सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 28, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 28

१ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । ७
आसीदुद्विग्ननेत्रश्च दीनानुपजगाम च ॥
ज्ञातिवच्चे स तांभागान्व्रणितान्दुःखपीडितान् ॥ ७२ ॥
उपेत्य तान्सव्यथितान्संस्पृशन्परिनिःश्वसन् ॥
त्वङ्‌मूलभङ्गांश्च बहूनाहृत्य व्रणरोपणान् ॥ ७३ ॥
संक्षुद्य तेषां नामानों स व्रणान्लिम्पति स्म तान् ॥
कुड्‌मलान्पल्लवांश्चैव त्वचो मूलफलानि च ॥ ७४ ॥
यवसानि विचित्राणि स तेभ्यः प्रददौ मुनिः ॥
एकरात्रोषितं तत्र तंन्न्रकारो यशस्विनः ॥ ७५ ॥
तं मुनिं कर्म चैवास्य पप्रच्छुर्विस्मितास्तदा ॥
अनुकम्पसे गजान्केन कस्मादालिम्पसि व्रणान् ॥ ७६ ॥
इति तैः पृच्छद्यमानोऽपि न किंचित्प्रत्युवाच सँः ॥
अनतिव्याहृतास्तेन तत्र ते विस्मितास्तदा ॥ ७७ ॥
तं मुनिं कर्म चैवास्य तद्राज्ञे प्रत्यवेदयन् ॥
तेषां श्रुत्वा वचो राजा महर्षिमभिगम्य तम् ॥ ७८ ॥
अर्घेणाऽऽसनदानेन पाद्येन च महामुनिम् ॥
प्रणिपातेन चाभ्यर्च्य ❊स्पृष्ट्वाऽग्रे स्तुतिकौशलम् ॥ ७९ ॥
सान्त्वयन्परिपप्रच्छ विनयेन कृताञ्जलिः ॥
भगवञ्ज्ञातुमिच्छामि जन्म नाम श्रुतं च यत् ॥ ८० ॥
दमनप्रतिरूपं च इयां प्रीतिं च हस्तिषु ॥
इति तं परिपृच्छन्तं भूमिपालं कृताञ्जलिम् ॥ ८१ ॥
मौनसंपदमास्थाय न किंचित्प्रत्युवाच सः ॥
पृष्टवान्पार्थिवश्चैवं ततो ब्राह्मणकाम्यया ॥ ८२ ॥
अथास्मै धर्मवित्साधुः शशंसाऽऽत्मानमात्मवित् ॥
पुरा हि वारणा राजन्कामगाः कामरूपिणः ॥ ८३ ॥
चरन्ति मानुषे लोके देवलोके च पार्थिव ॥
अथोत्तरे हिमवतो महान्यग्रोधपादपः ॥ ८४ ॥
द्वे योजनशते राजन्नुच्छ्रितस्तद्वदायतः ॥
ऋषिर्दीर्घतपा नाम तत्राऽऽसीत्सपरिग्रहः ॥ ८५ ॥

  • 'सृष्ट्वा' इति तूचितम् ।
    १ क. °च्च मता° । ख. °च्च सुता° । २ ख. °नां व्रणानालिम्प° । ३ कँ.
    तन्न्रकारो । ४ क. सः ॥ आन° । ५ ख. ग. °ष्ट्वाऽऽभिस्तु° । ६ क. °वान्ब्राह्मणश्चै° ।