सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 298, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 298

५६ मृत्तिकाऽध्यायः ] हस्त्यायुर्वेदः । २७९
षधैः शीतैः सौम्यैश्च लेपनैरनुष्ठेयो भवति । तथाविधं च पानं भोजनं परिक-
ल्पयेत् ॥
तृणपुष्पी नाम यथा—तृणमस्ति श्वेतशिरा नाम । तस्याग्रे श्वेतमुपलभ्यते
पुष्पम् । तत्पुष्पाकृतिसमस्थानैर्मण्डलैः सर्वतश्छविः पुष्पिता भवति । स 'तृण-
पुष्पी' इत्यभिधीयते । स वातकफरुधिर .... .... .... .... .... .... .... । तस्यो-
पक्रमः—तिक्तोषधैस्तैलमनुपंकमभ्यङ्गपानान्यप्र(न्युप)हरेत् ॥
किलासी नाम पित्तकफसमानि कैलासानि श्वेतानि कपिलानि कृष्णावभा-
सानि वा लक्ष्यन्ते । तानि संनिपातेन पृथक्पृथङ्मण्डलानि संभवन्त्यसा-
ध्यानि । पुनः कस्यचिद्गर्भदोषैर्गर्भस्थस्यैवोपजायन्ते । एष च विवर्जनीयः ।
तत्र श्लोकौ—
कुशलो मतिमान्वैद्यो दृष्टकर्मा विशारदः ॥
ऊहापोहविधिज्ञस्तु शस्त्रकर्मविचक्षणः ॥
यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि ॥
यः साधयति पूजां स पार्थिवात्प्राप्तुमर्हति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
छविदोषो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
अथ षट्पञ्चाशत्तमोऽध्यायः ।
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् ।
पालकाप्यं तु नृपतिः पप्रच्छासौ महायशाः ॥ १ ॥
मृत्यवः पञ्चदश च गजानां चरतां वने ॥
न ते भगवता प्रोक्ता ग्राम्याणां बहुरोगता ॥ २ ॥
अत्र मे संशयस्तीव्रो भगवन्समुपस्थितः ॥
तदशेषेण भगवन्व्याख्यातुं मे त्वमर्हसि ॥ ३ ॥
किमर्थं भक्षयित्वा तु मृत्तिकास्तु बहूरपि ॥
वारणा वह्निसंपन्ना राजन्वनविचारिणः ॥ ४ ॥
भवन्ति बलसंपन्नास्तेजोबलसमन्विताः ॥
दृढसर्वेन्द्रिया हृष्टाः कामवन्तो मनस्विनः ॥ ५ ॥
१ ख. °पक्रम° ।