हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 22, कुल 742 में से
संदर्भ में पढ़ेंॐ तत्सद्ब्रह्मणे नमः ।
पालकाप्यमुनिविरचितो
हस्त्यायुर्वेदः ।
तत्र प्रथमं महारोगस्थानम् ।
तत्र प्रथमो वनानुचरिताध्यायः ।
श्रीगणेशाय नमः ॥
प्रत्यूहव्यूहविच्छेदकारणं गणनायकः ॥
जयति स्थिरसंपत्तिर्गजभक्तनिदर्शनः ॥ १ ॥
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥
अविघ्नो विघ्नहर्ता च हेरम्बो गणनायकः ॥ २ ॥
लम्बोदरो गजमुखो धूम्रकेतुर्गजाननः ॥
सर्वकार्येषु हेरम्बनामान्येतानि संस्मरेत् ॥ ३ ॥
वनानुचरितमध्यायं व्याख्यास्यामः—
अङ्गानामधिपः श्रेष्ठः श्रीमानिन्दुसमद्युतिः ॥
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ४ ॥
येनेयं पृथिवी सर्वा सशैलवनकानना ॥
चतुःसागरपर्यन्ता भुक्ता ह्यमिततेजसा ॥ ५ ॥
स रोमपादो नृपतिश्चक्रवर्ती महायशाः ॥
मेधावी धर्मवान्धीरो निर्जितारिः प्रतापवान् ॥ ६ ॥
*अङ्गदेशेष्वभूच्छ्रीमान्रोमपादो महीपतिः ॥
गजारोहणशक्केव(?) धृतबुद्धिर्जितश्रमः ॥ ७ ॥
- अयमर्धश्लोकः कपुस्तके नास्ति । उत्तरार्धमात्रं लिखित्वा श्लो.
( ७ )स्तु लिखितः ।
१ क. ॰भक्तिनि॰ । २ क. ॰त्वज्ञो वदान्यः सर्वशास्त्रवित् ॥
ग. ॰क्के च धृ॰ ।