सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 29, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 29

८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
न्यग्रोधं ते कदाचित्तु समाजग्मुरनेकशः ॥
निपेतुस्तस्य शाखायां सर्वे ते संहता गजाः ॥ ८६ ॥
अतिभारेण तेषां तु सा शाखा शतयोजना ॥
विदारयन्ती तं देशं निपपात महीतले ॥ ८७ ॥
ते चापि वारणाः सर्वे शाखामन्यं समाश्रिताः ॥
ततः क्रोधसमाविष्टांस्तान्गजानृषिरब्रवीत् ॥ ८८ ॥
मददर्पोच्छ्रयाद्यस्मान्मम भग्नः परिग्रहः ॥
विमुक्ताः कामचारेण भविष्यथ न संशयः ॥ ८९ ॥
नराणां वाहनत्वं च तस्मात्प्राप्स्यथ वारणाः ॥
अयान्तरिक्षान्महती राजन्वाणी विनिर्गता ॥ ९० ॥
यैः क्षयं दानवा नीतास्तान्मुक्त्वा ऋषिसत्तम ॥
वाणीं श्रुत्वा शुभामेनामेवमाह महामुनिः ॥ ९१ ॥
अथ ते वारणाः श्रुत्वा शापमात्मापराधजम् ॥
परं दैन्यमुपागम्य ब्रह्माणमुपतस्थिरे ॥ ९२ ॥
अथ तान्पूर्वमेवाऽऽह ब्रह्मा लोकपितामहः ॥
मा कार्षुर्वॉरणाः शोकं न हि शक्यं तदन्यथा ॥ ९३ ॥
कर्तुं यत्तेन मुनिना वचनं समुदाहृतम् ॥
एतद्वाक्यं ततः श्रुत्वा प्रत्यूचुस्ते दिशां गजाः ॥ ९४ ॥
अस्मोकमनुजानां तु गजानां ग्रामवासिनाम् ॥
रोगाः प्रादुर्भविष्यन्ति विषमाद्यशनादिभिः ॥ ९५ ॥
दिग्गजानां वचः श्रुत्वा प्रत्युवाच पितामहः ॥
न विषादे मनः कार्यं व्याधीन्प्रति मतङ्गजाः ॥ ९६ ॥
उत्पत्स्यत्यचिरेणाथ गजबन्धुर्महामुनिः ॥
आयुर्वेदस्य वेत्ता वै मत्कृतस्य भविष्यति ॥ ९७ ॥
तेषां रोगांत्समुत्पन्नान्हनिष्यत्यौषधीबलात् ॥
एवमुक्त्वा दिशो नागान्विससर्ज यथादिशम् ॥ ९८ ॥
ततस्ते प्रययुः स्थानं स्वं स्वमैरावतादयः ॥
दिग्वारणान्वयास्ते तु लोकं मानुषमागताः ॥ ९९ ॥
१ क. मदीयाश्रयणे यस्मा०। २ ख. ०हता वाणी राजन्वि०। ३ ग. वाणी-
मर्थं श्रु०। ४ क. शापमात्मपराजयम् । ५ क. ०स्माकमन्वये नूनं ग०। ख. ग. ०स्माकं
मनु० । ६ ग. यथासुखम् ।