हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 305, कुल 742 में से
संदर्भ में पढ़ें५८६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
ग्रहणीदोषनामानि तत्समाचक्ष्व पृच्छतः ॥ १ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
व्यापत्सु प्रथमे स्थाने सूचिता ग्रहणीगदाः ॥ २ ॥
तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तरम् ॥
दोषैः पृथक्समस्तैर्वा ते भवन्त्यनिलादिभिः ॥ ३ ॥
अत्याहारादनाहारात्तथैव विषमाशनात् ॥
कुपिते मारुते कोष्ठे व्यापादयति पावकम् ॥ ४ ॥
तत्र भिन्नं पक्वं वाऽपि शकृदस्य प्रवर्तते ॥
सबिम्बं च सशूलं च साध्मानं फेनिलं बहु ॥ ५ ॥
इत्येतैर्लक्षणैर्विद्याद्वातजं ग्रहणीगदम् ॥
हस्तिनस्तु विशेषेणं करोति महतीं व्यथाम् ॥ ६ ॥
(*पञ्चमूलद्वयं क्वाथं बालबिल्वं वचा पुनः ॥
समुस्ताऽतिविषा हिङ्गु लवणं च प्रदापयेत् ॥ ७ ॥
† शकृदाद्यं सलवणं सांहेङ्गवतिविषा वचा ॥
तन्मूत्रेण युतं पिण्डं दद्यादस्मै यथाबलम् ॥ ८ ॥
क्वाथान्वा वातगुल्मोक्तान्दापयेदनुपूर्वशः ॥
निरामं च शकृज्ज्ञात्वा स्नेहयेद्वाऽपि युक्तितः ॥ ९ ॥
दीपनीयगुणक्वाथैस्तत्कल्कैश्च प्रसाधितैः ॥
स्नेहैरुपाचरेत्सम्यग्भोजनादिषु योजितैः ॥ १० ॥
पिबेदैरण्डतैलं वा दशमूलगणे सृ(शृ)तः ॥
विरिक्तगतविद्वा (?) च क्रमेणैवानुवासयेत् ॥ ११ ॥
सुस्निग्धं मनुजं घासेस्ततो नागं निरूहयेत् ॥
वातिकेन विधानेन स निरूह्यः क्रमात्ततः ॥ १२ ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । † 'शकृदाज्यं, शकृदाढ्यं' वा स्यात् ।
१ ख. ॰ण मभिन्नं करोति महपीडा उद्गदेतरावपि ॥ ६ ॥ प० । २ ख. ॰र्ध्वं
च वा पु० । ३ क. ख. ॰ज्ञा घासैस्त० ।