हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 311, कुल 742 में से
संदर्भ में पढ़ें५९२ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
स एवमुक्तो भगवान्प्रोवाच मुनिसत्तमः ॥
कृमिकोष्ठं यथान्यायं सनिदानं सभेषजम् ॥ ३ ॥
आनूपैर्यवसैर्नित्यमिक्षुभिः सेक्षुवालुकैः ॥
भक्ष्यैर्भोज्यैश्च मधुरैः पेशलैः श्लेष्मवर्धनैः ॥ ४ ॥
गोरसैश्च वसाभिश्च मत्स्यगुडघृतैस्तथा ॥
आमपक्वविपर्यासादजीर्णाच्चैव भोजनात् ॥ ५ ॥
अव्यायामाच्च सौख्याच्च कफं तस्य प्रवर्धते ॥
स प्रवृद्धः कफः कोष्ठे संचितः पिण्डितो घनः ॥ ६ ॥
कृमयस्तत्र जायन्ते विविधाः श्लेष्मसंभवाः ॥
ते तु खलु महाराज कृमयस्ताम्रपीतकाः कपिलारुणहरितनीलाः सितकुमुद-
पत्रनलिनदलसवर्णाभा नीलमुखाः संकुचितत्वचो विपुलमुखाः सूचीमुखा वोऽ-
रोमशा रोमशा वा स्निग्धा रूक्षाः स्थूलाः कृशा दीर्घा ह्रस्वा भवन्ति । वातरु-
धिरकफपित्तसंसृष्टा राजीव(म)न्तो भवन्ति । पाण्डुररुणाश्च कफवातसंसर्गात् ।
श्लेष्मणा शुद्धवर्णाः। ते तस्याऽऽमाशयात्पक्वाशयमनुप्रपन्ना हृदयप्लीहयकृद्वक्षः-
स्थलान्नाभिवङ्क्षणशकृत्स्थानमूत्रवस्त्यण्डकोशगुदप्रदेशान्मक्षयन्ति ॥
तस्य कृमिभिरुपसंसृष्टदेहस्य भोज्येष्वभ्यवहारेष्वश्रद्धाऽरोचकश्चास्य भवति ।
न चास्य श्रद्धापरिसरणविहरणलङ्घनप्रमाधपानान्मृतटवल्मीकवृक्षहरणावगाह-
सलिलक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्य भवति । स खल्वाध्मातो-
दरो विमना विकीर्णहस्तः परिहीयमानो(णो)त्साहशरीरबलः कृमिभिरुपसंसृष्टः
शकृद्भिन्नमपि शीर्यते । कृच्छ्रमूत्री च भवति । न चास्य मूत्रं प्रवर्तते ॥
तस्यैवं निदानं समीक्ष्य क्रमिभिरुपसंसृष्टकोष्ठत्वात्कृमिकोष्ठीति विज्ञाय तं
चिकित्सितुमुपक्रमेत—कुटजफलपत्रकभल्लातकं द्वे हरिद्रे करञ्जौ चेति ।
एतानि सर्वाणि समभागानि यथालाभं निष्क्वाथ्य तं क्षारेण सह योजयित्वा
पाययेत् । भल्लातककुटजकचोद्रं हरिद्रास्फूर्जकाश्रैति संक्षुद्य लवणसंयुक्ताभि-
स्ताभिः काले कवलं दद्यात् । काकादनाकाकजङ्घाकुटजाङ्कोलसुमनसं संक्षुद्य
सुवर्चिकालवणाकृतं हस्तिमूत्रे रात्रिं वासयित्वा कवलान्दद्यात् । मण्डूकपर्ण्यु-
न्दुरुकर्णीबृहतीकण्टकारिकायहधूम्रपिप्पलीबर्बराढक्यर्जकर्णञ्जकांश्च गोमूत्रे
साधयित्वा कवलान्दद्यात् । भयकालात् .... .... .... .... .... । अथवा सप्त-
१ क. ख. ०र्णाश्चैव । २ क. ०चितो पण्डितो । ख. संचितो पिण्डितो । ३ क.
वाऽरोमशो रोमशो वा । ४ क. ०स्य भक्ष्यमो०। ५ क. ०प्रसाद्ययाना०। ६ क. ख.
०कटुजकवाद्वं ।