सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 30, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 30

विचरन्ति महीं कृत्स्नां पद्भिः सागरमेखलाम् ॥
शतशो यूथसंरूपाद्भिः प्रहृष्टाश्च सहस्रशः ॥ १०० ॥
राजन्हिमवतः पार्श्वे महर्षिः सामगायनः ॥
सागरं प्रति लोहित्यं तपस्तीव्रमसप्यत ॥ १०१ ॥
तस्याऽऽश्रमपदाभ्यासमीजगाम यदृच्छया ॥
सवृद्धबालं सुमहद्गजयूथं सयूथपम् ॥ १०२ ॥
तं स्वप्ने धर्षयामास यक्षिणी कामरूपिणी ॥
का निर्व्य शयनात्तूर्णमुत्थितः स व्यचिन्तयन् ॥ १०३ ॥
आश्रमादभिनिष्क्रम्य मुनिर्मूत्रं चकार सः ॥
तस्य मूत्रेण संसृष्टं तत्रैवेन्द्रियमभ्र(स्र)वत् ॥ १०४ ॥
कृत्वा शौचं यथान्यायं मुनिर्धर्मपरायणः ॥
प्रविष्टमात्रे निलयं तस्मिंस्तमृषिसत्तमे ॥ १०५ ॥
दैवकारणसंयुक्तं तन्तु तद्रेतसाऽन्वितम् ॥
अपिबद्धस्तिनी मूत्रं ततो गर्भमधत्त सा ॥ १०६ ॥
तस्य तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ॥
कथं करेणुस्तच्छुक्रं पीत्वा गर्भमधत्त सा ॥ १०७ ॥
को हेतु कारणं किं वा भगवन्वक्तुमर्हसि ॥
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ १०८ ॥
शृणु सर्वं महाराज शुक्रं पीतवती च सा ॥
गर्भं दंधे यदर्थं च सा भूदेवं हि हस्तिनी ॥ १०९ ॥
ब्रह्मणा विहिता मूर्ती रुचिरा नाम देवता ॥
आदिकाले प्रजासर्गे विचिन्त्य भगवान्प्रभुः ॥ ११० ॥
देवानां मानुषाणां च गन्धर्वाणां च रक्षसाम् ॥
गृहीत्वा सोऽसृजत्तेजः स्वयं स्वायंभुवामिव ॥ १११ ॥
तां दृष्ट्वा रुचिरां देवा ऋषयश्च तपोधनाः ॥
इत्यूचुरमितं प्राप्य विस्मयं सर्वपारगाः ॥ ११२ ॥
रुचिरेत्यभिविख्याता लोकेषु रोचिता त्रिषु ॥
अचिन्तयित्वा सा देवान्प्रजापतिपुरोगमान् ॥ ११३ ॥
१ क. तत्र । २. ख. ग. संगृष्टं । ३ ख. दधे । ४ ग. प्रजासर्वे । ५ क.
रुचिरा ।
२