हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 300, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 300५१ मृत्तिकाध्यायः ] हस्त्यायुर्वेदः । २८१
५१ मृत्तिकाध्यायः ] हस्त्यायुर्वेदः । २८१
रूक्षैः कषायैः कटुकैस्तृणद्रुमसमुद्भवैः ॥
रसैर्नानाविधैर्नागाः पुष्यन्ति सततं वने ॥ २० ॥
तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत् ॥
जेरयन्ति महीं भुक्त्वा वारणा भृशदारुणम् ॥ २१ ॥
इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः ॥
इत्यन्येऽपि तु दृश्यन्ते हेतवो मनुजाधिप ॥ २२ ॥
वन्या येन क्षितिं भुक्त्वा न भवन्ति विकारिणः ॥
बलं नास्ति* सर्वगात्रः प्रहृष्टेन्द्रियमानसः ॥ २३ ॥
यदा संयुज्यते नागो मुदितो जातकामया ॥
संप्रयोगगतं तत्र गर्भं गृह्णाति धेनुका ॥ २४ ॥
तस्यां संजातगर्भायां दौर्हृदं नाम जायते ॥
स द्वितीये तृतीये वा मासे संजायते भृशम् ॥ २५ ॥
तेन चाऽऽर्ता गजवशा मृत्तिकामुपसेवते ॥
तस्या हृदयसंबद्धा नाभ्यां नाडी प्रतिष्ठिता ॥ २६ ॥
सिरा रसवहा राजन्स गर्भः पुष्यते यया ॥
प्रसूते धेनुका काले हस्तिनी यदि वा गजम् ॥ २७ ॥
मातुर्दौर्हृदजातं तु मृदंशमनुवर्तते ॥
स पयोमृत्तिकाहारो मृदुपल्लवभोजनम् ॥ २८ ॥
वने चरति संहृष्टः समाः पञ्च मतङ्गजः ॥
स गजः पञ्चमे वर्षे क्षीरादेव निवर्तते ॥ २९ ॥
सुव्यक्तदन्तः स भवे (?) भवत्यतिविचेष्टितः ॥
ततः क्षीरादपवृत्तो वृक्षभङ्गं निषेवते ॥ ३० ॥
विविधं पल्लवं चैव चित्राणि यवसानि च ॥
ते पुनः पांशुवातेन तथा वप्रादिमर्दनैः ॥ ३१ ॥
क्षुधिता वारणा राजन्भक्षयन्ति मृदं सदा ॥
पक्वसस्ये तथा काले गर्भात्प्रभृति मृत्तिका ॥ ३२ ॥
वियोगाच्चान्नपानस्य विकाराय प्रकल्पते ॥
इत्येते हेतवः प्रोक्ता बहवो वनचारिणाम् ॥ ३३ ॥
- अत्र कदाचित्किंचित्रुटितमिव प्रतिभाति ।
१ ख. जरजन्ती ।
३६