हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 24, कुल 742 में से
संदर्भ में पढ़ें१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ५
दण्डकमण्डलूपेता दीप्यमानाः स्वतेजसा ॥
यज्ञोपवीतसहिता अक्षमालाविभूषिताः ॥ २२ ॥
नाकवत्सुवर्णधारा महीवच्च सुमेखलाः ॥
पातालवत्तपोनन्तास्त्रिषु लोकेषु मध्यगाः ॥ २३ ॥
रविबिम्बसमाकाराः षट्त्रिंशज्जपकोविदाः ॥
*अपश्यन्नागतान्श्चम्पां मुनयः संशितव्रताः ॥ २४ ॥
('गङ्गायांः' इत्यादि कुलकम् )
† .... .... .... .... .... .... .... .... .... .... .... .... .... ॥
गौतमं चाग्निवेश्यं च राजपुत्रं च बाष्कलम् ॥ २५ ॥
काश्यपं मृगशर्माणं भारद्वाजं च सौबलम् ॥
काङ्कायनं च गार्ग्यं च रैभ्यं चैव बृहस्पतिम् ॥ २६ ॥
अरिमेदं च माण्डव्यं कुमुदं तं तथैव च ॥
याज्ञवल्क्यं हिरण्यं च भृगुं चाङ्गिरसं तथा ॥ २७ ॥
पॅराशरमचूडं च मतङ्गं चोर्ध्वमालिनम् ॥
सारस्वतं सच्यवनं पुलस्त्यं पुलहं क्रतुम् ॥ २८ ॥
विश्वामित्रं वशिष्ठं च जमदग्निं च भार्गवम् ॥
अगस्त्यं च त्रिशङ्कुं च मरीचयन्त्रिसुपर्वणम् ॥ २९ ॥
दीर्घं परिकरं काप्यं नारदं सुरवन्दितम् ॥
एतानन्यान्महाभागानगतान्सुरशासनात् ॥ ३० ॥
दृष्ट्वैव परमप्रीतो राजा विस्मयमागतः ॥
+प्रत्युत्थायाऽऽसनात्तूर्णं स्थित्वा चाभ्यर्च्य तान्नृपः ॥ ३१
†अर्धेणाऽऽसनदानेन पाद्येन च परंतपः ॥
स्तूयमानस्तु राजा तैः कुशलं धर्मसंमतम् ॥ ३२ ॥
- इतः पूर्वं 'धनकार्याणि लोकानां राजा सन्मन्त्रिभिः सह' इति ग. पुस्तके-
धिकः पाठः ।
† पुस्तकद्वये श्लोकार्धोत्तरमेव श्लोकाङ्क( २९ )दानं कृतमतो ज्ञायते—'पूर्वा-
र्द्धादितः' इति ।
- अयमर्धश्लोकः 'क' पुस्तके नास्ति ।
† अयमर्धश्लोकः 'क' पुस्तके, उत्तरार्धभूतः ।
१ ख. ग. समेखलाः । २ ख. वाकलिम् । ग. वाक्पतिम् । ३ क. च ॥
चाङ्गिरसं चैव पुलस्त्यं पुलहं त० । ४ ख. ग. पाराशरमरम्बूङं म० । ५ ख. ग. वसिष्ठं
६ ख. ग. अगस्तिं ।