हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 307, कुल 742 में से
संदर्भ में पढ़ेंप्रवाहमाननिसिद्धैः*•••• •••• •••• •••• •••• •••• •••• ॥
•••• •••• •••• •••• •••• •••• •••• •••• ॰मालेपयेद्बहिः ॥ २५ ॥
जम्बूदुम्बरवेत्राणां कुष्ठस्य च धवस्य च ॥
कषायैः क्षालयेद्भाण्डं लेपयेन्मेधुना सह ॥ २६ ॥
एलालवङ्गकर्पूरपद्मकागुरुचन्दनैः ॥
सूक्ष्मचूर्णीकृतैरेव पिप्पलीमरिचानि च ॥ २७ ॥
मासादूर्ध्वं ततः पानं पाययेदुत्तमासवम् ॥
सर्ववातविकारेषु ग्रहणीं दा(दी)पयेद्भिषक् ॥ २८ ॥
तद्दोषहरणैश्चान्यैरेवमेव•••• •••• •••• भिषक् ॥
•••• •••• •••• •••• ज्ञेयो विस्तारिको विधिः ॥ २९ ॥
लवणं स्यादर्धनेतं(?)•••• •••• •••• क्षमते विधिः ॥
आरोग्यं कामयेद्यस्तु गजानां रोगसिद्धये ॥ ३० ॥
पञ्चमूलद्वयं पाठामपामार्गं सगोक्षुरम् ॥
पाषाणभेदकं लोध्रं द्वे हरिद्रे विभीतकम् ॥ ३१ ॥
अभया सल्लकी मुस्ता स्नुही चातिविषा चवी ॥
एलां तेजोवतीं व्योषं तथा कटुकरोहिणीम् ॥ ३२ ॥
वचां कुष्ठं वरीं श्वेतां विडङ्गं मूर्वया सह ॥
तथा कटुकतुम्बी च तथा निम्बकरञ्जकौ ॥ ३३ ॥
अहिंसां काकमाचीं च चित्रकं जीरकद्वयम् ॥
अजमोदां च कालां च पिप्पलीमूलमेव च ॥ ३४ ॥
द्वौ करञ्जौ तथाऽर्कं च शिग्रुकं सारिवामपि ॥
दाडिमं तिन्तिडीकं च मातुलिङ्गाम्लवेतसम् ॥ ३५ ॥
लवणानि च सर्वाणि श्लक्ष्णचूर्णानि कारयेत् ॥
श्लक्ष्णचूर्णीकृतैरेतैः समं तत्र प्रसाध्यते ॥ ३६ ॥
सैन्धवं च समायुक्तं रोमकौ वा चिकित्सितम् ॥
अतोऽर्धस्वापमानीय वीक्ष्य दोषबलाबलम् ॥ ३७ ॥
चतुःषष्टिः पञ्च चैशां हिङ्गुभागं समावपेत् ॥
सीधुं काञ्जिकयुक्तेन गोमूत्रेण द्रवीकृतम् ॥ ३८ ॥
- एतदग्रे पुस्तकद्वयेऽपि ‘च तेष्वदग्निसमापेतु’ इत्येवोपलभ्यते ॥
१ क. ॰न्मधुना । २ क. दूर्वया ।