हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 23, कुल 742 में से
संदर्भ में पढ़ेंपालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
आसने काञ्चने दिव्ये नानारत्नविभूषिते ॥
उपविष्टो महीपालः प्रजासुखहिते रतः ॥ ८ ॥
तपसा भावितात्मा वै राजा राजीवलोचनः ॥
( 'अङ्गानाम्' इत्याद्येकान्वयम् )
गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते ॥ ९ ॥
स्वर्गारोहणसोपानकृततीर्थकृतापहे (?) ॥
मातेव मुक्तिजनने पदन्यासकृताश्रमे ॥ १० ॥
शालतालतमालैश्च प्रियालैवञ्जुलैः श्रिते ॥
पुंनागाशोकवकुलैर्भूषिते चारुचम्पकैः ॥ ११ ॥
सहकारार्जुनाश्वत्थवरामलकजम्बुभिः ॥
कदम्बोदुम्बरप्लक्षैर्नानावृक्षैश्च शोभिते ॥ १२ ॥
कमलोत्पलकह्लारपुष्पगन्धाधिवासिते ॥
शुककोकिलसारीभिः कोककेकारवै रुते ॥ १३ ॥
शीतमन्दसुगन्धेन मारुतेनोपसंस्कृते ॥ '
यक्षगन्धर्वनिलये सिद्धचारणसेविते ॥ १४ ॥
सर्वलक्षणसंपन्नं सर्वविद्यासुशोभितम् ॥
धर्मार्थज्ञानतत्त्वज्ञं तथा शक्रोपमं नृपम् ॥ १५ ॥
चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः ॥
दिव्याभरणभूषाभिर्मानिनीभिश्च मोदितम् ॥ १६ ॥
पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः (?) ॥
सुकङ्कणरवोपे तैर्वीज्यमानं तु चामरैः ॥ १७ ॥
महाबला महाकाया कुञ्जरा वनचारिणः ॥
कथं वश्या भवन्त्येते चिन्तयन्तं मुहुर्मुहुः ॥ १८ ॥
इतिहासकथाः काव्यं श्रोष्यमाणं मनोरमम् ॥
श्रितं सुरगुरुप्रख्यैः पुरोधोभिश्च मन्त्रिभिः ॥ १९ ॥
सुखासीनं तु तत्रस्थं पौरजानपदैः सह ॥
प्रेरिता भाविविधिना दयाभरणभूषिताः ॥ २० ॥
जटामुकुटधर्तारो मोक्षद्वारपथानुगाः ॥
कन्दमूलफलाहाराः कौपीनवसनावृताः ॥ २१ ॥
१ ग. ०तीर्थे कृ० । २ ग. ०श्रमः ॥ १० ॥ ३ ख. ग. ०लैर्युते । ४ ख.
०च्चैः । ५ ग. ग. । ५ ० । ७ क. ०ना दिव्याभ० ।