हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 296, कुल 742 में से
संदर्भ में पढ़ें५४ मधुमक्षिकादष्टोऽध्यायः ] [ हस्त्यायुर्वेदः । ] २७७
कटुकाम्ललवणभोजनाद्रक्तशारदः ।
मन्दग्रासोऽलसोत्स्रष्टभ्रमन्नासातुरो भवेत् ॥
शतधौतघृताभ्यक्ते पैत्तिकस्य विधिः स्मृतः ।
खर्जूरबदराद्राक्षाशर्करालाजसक्तुकैः ॥
स्वेञ्जावतोपे मथितैः तृष्णाघ्नं पानमुत्तमम् ।
( इति ) लोहितशारदः ॥
शारदान्तवयसे विशारदः कुञ्जरान(?)चतुरश्चतुरोऽपि ।
कर्मसु क्रमविवर्धितयोगात्स भिषग्वरे एव .... .... ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
शारदो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
अथ चतुष्पञ्चाशत्तमोऽध्यायः ।
*भगवांल्लोमपादेन राज्ञा संचोदितः पुनः ।
नागा नाश्नन्ति ग्रासि(?) ज्वरश्चास्योपजायते ॥
एवं दष्टस्य विज्ञानं चिकित्सितमतः परम् ।
ह्रदे निर्वाप्य मातङ्गं सर्पिषा परिषेचयेत् ॥
क्षीरवृक्षत्वचश्चैव पयसा सह पेषयेत् ।
† सशर्करां समृद्दीकां क्षीरपानं प्रशस्यते ॥
हरिद्रे वेणुपत्राणि कुष्ठं नलदसारिवे ।
कल्कपिष्टानि सर्वाणि सर्पिषा सह संसृजेत् ॥
ततः स्तम्भगतं नागं समन्तादनुलेपयेत् ।
तेन सौरूप्यमवाप्नोति वेदना चोपशाम्यति ॥
आहारं मधुरप्रायं सर्वमस्मै प्रदापयेत् ।
तेनासौ सुखमाप्नोति वेदना चोपशाम्यति ।
तथा मत्स्यण्डिकायुक्तं यवसं च प्रदीयते ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
मधुमक्षिकादष्टो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
- इतः प्राक्तनः प्रश्नग्रन्थो नोपलभ्यतेऽतस्त्रुटित इति प्रतिभाति । † 'सशर्करं
समृद्दीकम्' इति पाठे न दोषः ॥
१ ख. स्वज्जाव० । २ क. ०रपूज्यः । ३ क. भवांश्च रोम०। ४ क. प्रदापयेत् ।