हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 34, कुल 742 में से
संदर्भ में पढ़ें१ वनानुचरिताध्यायः ] हस्तिआयुर्वेदः । १६
त्रीणि पञ्च च वर्षाणि मया चीर्णं सह द्विपैः^१ ॥
हृष्टेन मनसा राजन्मयाऽऽख्यातं ततो हितम् ॥ १८३ ॥
अथ संपूज्य तं राजा प्रसन्नमनसं मुनिम् ॥
गजार्थं चोदपामास विनयेन कृताञ्जलिः ॥ १८४ ॥
केऽरण्ये व्याधयो नागांनुपघ्नन्ति स्पृशन्ति च ॥
ग्रामाणां व्याधयो ये च तन्ममाऽऽख्याहि पृच्छतः ॥ १८५ ॥
इत्युक्तो भूमिपालेन पालकाप्यस्ततो मुनिः ॥
हेतुमत्पुष्कलार्थं च वाक्यं राजानमब्रवीत् ॥ १८६ ॥
वने निबोध मे हेतुमारोग्ये वनचारिणाम् ॥
मधुगन्धिष्वरण्येषु करेणुसहिता गजाः ॥ १८७ ॥
चरन्ति विविधं शष्पं स्वच्छन्देन यथासुखम् ॥
त्वग्वल्लीफलभङ्गांश्च पल्लवान्विविधानपि ॥ १८८ ॥
कषायं कटुकं चैव तिक्तं लवणमेव च ॥
अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः ॥ १८९ ॥
यथर्तु चोपसेवन्ते प्रविभागेन पार्थिव ॥
वर्जयन्ति ह्यरण्येषु वृक्षभङ्गं घनागमे ॥ १९० ॥
हेमन्ते चापि मातङ्गा निदाघे भक्षयन्ति च ॥
शल्लकीकर्णिकारं च कोविदारमुदुम्बरम् ॥ १९१ ॥
प्लक्षं न्यग्रोधवृक्षं च पवसं चोदकं तथा ॥
वर्षास्त्वरण्ये सेवन्ते जाङ्गलं स्थलजं च तत् ॥ १९२ ॥
हेमन्ते स्थलजं चापि भक्षयन्ति मतङ्गजाः ॥
ते स्वैरं तृणपुष्टास्तु स्वच्छन्दातपसेविनः ॥ १९३ ॥
मह्यां चैव मनोज्ञायां रमन्ते धेनुकासुताः ॥
गच्छन्ति मैथुनं स्वैरं गर्भं चैवाऽऽदधत्यपि ॥ १९४ ॥
संमेऽभिकामं चरतामुदकं पिबतां तथां ॥
स्वयूथजातैः सार्धं च विहारमुपसेविनाम् ॥ १९५ ॥
कामं च *सेव्यमानानां शय्यास्थानं तथाऽशनम् ॥
† निर्वाणं पांशुघातं च परिव्यञ्जनमेव च ॥ १९६ ॥
- 'सेवमानानाम्' इति तूचितम् । † 'निर्वाणमस्तगमने निर्वृत्तौ गजमज्जने' इति मेदिनी ।
१ क. करण्यै । २ क. ख. ०लभङ्गाश्च । ग. ०लभागाश्च । ३ क. समभिकामं चरिता° ।