हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
चतुर्थमुत्तरस्थानम् ।
विषयाः अ० विषयाः
दन्तनाडीनिदानचिकित्साकथनम् ... १७ थनम् ... ... ...
दन्तचिकित्साकथनम् ... ... १८ एकविंशतिलूतानां नामसंख्याकथ-
शिराच्छेदप्रकारकथनं छेद्ययोग्यायोग्य- नकप्रका- [न्प्रका-] पठनादिपरिहारप्रकारकथनं च ...
शिराकथनं च ... ... १९ विषकीटोत्पत्तिनिदानचिकित्साकथनम् ,
ससोत्तरशतमर्मकथनं तेषां स्थानप्रमाण- व्यालदष्टनिदानचिकित्सासाध्यासाध्यलक्ष-
कथनं छविषट्ककथनं च । सद्यःप्राणहरम- णकथनं च ... ...
र्मकथनं विलम्बप्राणहरमर्मकथनं तत्संख्या- शरीरस्य हस्तमुखादिपञ्चदशभागकथनम्
कालावधिकथनं च । वैगुण्यकरमर्मकथनं प्रतिभागगतप्रदेशानां नामसंख्याकथनं शरी-
तेषां लक्षणादिकथनं च ... ... २० रगतसर्वप्रदेशानां समष्ट्यङ्ककथनं च ...
शुनः सविषत्वे कारणकथनं
हस्त्यायुर्वेदाध्यायविषयानुक्रमः—
[स्तम्भः १]
विषयाः ... अ०
...निर्माणकथनं च ... ... ... ६
...धिकथनं दुर्विरेफिकातिविरे-
चितलक्षणकथनं च ... ... ... ७
भेदेन भक्षणयोग्यशुष्काईयवस-
कथनम् ... ... ... ... ८
सूचक लक्षणकथनं तद्भेदेन मरणाव-
च... ... ... ... ९
कल्पनाप्रकारकथनं तयोयोग्यायोज्य-
आदिकथन मयोग्य कालावस्थयोर्दन्त-
करणेऽमात्यव्यसनादिकथनं च । दन्त-
थनं कल्पनाकरणयोग्यदन्तकथनं
ठकरणकथनमुत्तमादिभेदेन तत्परिमा-
थनं च ... ... ... ... १०
वीर्यविपाककथनं वातपित्तकफादीनां
दीपक रसकथनं च ... ... ... ११
मादिभेदेनेक्षुदानपरिमाणकथनं तद्गु-
धनं च ... ... ... ... १२
तश्च विस्तरेण नस्यदानविधिकथनम् १३
क्षिरोगघ्नश्रीविजयाभिधगुटिकानिर्माणप्र-
यनं रक्तपित्तदाहशामकवर्तिकरणप्र-
थनं प्रपौण्डरीकादिरसक्रियाकथनं नी-
भिधगुटिकाकरणप्रकारकथनं कल्का-
गंञ्जनयोर्विधिकथन मनेकविधेनेत्ररोग-
चिकित्साकथनं च ... ... ... १४
लस्य संवत्सरायनादिवित्रिक्षाभेदेनाने-
तकथनमृतुषट्कभेदेन पिण्डदानकथन-
नादिदानस्नानसेकादिप्रकारकथनं च... १५
ान्नाय जलदाननिषेधानेकेषुविधिहेतु-
सहैतुकमुत्तरंकथनम् ... ... १६
मादकक्षीरसर्पिरादीनामभ्रपाचनमांस-
प्रक्रियाकथनम् ... ... ... १७
क्षीरपानविधिकथनम् ... ... १८
उत्तममध्यमाधमभेदेन सुराया गुणदोष-
सुरापानानन्तरकरणीयं प्रतिपानविधि-
षिद्धकभेदेन गुड़लवणादिमिश्रणकथनं
श्चांक्षादिमिश्रितसुराया विशेषगुणाव-
...च ... ... ... ... १९
नविधानकथनम् षट्कभेदेन तैल्य-
मगलदानकथनं च ... ... २०
[स्तम्भः २]
विषयाः ... अं०
क्षीरस्य सामान्यगुणकथनं गव्यमाहिषा-
यष्टभेदकथनं प्रत्येकं तद्गुणकथनं च ... २१
श्रीगजोत्पत्तिकथनं प्रसङ्गाद्देवदानवयोरु-
द्वुकंथनं मेघांन्भिधैरावणसुतं प्रति शिवदत्त-
वरकथन मषाढ्यां वैद्यकर्तव्यपूजाप्रकारक-
थनं गजारोहणादिकथनं च ... ... २२
विस्तरेण सर्पिस्तैलाद्यनेकद्रव्यदानस्य
प्रत्येकं हेतुगुणकथनम् ... ... २३
स्निग्धास्निग्धातिस्निग्धादीनां प्रत्येकं
लक्षणकथनं विरिक्तदुर्वरिक्तादीनां प्रत्येकं
लक्षणकथनं च ... ... ... २४
यवसस्य भेदद्वयकथनमाहारस्य भेदत्र-
यकथनं देशस्य भेदत्रयकथनं प्रत्येकं तल्लक्ष-
णादिकथनं च ... ... ... २५
वातप्रकृतिकस्य सत्त्वशरीरायुरादिलक्ष-
णकथनं पित्तप्रकृतिकस्य सत्त्वशरीरायुरादि-
लक्षणकथनं कफप्रकृतिकस्य सत्त्वशरीरायुरा-
दिलक्षणकथनं च... ... ... २६
गव्यमाहिषाद्यष्टविधमूत्रकरीषयोः प्रत्येकं
गुणदोषकथनम् ... ... ... २७
लशुनस्योत्पत्तिकथनं मूलबीजादिभेदेन
मधुरतिक्तादितद्रसभेदकथनमनुपानभेदेन त-
द्गुणदोषादिकथनं च ... ... ... २८
पिप्पलीशृङ्गवेरादिमिश्रितलवणदानप्रका-
रकथनं तद्गुणादिकथनं च... ... ... २९
गजानामारण्यकादिभेदचतुष्टयकथनं प्र-
त्येकं तल्लक्षणकथनं च पांशुदानप्रकारकथनं
तद्गुणकथनं च ... ... ... ३०
रसरक्तमांसादिसप्तधातुसमुत्थसप्तमदाव-
स्थाकथनं प्रत्येकं लक्षणकथनं सप्तमावस्थो
प्राप्तस्य मरणागमनकथनं तत्कारणादिक-
थनं च ... ... ... ... ३१
ग्राहस्य नागत्तन्दुकभेदद्वयकथनं नागप्रा-
हस्योत्पत्तिनिदानासाध्यत्वकथनं तन्तुकग्राह-
स्योत्पत्तिनिदानचिकित्सादिकथनम् ... ३२
जलजहस्तिस्वरूपकथनं तत्स्थानस्थलजल-
पानादिना गजानां मरणागमनकथन मष्टमीच-
तुर्दश्यमावास्यासु नदीयज्ञविधानेन तदुद्देश्य-
कवर्लिदानादिकथनं च ... ...
चतुर्थमुत्तरस्थानम् ।
विषयाः | अ० | विषयाः
जलौकानां द्वादशजातिकथनं सविषानि- | | गजनीराजनाविधिकथनं तत्कालकारणा-
र्विषभेदद्वयकथनं प्रत्येकमुत्पत्तिस्थानलक्षणा- | | दिकथनं गजशान्तियोग्यशुभतिथिनक्षत्र-
दिकथनं च ... ... ... ... | ३४ | सावित्रादिमुहूर्तकथनं गजशान्तिविधिकथनं
गजशालायां भूतानां व्याधिरूपेण संचा- | | विष्णुप्रजापत्यादिदेवतानां पूजाप्रार्थनाप्रका-
रंकथनं तद्धेतुकथनं रौद्रवैष्णवपाकयोः स्व- | | रकथनं हवनकालिकमन्त्रपठनप्रकारकथनं
रूपकथनं तद्दर्शने गजानां भीत्युत्पत्तिकथनं | | गजरक्षणे विष्णुप्रजापत्यादीनां प्रार्थनाप्रका-
तत्कारणीभूतार्भिशापकथनं ज्वरसंचारलक्षण- | | रकथनं हवनकालिकवह्निधूमस्वरूपभेदेन गज-
कथनं ज्वरपरिहारार्थं शिवविष्णुपूजाभूतब- | | शब्दभेदेन च शुभाशुभसूचकत्वादिकथनं च
लिदानादिकथनं च ... ... ... | ३५ |
समाप्तमिदमुत्तरस्थानं तुरीयम् ।
इति हस्त्यायुर्वेदाध्यायविषयानुक्रमः समाप्तः ।
The provided image is completely blank and contains no visible text, Sanskrit verses, or diagrams to transcribe. Please upload an image with visible content.
पालकाप्यमुनिविरचितो
पालकाप्यापरनामधेयो गजायुर्वेदः ।
The provided image is completely blank (white) and contains no visible text, diagrams, or content to transcribe.
Please re-upload or provide a clear image of the page you would like transcribed.
ॐ तत्सद्ब्रह्मणे नमः ।
पालकाप्यमुनिविरचितो
हस्त्यायुर्वेदः ।
तत्र प्रथमं महारोगस्थानम् ।
तत्र प्रथमो वनानुचरिताध्यायः ।
श्रीगणेशाय नमः ॥
प्रत्यूहव्यूहविच्छेदकारणं गणनायकः ॥
जयति स्थिरसंपत्तिर्गजभक्तनिदर्शनः ॥ १ ॥
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥
अविघ्नो विघ्नहर्ता च हेरम्बो गणनायकः ॥ २ ॥
लम्बोदरो गजमुखो धूम्रकेतुर्गजाननः ॥
सर्वकार्येषु हेरम्बनामान्येतानि संस्मरेत् ॥ ३ ॥
वनानुचरितमध्यायं व्याख्यास्यामः—
अङ्गानामधिपः श्रेष्ठः श्रीमानिन्दुसमद्युतिः ॥
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ४ ॥
येनेयं पृथिवी सर्वा सशैलवनकानना ॥
चतुःसागरपर्यन्ता भुक्ता ह्यमिततेजसा ॥ ५ ॥
स रोमपादो नृपतिश्चक्रवर्ती महायशाः ॥
मेधावी धर्मवान्धीरो निर्जितारिः प्रतापवान् ॥ ६ ॥
*अङ्गदेशेष्वभूच्छ्रीमान्रोमपादो महीपतिः ॥
गजारोहणशक्केव(?) धृतबुद्धिर्जितश्रमः ॥ ७ ॥
- अयमर्धश्लोकः कपुस्तके नास्ति । उत्तरार्धमात्रं लिखित्वा श्लो.
( ७ )स्तु लिखितः ।
१ क. ॰भक्तिनि॰ । २ क. ॰त्वज्ञो वदान्यः सर्वशास्त्रवित् ॥
ग. ॰क्के च धृ॰ ।
पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
आसने काञ्चने दिव्ये नानारत्नविभूषिते ॥
उपविष्टो महीपालः प्रजासुखहिते रतः ॥ ८ ॥
तपसा भावितात्मा वै राजा राजीवलोचनः ॥
( 'अङ्गानाम्' इत्याद्येकान्वयम् )
गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते ॥ ९ ॥
स्वर्गारोहणसोपानकृततीर्थकृतापहे (?) ॥
मातेव मुक्तिजनने पदन्यासकृताश्रमे ॥ १० ॥
शालतालतमालैश्च प्रियालैवञ्जुलैः श्रिते ॥
पुंनागाशोकवकुलैर्भूषिते चारुचम्पकैः ॥ ११ ॥
सहकारार्जुनाश्वत्थवरामलकजम्बुभिः ॥
कदम्बोदुम्बरप्लक्षैर्नानावृक्षैश्च शोभिते ॥ १२ ॥
कमलोत्पलकह्लारपुष्पगन्धाधिवासिते ॥
शुककोकिलसारीभिः कोककेकारवै रुते ॥ १३ ॥
शीतमन्दसुगन्धेन मारुतेनोपसंस्कृते ॥ '
यक्षगन्धर्वनिलये सिद्धचारणसेविते ॥ १४ ॥
सर्वलक्षणसंपन्नं सर्वविद्यासुशोभितम् ॥
धर्मार्थज्ञानतत्त्वज्ञं तथा शक्रोपमं नृपम् ॥ १५ ॥
चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः ॥
दिव्याभरणभूषाभिर्मानिनीभिश्च मोदितम् ॥ १६ ॥
पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः (?) ॥
सुकङ्कणरवोपे तैर्वीज्यमानं तु चामरैः ॥ १७ ॥
महाबला महाकाया कुञ्जरा वनचारिणः ॥
कथं वश्या भवन्त्येते चिन्तयन्तं मुहुर्मुहुः ॥ १८ ॥
इतिहासकथाः काव्यं श्रोष्यमाणं मनोरमम् ॥
श्रितं सुरगुरुप्रख्यैः पुरोधोभिश्च मन्त्रिभिः ॥ १९ ॥
सुखासीनं तु तत्रस्थं पौरजानपदैः सह ॥
प्रेरिता भाविविधिना दयाभरणभूषिताः ॥ २० ॥
जटामुकुटधर्तारो मोक्षद्वारपथानुगाः ॥
कन्दमूलफलाहाराः कौपीनवसनावृताः ॥ २१ ॥
१ ग. ०तीर्थे कृ० । २ ग. ०श्रमः ॥ १० ॥ ३ ख. ग. ०लैर्युते । ४ ख.
०च्चैः । ५ ग. ग. । ५ ० । ७ क. ०ना दिव्याभ० ।
१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ५
दण्डकमण्डलूपेता दीप्यमानाः स्वतेजसा ॥
यज्ञोपवीतसहिता अक्षमालाविभूषिताः ॥ २२ ॥
नाकवत्सुवर्णधारा महीवच्च सुमेखलाः ॥
पातालवत्तपोनन्तास्त्रिषु लोकेषु मध्यगाः ॥ २३ ॥
रविबिम्बसमाकाराः षट्त्रिंशज्जपकोविदाः ॥
*अपश्यन्नागतान्श्चम्पां मुनयः संशितव्रताः ॥ २४ ॥
('गङ्गायांः' इत्यादि कुलकम् )
† .... .... .... .... .... .... .... .... .... .... .... .... .... ॥
गौतमं चाग्निवेश्यं च राजपुत्रं च बाष्कलम् ॥ २५ ॥
काश्यपं मृगशर्माणं भारद्वाजं च सौबलम् ॥
काङ्कायनं च गार्ग्यं च रैभ्यं चैव बृहस्पतिम् ॥ २६ ॥
अरिमेदं च माण्डव्यं कुमुदं तं तथैव च ॥
याज्ञवल्क्यं हिरण्यं च भृगुं चाङ्गिरसं तथा ॥ २७ ॥
पॅराशरमचूडं च मतङ्गं चोर्ध्वमालिनम् ॥
सारस्वतं सच्यवनं पुलस्त्यं पुलहं क्रतुम् ॥ २८ ॥
विश्वामित्रं वशिष्ठं च जमदग्निं च भार्गवम् ॥
अगस्त्यं च त्रिशङ्कुं च मरीचयन्त्रिसुपर्वणम् ॥ २९ ॥
दीर्घं परिकरं काप्यं नारदं सुरवन्दितम् ॥
एतानन्यान्महाभागानगतान्सुरशासनात् ॥ ३० ॥
दृष्ट्वैव परमप्रीतो राजा विस्मयमागतः ॥
+प्रत्युत्थायाऽऽसनात्तूर्णं स्थित्वा चाभ्यर्च्य तान्नृपः ॥ ३१
†अर्धेणाऽऽसनदानेन पाद्येन च परंतपः ॥
स्तूयमानस्तु राजा तैः कुशलं धर्मसंमतम् ॥ ३२ ॥
- इतः पूर्वं 'धनकार्याणि लोकानां राजा सन्मन्त्रिभिः सह' इति ग. पुस्तके-
धिकः पाठः ।
† पुस्तकद्वये श्लोकार्धोत्तरमेव श्लोकाङ्क( २९ )दानं कृतमतो ज्ञायते—'पूर्वा-
र्द्धादितः' इति ।
- अयमर्धश्लोकः 'क' पुस्तके नास्ति ।
† अयमर्धश्लोकः 'क' पुस्तके, उत्तरार्धभूतः ।
१ ख. ग. समेखलाः । २ ख. वाकलिम् । ग. वाक्पतिम् । ३ क. च ॥
चाङ्गिरसं चैव पुलस्त्यं पुलहं त० । ४ ख. ग. पाराशरमरम्बूङं म० । ५ ख. ग. वसिष्ठं
६ ख. ग. अगस्तिं ।
पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
विज्ञाय तान्रोमपाद उपविष्टो नृपस्तदा ॥
पप्रच्छ वदतां श्रेष्ठो सामात्यः सपुरोहितः ॥ ३३ ॥
*मयकारानतिश्रेष्ठानभिवाचैवमब्रवीत् ॥
पुरा मम सुरैः प्रीतैर्वरो दत्तो हि तोषितैः ॥ ३४ ॥
वाहनास्ते भविष्यन्ति वारणा दिग्गजान्वयाः ॥
अहं जिघृक्षुर्द्विरदान्वैन्योऽच्छ्रुतविशारदः ॥ ३५ ॥
†दर्शनेन यथोक्तेन प्रेष्यतां(न्तां) हस्तिचारिणः ॥
अथ राज्ञो वचः श्रुत्वा विधिना गजचारिणः ॥ ३६ ॥
प्रेषयामासुर्वे धीरास्ते राज्ञो हितकाङ्क्षिणः ॥
अन्वेषद्भिर्वने नागानथ दृष्टं तु तैः पदम् ॥ ३७ ॥
अनुगन्तुं तदारब्धा मुदा परमया युताः ॥
वने यस्याऽऽश्रमपदं नानाद्रुमसमाकुलम् ॥ ३८ ॥
मय
१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ९
चार्वङ्गीभिर्वशामिश्च१ पोतैश्च प्रियदर्शनैः ॥
मध्येऽपश्यन्मुनिं चैव तत्रार्क२समतेजसम् ॥ ४५ ॥
तपसा नियमेर्युक्तं कृशदेहं क्रियान्वितम् ॥
धृतिक्षमाभ्यां युक्तं च तथा३ दमपरायणम् ॥ ४६ ॥
*शरण्यं सर्वभूतानां जटावल्कलधारिणम् ॥
युक्तं परेण हर्षेण क्रीडन्तं सह वारणैः ॥ ४७ ॥
कलभैर्धेनुकामिश्च भ्रमरोद्गीतिशालिषु ॥
नानापुष्पसमृद्धेषु द्रुमखण्डेषु तैः सह ॥ ४८ ॥
कमलोत्पलरम्येषु विगाहन्तं सरःसु च ॥
उत्पन्नेयं मतिस्तेषामनेनैतद्धि रक्ष्यते ॥ ४९ ॥
कालं तं मृगयामासुर्यस्मिन्विरहितं भवेत् ॥
अनेन मुनिना यूथमन्विष्यामो यथासुखम् ॥ ५० ॥
अथ मध्याह्नकाले तु आश्रमं मुनिरागतः ॥
४ऋषिस्तस्य प्रयत्नेन कर्तुं शुश्रूषणक्रियाम् ॥ ५१ ॥
सायाह्नकाले तु मुनिर्यूथमध्यं पुनर्गतः ॥
एतत्सर्वं यथावृत्तैरङ्गराजाय कीर्तितम् ॥ ५२ ॥
तस्मै नरो बहिर्भोगास्तथाऽऽगेभ्य५ न्यवेदयन् ॥
मूर्ध्नि कृत्वाऽञ्जलिं प्रीता महीमास्थाय जानुभिः ॥ ५३ ॥
दर्शनीयानि दीर्घाणि६ न द्रवन्ति महान्ति च ॥
बहून्यदृष्टपूर्वाणि सत्त्वानि भुवि कानि च ॥ ५४ ॥
सर्वसस्यविनाशं च राजन्कुर्वन्ति नित्यशः ॥
तेषां देशहितार्थाय प्रतिपत्नो ७विधीयताम् ॥ ५५ ॥
ततस्तेषां वचः श्रुत्वा ग्रहार्थं कृतनिश्चयः ॥
प्रस्थितो हृदि तं कृत्वा यः कालस्तैर्निवेदितः ॥ ५६ ॥
गृहीत्वा महतीं सेनां नगर्या निर्ययौ तदा ॥
अचिरात्समनुप्राप्तस्तं देशं यत्र ते गजाः ॥ ५७ ॥
- अयं श्लोकः 'क' पुस्तके नास्ति ।
१ क. ॰र्भिश्च वश्याभि; पो० । २ ग. ॰व शतार्क० । ३ क. ॰था देवप० ।
४ क. कृषेस्त° । ५ क. ॰गम्यावदंस्तथा । मृ° । ६ क. ॰णि भद्र° । ७ ख. ग.
विधीयते ।
पालकाप्यमुनिविरचितो— [ १ महोरगस्थाने-
स तांञ्शापवेशप्राप्तान्गजाञ्जग्राह पार्थिवः ॥
तस्मिन्काले यथारूपाते यूथं बद्ध्वा नृपेण तत् ॥ ५८ ॥
चम्पासमीपमानीतं ततः पूज्याभिवाद्य च ॥
विधिना शास्त्रदृष्टेन नयकर्तृंस्तथाऽब्रवीत् ॥ ५९ ॥
स्तम्भेषु च यथोक्तेषु स्थानग्रासे तथैव च ॥
विधिना च यथोक्तेन यूथमेतद्दि दम्यताम् ॥ ६० ॥
प्रत्यब्रुवन्नङ्गराजं सर्वे ते नयकोविदाः ॥
स्वकार्यमिदमस्माकं शेषं कार्यं विचिन्त्यताम् ॥ ६१ ॥
चम्पाप्रवेशः क्रियतां राजन्स्वस्थमना भव ॥
ते राजनि प्रविष्टे तु यूथं स्तम्भेष्वबन्धयन् ॥ ६२ ॥
अथ शुश्रूषणां कृत्वा स निष्क्रम्याऽऽश्रमान्मुनिः ॥
तं देशमभिसंप्राप्तस्वासीद्यस्मिन्स्थितं तु तत् ॥ ६३ ॥
तस्मिन्नपश्यंस्तद्यूथं मनसा व्याकुलेन तु ॥
आँगतोऽन्वेषणं कर्तुं पुरा तिष्ठन्ति येषु च ॥ ६४ ॥
ते देशेष्ववगाहन्ते येषु चैव सरःसु च ॥
अपश्यंस्तेषु सर्वेषु चम्पामभ्यागतस्ततः ॥ ६५ ॥
पदेन मुनिशार्दूलः शोचन्स्नेहेन हस्तिनः ॥
अथ पूर्वनिर्युक्तैस्तु तस्य चेष्टाचरैर्मुनेः ॥ ६६ ॥
शुश्रूषणाचा निखिलाश्चेष्टा राज्ञोऽ(ज्ञेऽ)नुकीर्तिताः ॥
तत्राऽऽसीना महात्मानो यूथस्य नयकोविदाः ॥ ६७ ॥
गौतमप्रमुखाः सर्वे सर्वभूतहिते रताः ॥
तपोनियमसंपन्नास्तेन यूथस्य मध्यगाः ॥ ६८ ॥
ददृशुर्यौगपद्येन तस्मिंस्तु गजमण्डले ॥
श्रीमन्तं ब्राह्मणं कंचिज्जटिलं साधुसंमतम् ॥ ६९ ॥
उग्रेणं तपसा युक्तं वेदवेदाङ्गपारगम् ॥
कृष्णाजिनधरं युक्तमृषिमुग्रेण वर्चसा ॥ ७० ॥
अपश्यन्मौनसंपन्नं प्रविष्टं हस्तिमण्डले ॥
अचिन्तयंस्तु तान्सर्वांन्स दृष्ट्वा वारणान्मुनिः ॥ ७१ ॥
१ ग. °वशात्प्राप्ता° । २ क. °न नागनेतुंस्त° । ३ क. स्थानं ग्रा° ।
४ ...[ख्योऽन्वे]° । ६ ख. देशेष्वथावगाहन्ते । ७ क. °युक्तस्त्व् ।
८ क. °ममन्त्रास्ते तेन ।
१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ७
आसीदुद्विग्ननेत्रश्च दीनानुपजगाम च ॥
ज्ञातिवच्चे स तांभागान्व्रणितान्दुःखपीडितान् ॥ ७२ ॥
उपेत्य तान्सव्यथितान्संस्पृशन्परिनिःश्वसन् ॥
त्वङ्मूलभङ्गांश्च बहूनाहृत्य व्रणरोपणान् ॥ ७३ ॥
संक्षुद्य तेषां नामानों स व्रणान्लिम्पति स्म तान् ॥
कुड्मलान्पल्लवांश्चैव त्वचो मूलफलानि च ॥ ७४ ॥
यवसानि विचित्राणि स तेभ्यः प्रददौ मुनिः ॥
एकरात्रोषितं तत्र तंन्न्रकारो यशस्विनः ॥ ७५ ॥
तं मुनिं कर्म चैवास्य पप्रच्छुर्विस्मितास्तदा ॥
अनुकम्पसे गजान्केन कस्मादालिम्पसि व्रणान् ॥ ७६ ॥
इति तैः पृच्छद्यमानोऽपि न किंचित्प्रत्युवाच सँः ॥
अनतिव्याहृतास्तेन तत्र ते विस्मितास्तदा ॥ ७७ ॥
तं मुनिं कर्म चैवास्य तद्राज्ञे प्रत्यवेदयन् ॥
तेषां श्रुत्वा वचो राजा महर्षिमभिगम्य तम् ॥ ७८ ॥
अर्घेणाऽऽसनदानेन पाद्येन च महामुनिम् ॥
प्रणिपातेन चाभ्यर्च्य ❊स्पृष्ट्वाऽग्रे स्तुतिकौशलम् ॥ ७९ ॥
सान्त्वयन्परिपप्रच्छ विनयेन कृताञ्जलिः ॥
भगवञ्ज्ञातुमिच्छामि जन्म नाम श्रुतं च यत् ॥ ८० ॥
दमनप्रतिरूपं च इयां प्रीतिं च हस्तिषु ॥
इति तं परिपृच्छन्तं भूमिपालं कृताञ्जलिम् ॥ ८१ ॥
मौनसंपदमास्थाय न किंचित्प्रत्युवाच सः ॥
पृष्टवान्पार्थिवश्चैवं ततो ब्राह्मणकाम्यया ॥ ८२ ॥
अथास्मै धर्मवित्साधुः शशंसाऽऽत्मानमात्मवित् ॥
पुरा हि वारणा राजन्कामगाः कामरूपिणः ॥ ८३ ॥
चरन्ति मानुषे लोके देवलोके च पार्थिव ॥
अथोत्तरे हिमवतो महान्यग्रोधपादपः ॥ ८४ ॥
द्वे योजनशते राजन्नुच्छ्रितस्तद्वदायतः ॥
ऋषिर्दीर्घतपा नाम तत्राऽऽसीत्सपरिग्रहः ॥ ८५ ॥
- 'सृष्ट्वा' इति तूचितम् ।
१ क. °च्च मता° । ख. °च्च सुता° । २ ख. °नां व्रणानालिम्प° । ३ कँ.
तन्न्रकारो । ४ क. सः ॥ आन° । ५ ख. ग. °ष्ट्वाऽऽभिस्तु° । ६ क. °वान्ब्राह्मणश्चै° ।
८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
न्यग्रोधं ते कदाचित्तु समाजग्मुरनेकशः ॥
निपेतुस्तस्य शाखायां सर्वे ते संहता गजाः ॥ ८६ ॥
अतिभारेण तेषां तु सा शाखा शतयोजना ॥
विदारयन्ती तं देशं निपपात महीतले ॥ ८७ ॥
ते चापि वारणाः सर्वे शाखामन्यं समाश्रिताः ॥
ततः क्रोधसमाविष्टांस्तान्गजानृषिरब्रवीत् ॥ ८८ ॥
मददर्पोच्छ्रयाद्यस्मान्मम भग्नः परिग्रहः ॥
विमुक्ताः कामचारेण भविष्यथ न संशयः ॥ ८९ ॥
नराणां वाहनत्वं च तस्मात्प्राप्स्यथ वारणाः ॥
अयान्तरिक्षान्महती राजन्वाणी विनिर्गता ॥ ९० ॥
यैः क्षयं दानवा नीतास्तान्मुक्त्वा ऋषिसत्तम ॥
वाणीं श्रुत्वा शुभामेनामेवमाह महामुनिः ॥ ९१ ॥
अथ ते वारणाः श्रुत्वा शापमात्मापराधजम् ॥
परं दैन्यमुपागम्य ब्रह्माणमुपतस्थिरे ॥ ९२ ॥
अथ तान्पूर्वमेवाऽऽह ब्रह्मा लोकपितामहः ॥
मा कार्षुर्वॉरणाः शोकं न हि शक्यं तदन्यथा ॥ ९३ ॥
कर्तुं यत्तेन मुनिना वचनं समुदाहृतम् ॥
एतद्वाक्यं ततः श्रुत्वा प्रत्यूचुस्ते दिशां गजाः ॥ ९४ ॥
अस्मोकमनुजानां तु गजानां ग्रामवासिनाम् ॥
रोगाः प्रादुर्भविष्यन्ति विषमाद्यशनादिभिः ॥ ९५ ॥
दिग्गजानां वचः श्रुत्वा प्रत्युवाच पितामहः ॥
न विषादे मनः कार्यं व्याधीन्प्रति मतङ्गजाः ॥ ९६ ॥
उत्पत्स्यत्यचिरेणाथ गजबन्धुर्महामुनिः ॥
आयुर्वेदस्य वेत्ता वै मत्कृतस्य भविष्यति ॥ ९७ ॥
तेषां रोगांत्समुत्पन्नान्हनिष्यत्यौषधीबलात् ॥
एवमुक्त्वा दिशो नागान्विससर्ज यथादिशम् ॥ ९८ ॥
ततस्ते प्रययुः स्थानं स्वं स्वमैरावतादयः ॥
दिग्वारणान्वयास्ते तु लोकं मानुषमागताः ॥ ९९ ॥
१ क. मदीयाश्रयणे यस्मा०। २ ख. ०हता वाणी राजन्वि०। ३ ग. वाणी-
मर्थं श्रु०। ४ क. शापमात्मपराजयम् । ५ क. ०स्माकमन्वये नूनं ग०। ख. ग. ०स्माकं
मनु० । ६ ग. यथासुखम् ।
विचरन्ति महीं कृत्स्नां पद्भिः सागरमेखलाम् ॥
शतशो यूथसंरूपाद्भिः प्रहृष्टाश्च सहस्रशः ॥ १०० ॥
राजन्हिमवतः पार्श्वे महर्षिः सामगायनः ॥
सागरं प्रति लोहित्यं तपस्तीव्रमसप्यत ॥ १०१ ॥
तस्याऽऽश्रमपदाभ्यासमीजगाम यदृच्छया ॥
सवृद्धबालं सुमहद्गजयूथं सयूथपम् ॥ १०२ ॥
तं स्वप्ने धर्षयामास यक्षिणी कामरूपिणी ॥
का निर्व्य शयनात्तूर्णमुत्थितः स व्यचिन्तयन् ॥ १०३ ॥
आश्रमादभिनिष्क्रम्य मुनिर्मूत्रं चकार सः ॥
तस्य मूत्रेण संसृष्टं तत्रैवेन्द्रियमभ्र(स्र)वत् ॥ १०४ ॥
कृत्वा शौचं यथान्यायं मुनिर्धर्मपरायणः ॥
प्रविष्टमात्रे निलयं तस्मिंस्तमृषिसत्तमे ॥ १०५ ॥
दैवकारणसंयुक्तं तन्तु तद्रेतसाऽन्वितम् ॥
अपिबद्धस्तिनी मूत्रं ततो गर्भमधत्त सा ॥ १०६ ॥
तस्य तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ॥
कथं करेणुस्तच्छुक्रं पीत्वा गर्भमधत्त सा ॥ १०७ ॥
को हेतु कारणं किं वा भगवन्वक्तुमर्हसि ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ १०८ ॥
शृणु सर्वं महाराज शुक्रं पीतवती च सा ॥
गर्भं दंधे यदर्थं च सा भूदेवं हि हस्तिनी ॥ १०९ ॥
ब्रह्मणा विहिता मूर्ती रुचिरा नाम देवता ॥
आदिकाले प्रजासर्गे विचिन्त्य भगवान्प्रभुः ॥ ११० ॥
देवानां मानुषाणां च गन्धर्वाणां च रक्षसाम् ॥
गृहीत्वा सोऽसृजत्तेजः स्वयं स्वायंभुवामिव ॥ १११ ॥
तां दृष्ट्वा रुचिरां देवा ऋषयश्च तपोधनाः ॥
इत्यूचुरमितं प्राप्य विस्मयं सर्वपारगाः ॥ ११२ ॥
रुचिरेत्यभिविख्याता लोकेषु रोचिता त्रिषु ॥
अचिन्तयित्वा सा देवान्प्रजापतिपुरोगमान् ॥ ११३ ॥
१ क. तत्र । २. ख. ग. संगृष्टं । ३ ख. दधे । ४ ग. प्रजासर्वे । ५ क.
रुचिरा ।
२
१० | पालकाप्यमुनिविरचितो— | [१ महारोगस्थाने-
यौवनस्यैव गर्वाद्वा केवलं लीलयाऽपि वा ॥
तत्रैव मुनिभिः रूपतैः कीर्त्यमाना ययौ तदा ॥ ११४ ॥
तां रुष्टो भगवान्ब्रह्मा शशाप वसुधाधिप ॥
भविष्यसि करेणुस्त्वं कदाचिद्वसुधातले ॥ ११५ ॥
मम शापवशात्मानिं ब्रूहि नाथ क्षितौ कदा ॥
ईत्युक्त्वा ब्रह्मणः सा तु पादयोरपतत्तदा ॥ ११६ ॥
तामुवाचाश्रुपूर्णाक्षीं प्रमदां विमदां शुभाम् ॥
करेणुभावो मेदिन्यां मतक्रान्ते भविष्यति ॥ ११७ ॥
प्रभूय भार्गवारुपाते वसुवंशे⁴ सुकन्यका ॥
भविष्यसि तदा भद्रे पुनः शापमवाप्स्यसि ॥ ११८ ॥
प्राप्तशापा वसुकुले जन्म कामयते यदा ॥
उपायं चिन्तयन्त्यत्र जन्मार्थं पश्चिमां गता ॥ ११९ ॥
ततः शापाभिभू
१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ११
इत्युक्त्वा ब्रह्मणस्तस्य साऽपतत्पादपोस्तदा ॥
सोऽब्रवीच्छोकसंतप्तामश्रुपूर्णायतेक्षणाम् ॥ १२८ ॥
मा भैषीः केन वं त्रस्ता कलुषा वा शुभानने ॥
बामुवाच महाप्राज्ञो ह्यवस्थां चिन्तयंस्तदा ॥ १२९ ॥
ददर्श सर्वं निष्टंकं दिव्यचक्षु(ः)समन्वितः ॥
वसूनामुत्तमे वंशे जननं ते भविष्यति ॥ १३० ॥
तत्र वर्षसहस्रं तु नीत्वा शापमवाप्स्यसि ॥
एतत्ते कथितं राजन्पुनश्चैतन्निगद्यते ॥ १३१ ॥
गर्भं धत्ते यदर्थं तु साऽभूच्चैव च हस्तिनी ॥
वसूनां कन्यका राजन्नाम्ना गुणवती किल ॥ १३२ ॥
देवगन्धर्वकन्याभिः सखीभिः सह शोभना ॥
मातापितृमतेनैव विचचार महीतले ॥ १३३ ॥
दर्शनीयानि पश्यन्ती वनान्युपवनानि च ॥
निर्झरान्सरितः शैलान्पुष्पवन्ति सरांसि च ॥ १३४ ॥
अथाऽऽश्रमं मातङ्गस्य कदाचित्प्रविवेश सा ॥
मनोहरत्वात्क्रीडन्ती विस्मृता तत्र सा सखी ॥ १३५ ॥
युक्ता दैवेन विधिना विचरन्ती मतं सुताम् (?) ॥
दृष्ट्वा लक्षणसंपन्नां रूपयौवनशालिनीम् ॥ १३६ ॥
धर्मविघ्नकरीं मत्वा शक्रेण प्रेषितां स्वयम् ॥
ततः शशाप संक्रुद्धोऽनागसां वसुकन्यकाम् ॥ १३७ ॥
अरण्ये विचरस्यैका यस्मान्मानुषवर्जिता ॥
तस्मादरण्यनिलया करेणुस्त्वं भविष्यसि ॥ १३८ ॥
मा भूदरण्यवासेऽपि (?) †नाऽऽत्स्यसे स्वस्थ ^८चेतसः (?) ॥
अथ शापभयत्रस्ता पादयोरपतन्मुनेः ॥ १३९ ॥
नापराधोऽस्ति मे ब्रह्मन्किमर्थं शप्तवानसि ॥
ब्रह्मणो भवनाकारं सिद्धगन्धर्वसेवितम् ॥ १४० ॥
- 'विस्मृत्य तत्र सा सखीः' इति पाठस्तूचितः । * 'अनागसं' इति भवेत् ।
† 'यथा ते स्वस्थचित्तता' इति पाठस्तूचितः ।
१ ख. वै । २ क. कथिता । ३ ख. ग. ॰नश्चेदं निग॰ । ४ ख. तरसा ।
५ ख. सुताम् । ६ ग. ॰र्जिते ॥ त॰ । ७ क. ॰ल्यी क॰ । ८ क. चेतसा । ग. तेजसा ।
१४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
परं विस्मयमागम्य राजा प्राञ्जलिरब्रवीत् ॥
अपूर्वा भगवंश्चर्यामिमां श्रुत्वा तपोनिधे ॥ १६९ ॥
जन्म चाद्य तव श्रुत्वा परं कौतूहलं हि मे ॥
कथं भगवता चीर्णं वने सह मृगद्विपैः ॥ १७० ॥
नदीनां पर्वतानां च समेषु विषमेषु च ॥
काननेषु च रम्येषु हस्तियूथैः समं विभो ॥ १७१ ॥
कालो वा कोऽप्यतिक्रान्तः प्रभिन्नैर्वरवारणैः ॥
वने विचरतः सार्धं तप उग्रं च कुर्वतः ॥ १७२ ॥
एतदिच्छाम्यहं ज्ञातुं भगवंस्तद्ब्रवीहि मे ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ १७३ ॥
शृणु सर्वं महाराज मया चीर्णं यथा वने ॥
हस्तियूथेन महता सार्धं धर्ममवेक्ष्य च ॥ १७४ ॥
कालश्चरति नो यावच्छीर्णपर्णाम्बुभोजिनः ॥
भ्रमद्भ्रमरसंघेषु बहुपुष्पेषु शांश्चिषु ॥ १७५ ॥
सहकारैः सतिलकैः पुंनागार्जुनकेसरैः ॥
अशोकैश्चम्पकैश्चापि कमलेन्दीवरैस्तथा ॥ १७६ ॥
शालतालतमालैश्च परिशोभितराजिषु ॥
अतिमुक्तकनद्धेषु तरुखण्डेषु नित्यशः ॥ १७७ ॥
स्थितिर्मे वारणैः सार्धं सुषुक्रान्ते नवे दिवा ॥
प्रसन्नशीततोयेषु क्रीडता पद्मगन्धिषु ॥ १७८ ॥
सरस्सु कलभैः सार्धं पीतं च सलिलं मया ॥
शाद्वलानि वनान्तेषु मणिवर्णानि भूमिप ॥ १७९ ॥
पुलिनानि नदीनां च पर्वतानां च सानुषु ॥
निवातानि प्रवातेषु वनानि चरितानि च ॥ १८० ॥
सेविताः पादपाः फुल्ला मदगन्धाधिवासिताः ॥
अकर्दमा वनोद्देशा वर्षास्वल्पद्रुमास्तथा ॥ १८१ ॥
सेविता वारणैः सार्धं स्थलप्रायाः सुखं मया ॥
दश वर्षसहस्राणि दश वर्षशतानि च ॥ १८२ ॥
१ क. तपोनिधेः। २ क. ख. ॰वतीर्णं। ३ ख. शाखिषु। ४ ख. ॰पि
मुकुले०। ५ क. ख. क्रीडिता। ६ ख. मन्दग०।
९
१ वनानुचरिताध्यायः ] हस्तिआयुर्वेदः । १६
त्रीणि पञ्च च वर्षाणि मया चीर्णं सह द्विपैः^१ ॥
हृष्टेन मनसा राजन्मयाऽऽख्यातं ततो हितम् ॥ १८३ ॥
अथ संपूज्य तं राजा प्रसन्नमनसं मुनिम् ॥
गजार्थं चोदपामास विनयेन कृताञ्जलिः ॥ १८४ ॥
केऽरण्ये व्याधयो नागांनुपघ्नन्ति स्पृशन्ति च ॥
ग्रामाणां व्याधयो ये च तन्ममाऽऽख्याहि पृच्छतः ॥ १८५ ॥
इत्युक्तो भूमिपालेन पालकाप्यस्ततो मुनिः ॥
हेतुमत्पुष्कलार्थं च वाक्यं राजानमब्रवीत् ॥ १८६ ॥
वने निबोध मे हेतुमारोग्ये वनचारिणाम् ॥
मधुगन्धिष्वरण्येषु करेणुसहिता गजाः ॥ १८७ ॥
चरन्ति विविधं शष्पं स्वच्छन्देन यथासुखम् ॥
त्वग्वल्लीफलभङ्गांश्च पल्लवान्विविधानपि ॥ १८८ ॥
कषायं कटुकं चैव तिक्तं लवणमेव च ॥
अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः ॥ १८९ ॥
यथर्तु चोपसेवन्ते प्रविभागेन पार्थिव ॥
वर्जयन्ति ह्यरण्येषु वृक्षभङ्गं घनागमे ॥ १९० ॥
हेमन्ते चापि मातङ्गा निदाघे भक्षयन्ति च ॥
शल्लकीकर्णिकारं च कोविदारमुदुम्बरम् ॥ १९१ ॥
प्लक्षं न्यग्रोधवृक्षं च पवसं चोदकं तथा ॥
वर्षास्त्वरण्ये सेवन्ते जाङ्गलं स्थलजं च तत् ॥ १९२ ॥
हेमन्ते स्थलजं चापि भक्षयन्ति मतङ्गजाः ॥
ते स्वैरं तृणपुष्टास्तु स्वच्छन्दातपसेविनः ॥ १९३ ॥
मह्यां चैव मनोज्ञायां रमन्ते धेनुकासुताः ॥
गच्छन्ति मैथुनं स्वैरं गर्भं चैवाऽऽदधत्यपि ॥ १९४ ॥
संमेऽभिकामं चरतामुदकं पिबतां तथां ॥
स्वयूथजातैः सार्धं च विहारमुपसेविनाम् ॥ १९५ ॥
कामं च *सेव्यमानानां शय्यास्थानं तथाऽशनम् ॥
† निर्वाणं पांशुघातं च परिव्यञ्जनमेव च ॥ १९६ ॥
- 'सेवमानानाम्' इति तूचितम् । † 'निर्वाणमस्तगमने निर्वृत्तौ गजमज्जने' इति मेदिनी ।
१ क. करण्यै । २ क. ख. ०लभङ्गाश्च । ग. ०लभागाश्च । ३ क. समभिकामं चरिता° ।
स्वप्नाज्जागरणाच्चैव न व्याधिरुपजायते ॥
तेऽरण्याद्ग्राममानीता भयशोकक्लमन्विताः ॥ १९७ ॥
उद्विग्ना वधबन्धाभ्यां शोचन्तो धेनुभिर्विना ॥
तीक्ष्णाभिर्वाग्भिरुग्राभिस्तथैव भृशमर्दिताः ॥ १९८ ॥
अकामाशनयानैश्च योज्यमाना मतङ्गजाः ॥
दुःस्थानशयनाभ्यां च कर्मभिश्चातिपीडिताः ॥ १९९ ॥
स्वयोनिभ्यो निरोधाप भवन्ति भृशमातुराः ॥
साध्यैर्याप्यैस्त्वसाध्यैश्च व्याधिभिश्च शरीरजैः ॥ २०० ॥
ततोऽहमिह संप्राप्तस्त्वयाऽऽनीतेषु हस्तिषु ॥
विज्ञप्तो गौरवैरर्थैस्तथैवाऽऽमन्त्रितस्त्वया ॥ २०१ ॥
बन्धुस्नेहाच्च नागानां त्वया दृष्टोऽस्मि पार्थिव ॥
इति ब्रुवाणं तं विप्रं गजशास्त्रविशारदम् ॥ २०२ ॥
विज्ञायागोचरैर्र्यैर्न्यमन्त्रयत सान्त्वयन् ॥
मम त्वनुग्रहार्थं च वासेऽस्मिन्क्रियतां मतिः ॥ २०३ ॥
ऋषिभिश्च स तैः सर्वैरर्च्यमानो नृपेण च ॥
बन्धुस्नेहाच्च नागानां तत्र वासे मनो दधे ॥ २०४ ॥
आश्रमं कारयामास चम्पाभ्यासे च पार्थिवः ॥
अप्सरोभिः समाकीर्णं दंम्यमानगजाकुलम् ॥ २०५ ॥
वासाय कृतबुद्धिश्च मुनिमध्ये महामुनिः ॥
वारणानां हितार्थाय राजानमिदमब्रवीत् ॥ २०६ ॥
अण्डे किल समुत्पन्ना वारेणाः पूर्वकालिकाः ॥
तच्चाण्डं तेजसं प्रोक्तमतः क्रीडन्ति पांशुभिः ॥ २०७ ॥
मार्तण्डकायशकलैस्तदण्डमभवत्किल ॥
तस्मादैरावतः श्रीमानुत्पन्नः प्रथमो गजः ॥ २०८ ॥
पुण्डरीकादयः पश्चात्कपालशकलेऽभवन् ॥
तेजसीं तनुमिच्छन्ति नागानां भूतचिन्तकाः ॥ २०९ ॥
तच्चाण्डमर्कतनुजैर्जातं तन्मयमेव चं ॥
समानजन्मयोनित्वादिह तस्मान्मतङ्गजाः ॥ २१० ॥
१ ख. ०तान् ॥ १९७ ॥ २ क. शोचते । ३ क. ०स्थानाश० । ४ क.
०थैवमभित० । ५ क. दृष्टोऽस्मि । ६ क. च साचेस्मि० । ७ क. पार्थिव । ८ ग.
०जा वञ्चनुम० । ९ क. ०रणायोर्थका० । १० ख. नु । ग. तु ।