हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 297, कुल 742 में से
संदर्भ में पढ़ेंAn exact line-by-line transcription of the Sanskrit text provided in the image:
२७४. पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने]
अथ पञ्चपञ्चाशत्तमोऽध्यायः ।
अथ खलु रोमपादोऽङ्गाधिपतिरपृच्छत्—'भगवन्पालकाप्य, कथमिदानी-
मपि नागानां छविदोषा नानाविधसंस्थाना भवन्ति । तत्र साध्याः के, किं च
तेषां चिकित्सितं निदानं वा भवति, एतत्सर्वं विस्तरेण ममाऽऽख्यातुमर्हसि' इति॥
एवं पृष्टः पालकाप्य उवाच—इह खलु भो हस्तिनामेकादश च्छवीदोषा
भवन्ति । तद्यथा—विसर्पिकी, मण्डली, दद्रुकी, महादद्रुकी, जातसूका, पिटका,
फुल्लिका, उद्रण्डिका, विचर्चिका, तृणपुष्पी, किलासी च; इत्येवमेकादश च्छवी-
दोषा एकादशनामानो नानाविधलिङ्गसंस्थाना भवन्ति । अतः परमुत्पत्तिमनु-
व्याख्यास्यामः । तद्यथा—अनिलपित्तकफशोणितान्येकैकशो युगपद्वा कोपा-
दुदीर्णानि च्छवीमनुसृत्य रोगाननेकलिङ्गानूत्पादयन्ति ॥
तत्राऽऽदौ विसर्पिकी नाम वातशोणितात्मको व्याधिर्यस्माद्विसर्पति तस्मा-
द्विसर्पिकी । अस्योपक्रमः पुण्डरीकपाकले व्याख्यातोऽस्माभिः ॥
अथ द्वितीयश्छवीदोषा(षो) मण्डली पृथक्पृथङ्मण्डलानि श्वेतानि रक्ता-
भासानि कपिलानि भस्माभासानि लक्ष्यन्ते । एतानि कफशोणितसंसर्गतश्छ-
विमाश्रित्य जातानि साध्यानि भवन्ति । तस्योपक्रमः--क्षारलेपनाभ्यञ्जने-
द्विव्रणीयोपचारश्चेति ॥
*पिटकाभिर्वृतायां छवौ प्रस्तब्धाः (†सर्वतः पिटिकाश्छवीमाश्रित्य भवन्ति ।)
एष श्लेष्मपित्तसंसर्गाद्विकारः । तस्योपक्रमः—द्विव्रणीयोक्त एवानुष्ठेयो
भवति ॥
अतः परं फुल्लिका नाम । तेन सर्वतश्छविः पुष्पिता ....पाण्डुरा पु(प)रुषा
भवन्ति । स वातपैत्तिकश्छवीदोषः श्लेष्मशोणितक्षपादद्वति । तस्योपक्रमः—
स्निग्धैर्बृंहणीयैर्भक्ष्यभोज्यस्नेहपानादिभिरनुष्ठेय इति ॥
अथोद्रण्डिकाख्यः स्याच्छवीदोषो यत्र सर्वतश्छवी दद्रुभिव्र्व्याप्ता भवति ।
स कफकोपाद्विकारः संभवति । तस्योपक्रमः—तैलेनेवाभ्यङ्गस्वेदसूक्ष्मद्रव्यका-
येस्तूत्कर्द्द्यते, इति ॥
विचर्चिकाछवीदोषेऽप्यथ शूनाल्पवेदना विवर्णा प्रस्तब्धा च च्छविर्भवति ।
कफपित्तरुधिराद्विकारोऽयं भवति । तस्योपक्रमः—यथाव्याधि समानेरम्भङ्गेरो-
- इतः प्राक्तनाः 'दद्रुकी, महादद्रुकी, जातसूका' इत्येते त्रयश्छवीदोषास्तु-
टिताः पुस्तकद्वयेऽपि नोपलभ्यन्ते । + धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ॥
१ क. ०ण समा०। २ क. जातस्तकी । ३ क. ०मासृज्य जा०। ख. ०मासृत्य ।