हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 301, कुल 742 में से
संदर्भ में पढ़ेंक्षितिमाहारयन्तोऽपि ये भवन्ति निरामयाः ॥
ग्राम्याणामिह वक्ष्यामि हेतून्येस्तु महीपते ॥ ३४ ॥
लभते यान्गजो राजन्विकारान्मृत्तिकाशनात् ॥
दावाग्निदग्धां पृथिवीं वारणा जलदागमे ॥ ३५ ॥
अभिवृष्टां जलधरैः सुगन्धां भक्षयन्ति वै ॥
पथ्यापथ्यैश्च बहुभिराहारैः संचितैर्नृप ॥ ३६ ॥
मधुराभ्यवहारैश्च तथाऽन्यैरपि भोजनैः ॥
(†कृमयो जठरोत्थास्तु हृल्लासं जनयन्ति ते ॥ ३७ ॥
.... .... .... राजन्मुहु ह्यस्य बहुद्रुजाः (?) ॥)
ग्राम्याः स्नेहामयैर्धान्यैस्तथैव रसभोजनैः ॥ ३८ ॥
पुष्यन्ति लवणैस्त्वेव ततस्तेषां महीपते ॥
ग्रहणी मार्दवं याति मृदुभिः स्निग्धपेशलैः ॥ ३९ ॥
ततस्तेषां विकाराय कल्पते भक्षिता मही ॥
मधुरैश्च तथाऽऽहारैः स्नेहपानैश्च नित्यशः ॥ ४० ॥
स्निग्धास्तु हेतुना तेन कुर्वन्त्यवनिभक्षणम् ॥
बलं च वर्धयत्येवमुपयुक्ता वसुंधरा ॥ ४१ ॥
आमाशयगता राजन्मृत्तिका बाधते गजम् ॥
उन्मादयन्ति रामास्वविधातुः (?) प्राणनाशनात् ॥ ४२ ॥
एतस्मात्कारणाद्राजन्नरक्षितव्या मतङ्गजाः ॥
सततं मृत्तिकादानादारक्षैः पुरुषैर्नृप ॥ ४३ ॥
ग्राम्याणां मृदुकोष्ठानां दुर्जरा भवति क्षितिः ॥
आहारपरिणामे तौ (?) *नागं खादति मृत्तिकाम् ॥ ४४ ॥
मृत्तिकापरिणामे वा यदाऽऽहारं निषेवते ॥
दोषं न लभते तेन मृत्तिकाभक्षणेन वै ॥ ४५ ॥
इत्येतत्कारणं प्रोक्तं ग्राम्यारण्यनिवासिनाम् ॥
(†गजानां मृत्तिकादाने हेतुर्दृष्टः पृथग्विधः ॥ ४६ ॥
अथ च्छिद्रानि वक्ष्यन्ते) गजानां मनुजाधिप ॥
मृत्तिकाभक्षणोत्थानि विविधच्छास्त्रनिश्चयात् ॥ ४७ ॥
* 'नागः' इति स्यात् ॥
† धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥
१ क. ख. ०विविधा० ।