सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 33, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 33

१४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
परं विस्मयमागम्य राजा प्राञ्जलिरब्रवीत् ॥
अपूर्वा भगवंश्चर्यामिमां श्रुत्वा तपोनिधे ॥ १६९ ॥
जन्म चाद्य तव श्रुत्वा परं कौतूहलं हि मे ॥
कथं भगवता चीर्णं वने सह मृगद्विपैः ॥ १७० ॥
नदीनां पर्वतानां च समेषु विषमेषु च ॥
काननेषु च रम्येषु हस्तियूथैः समं विभो ॥ १७१ ॥
कालो वा कोऽप्यतिक्रान्तः प्रभिन्नैर्वरवारणैः ॥
वने विचरतः सार्धं तप उग्रं च कुर्वतः ॥ १७२ ॥
एतदिच्छाम्यहं ज्ञातुं भगवंस्तद्ब्रवीहि मे ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ १७३ ॥
शृणु सर्वं महाराज मया चीर्णं यथा वने ॥
हस्तियूथेन महता सार्धं धर्ममवेक्ष्य च ॥ १७४ ॥
कालश्चरति नो यावच्छीर्णपर्णाम्बुभोजिनः ॥
भ्रमद्भ्रमरसंघेषु बहुपुष्पेषु शांश्चिषु ॥ १७५ ॥
सहकारैः सतिलकैः पुंनागार्जुनकेसरैः ॥
अशोकैश्चम्पकैश्चापि कमलेन्दीवरैस्तथा ॥ १७६ ॥
शालतालतमालैश्च परिशोभितराजिषु ॥
अतिमुक्तकनद्धेषु तरुखण्डेषु नित्यशः ॥ १७७ ॥
स्थितिर्मे वारणैः सार्धं सुषुक्रान्ते नवे दिवा ॥
प्रसन्नशीततोयेषु क्रीडता पद्मगन्धिषु ॥ १७८ ॥
सरस्सु कलभैः सार्धं पीतं च सलिलं मया ॥
शाद्वलानि वनान्तेषु मणिवर्णानि भूमिप ॥ १७९ ॥
पुलिनानि नदीनां च पर्वतानां च सानुषु ॥
निवातानि प्रवातेषु वनानि चरितानि च ॥ १८० ॥
सेविताः पादपाः फुल्ला मदगन्धाधिवासिताः ॥
अकर्दमा वनोद्देशा वर्षास्वल्पद्रुमास्तथा ॥ १८१ ॥
सेविता वारणैः सार्धं स्थलप्रायाः सुखं मया ॥
दश वर्षसहस्राणि दश वर्षशतानि च ॥ १८२ ॥
१ क. तपोनिधेः। २ क. ख. ॰वतीर्णं। ३ ख. शाखिषु। ४ ख. ॰पि
मुकुले०। ५ क. ख. क्रीडिता। ६ ख. मन्दग०।
९