलसंयुक्तेन निरूहं
दद्यात् । यथाबस्तिसिद्धिप्रोक्तेन विधिना । अथवा कटुकालाबुबीजानि त्रिक-
टुकरसानि विडङ्गचित्रकैः श्लक्ष्णपिष्टैस्तैलं विपाच्य विधिवदनुवासनं दद्यात् ।
भूयश्च त्रिकटुकपटोलपादलापिचुमन्दार्शघ्नकाङ्क्षिमुद्र .... .... ....साधयित्वा
लवणान्वितं सतैलमेवं पाययेत् । वचासनिम्बकाटरूषककपालस्यन्दनानां
त्वक्पत्रभङ्गनिर्यूहदधिमस्तुना च साधयित्वौदनं व्रीहीणां मधुना संयोज्य भोज-
येत् । माघस्विन्ना विधात्(?) । त्रिकटुकचूर्णयुक्तान्प्रभूततैलाभोजयेत् ।
यवसाध्यायविहितैर्मञ्जुभिर्यवसैरुपचरेदिति ॥
तत्र श्लोकाः—
कषायैः कवलैः पानैर्भोजनैर्बस्तिकर्मभिः ॥
कृमिघ्नैः कटुकैस्तीक्ष्णैश्चिकित्सेत्कृमिकोष्ठिनम् ॥ ७ ॥
उपेक्षिताः प्राणहरा गजानां भवन्ति कोष्ठे कृमयः प्रवृद्धाः ॥
तान्भेषजैः शास्त्रविधिप्रदिष्टैः प्रणाशयेद्गिरिवाग्निरेषाम् ॥ ८ ॥
(※एवंविधाः सेक्रमयस्तत)स्ते प्रोक्ता मया पार्थिवसिंह सम्यक् ॥
एवं तु यः साधयतीह सम्यक्पूज्यो यथाऽहं भवता तथा सः॥९॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
कृमिकोष्ठी नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
अथ षष्टितमोऽध्यायः ।
विद्याविनयसंपन्नं तपसा नष्टकल्मषम् ॥
पालकाप्यमृषिश्रेष्ठं रोमपादो नृपोत्तमः ॥ १ ॥
प्रब्रूयाद्विपदां श्रेष्ठः पुनः प्रश्नमनुत्तमम् ॥
भगवन्पोष्यमाणा हि केचित्कैश्चिन्मतङ्गजाः ॥ २ ॥
न पुष्टिमुपगच्छन्ति बलतो मांसतस्तथा ॥
कथं केन च क्षीयन्ते क्षयाः कतिविधाश्च ते ॥ ३ ॥
※ धनुराकारान्तर्गतपाठः खपुस्तके त्रुटितः ।
१ क. यवा ल० । २ ख. ०स्तैलं विधि० । ३ ख. ०काभि मु० । ४ क. ख.
०हिते मञ्जु० । ५ क. सत्क्रम० ।

२९४ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगस्थाने-
कथं तेषां प्रतीकारः कर्तव्यो भगवन्वदा ॥
ततः प्रोवाच भगवान्प्रश्रमाङ्गनिवेदितम् ॥ ४ ॥
पालकाप्यो महाबुद्धिः पृच्छन्तं च नृपोत्तमम् ॥
रसशोणितमांसानां मेदोमज्जास्थिरेतसाम् ॥ ५ ॥
गुणान्सम्यक्प्रवृत्तानां दोषाणां चैव पार्थिव ॥
पुष्टिः सम्यक्प्रवृत्तेषु बलतो मांसतोऽपि च ॥ ६ ॥
एतेषां च वि† .... .... .... .... .... .... .... ॥
तेषां शृणु पृथक्त्वेन लक्षणं ब्रुवतो मम ॥ ७ ॥
तत्र क्षीणश्च विज्ञेयो दुर्बलश्चापि वारणः ॥
चतुष्प्रकारं दौर्बल्यं क्षयश्च दशधा नृप ॥ ८ ॥
दुर्बलः (‡क्षीणधातुत्वा)द्दोषधातुक्षयात्क्षयी ॥
तत्र तावत्प्रवक्ष्यामि दौर्बल्यस्याऽऽगमं नृप ॥ ९ ॥
वयःक्षयाद्व्याधिना वा प्रकृत्या चौषधैस्तथा ॥
पृथक्त्वेनेव वक्ष्यामि एतेषां वाऽपि लक्षणम् ॥ १० ॥
वयसो विक्रमान्भागो धातुदोषगुणक्षयः ॥
वातश्लेष्मोपसर्गेण दुर्बलः संप्रकीर्तितः ॥ ११ ॥
( †व्याधिना वक्ष्यते त्वन्यद्दौर्बल्यं वारणे नृप ॥
दीर्घकालं भवेत्कष्टो व्याधिना यो मतङ्गजः ॥ १२ ॥
असम्यक्प्रधनाद्वाऽपि दुर्बलो वारणो नृप ॥
वक्ष्यते तूपधानेन दौर्बल्यं वारणो नृप) ॥ १३ ॥
उपधानेऽतिमात्रेण पिण्डेन कवलेन च ॥
व्यत्यासेनापि दत्तेन क्लिष्टो यदि मतङ्गजः ॥ १४ ॥
सोऽपि दौर्बल्यमाप्नोति वारणः पृथिवीपते ॥
यः प्रकृत्या भवेद्राजन्दुर्वलश्चापि वक्ष्यते ॥ १५ ॥
दुर्बलायास्तु संजातो दुर्बलादेव धारणात् ॥
स क्लिष्टो देवशयने भवेत्प्रकृतिदुर्बलः ॥ १६ ॥


† आदर्शद्वयेऽपीतः परं ‘षासान्समुपलाह्ये’ इत्येवोपलभ्यते । ‡धनु० खपुस्तके
त्रुटितः । † धनुराकारमध्यस्थपाठो नास्ति कपुस्तके ।
१ क. ०याश्च सं० ।

१०४थाध्यायः ] हस्त्यायुर्वेदः । २९५
इति (*प्रकृति)दौर्बल्यं हेतुभिः सह कीर्तितम् ॥
अतः परं प्रवक्ष्यामि धातूनां हेतु•••• •••• •••• ॥ १७ ॥
••••करेण्वनियोगाद्वा वधबन्धाच्च दारुणात् ॥
अध्वनोऽतिमयोगाद्वा गमनाच्छोणितस्य वा ॥ १८ ॥
रौक्ष्यादुष्णाभिघाताद्वा विरोधाद्भोजनस्य वा ॥
मनस्तापैस्तु विविधैरनेकैरपि वारणैः ॥ १९ ॥
कलुषोदकपानाद्वा अनिष्टेन तृणेन वा ॥
भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा ॥ २० ॥
इमानि चापि लिङ्गानि दृश्यन्ते क्षीणधातुषु ॥
तृष्णालुर्वरसास्यश्च से हि शून्यः सवेदनः ॥ २१ ॥
मन्दाग्निर्दुर्बलश्चैव वारणो रससंक्षयात् ॥
हृदयं यस्य••••सदोम्ल•••• •••••व यो भवेत् ॥ २२ ॥
शीताभिलाषी पुरुषस्तृष्णालुश्चैव यो भवेत् ॥
अत्यर्थं पीतवर्णश्च प्रस्तब्धः परुषच्छविः ॥ २३ ॥
रक्तक्षीणश्च विज्ञेयो लिङ्गैरेतैर्मतङ्गजः ॥
कम्पते च शरीरेण विवृतश्वासिसंधिषु ॥ २४ ॥
अपराभ्यां व्रजेच्चापि कर्षन्निव महीतलम् ॥
वं•••• ••••••••कासनाङ्गेषु च्छिद्रस्रस्ताङ्ग एव च ॥ २५ ॥
•••• •••• •••• •••• ••••शनैर्गच्छति धावति ॥
•••• •••• •••• •••• ••••प्रस्तब्धनयनो द्विपः ॥ २६ ॥
स क्षीणमांसो विज्ञेयः प्रव्यक्तकटपार्श्वकः ॥
जघनं म्लायते यस्य दुर्बलश्चैव यो भवेत् ॥ २७ ॥
न च वेदयते स्पर्शं स्रस्तगात्रस्तथैव च ॥
अनवस्थितचित्तैश्च तथा स्निग्धप्रियैस्तु यः ॥ २८ ॥
वितविल (?) भिन्नतनुर्निर्योणैर्विवृतोऽपि च ॥
स क्षीणमेदो विज्ञेयो गजशास्त्रविशारदैः ॥ २९ ॥
दन्तरोमनखास्थीनि वृद्धिर्देहे न जायते ॥
दन्ताश्च परिहार्यन्ते सगदा यस्य दन्तिनः ॥ ३० ॥


* धनुराकारमध्यस्थस्य खपुस्तकेऽभावः ॥


१ क. ॰धा••••भोजनात् ॥ म॰ । २ क. सदि स्तन्यः । ३ क. वर्णमुक्ताङ्ग
एवाङ्गे॰ । ४ क. ख. ॰त्तस्य त॰ । ५ क. ख. ॰यस्त्वयः ।