हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२३
विषाः कल्कपिष्टाः शृगालमकरशिशुमारशशकमांसैः स्नेहं पाचयित्वा प्रलेप-
येत् । अथवा प्रपौण्डरीकदेवदारुपद्मोत्पलकुमुदकह्लारसुनिषण्णककुवलयता-
मरसैः क्षीरपिष्टैर्घृतयुक्तैः प्रलेपयेत् । चन्दनोशीरसारिवाकुशमूलधत्तूरैः क्षीर-
पिष्टैः सर्पिःस्निग्धैः प्रलेपयेत् । अथवा--पद्मकोशीरमधुकशृङ्गाटकेक्षुवालिका-
नलनलिनकुमुदकदलीमूलैः कुवलयकरवीरोत्पलकह्लारवर्धनमानकवेतसक्षीरवृ-
क्षसुनिषण्णकैः क्षीरपिष्टैर्दधिसंयुक्तैः सततमनुलेपनं कारयेत् । शिरस्थांश्च
यथायोगं नवान्कुम्भान्वारिपूर्णान्परिश्रा(स्रा)वयेत् । जलाद्रैश्च तालवृन्तै-
र्वीजयेत् । पूर्वाह्ने चैनं मधुशर्करातुगाक्षीरीकाकोल्यादिसिद्धं सर्पिः पाययेत् ।
गात्राण्यस्याभ्यञ्जयेत् । पिचुमन्दमेलककुशगडूच्यारग्वधपटोलीशतावरीमृद्वी-
काश्च संहृत्य जलद्रोणेऽपि विपाच्य चतुर्थागावशिष्टं क्वाथं सशर्करं पाययेत् ।
शाल्योदनं लावतित्तिरिक्रकरकेर्कुटकपिञ्जलानां रसेन घृतयुक्तेन भोजयेत् ।
पृश्निपर्ण्यंशुमतीफणिज्जकसारिवानिर्यूहपकेन वा मुद्गयूषेण घृतस्निग्धेन भोज-
येत् । स्थानं चास्य शीताभिरद्भिः सेचयेत् । नानाविधसुरभिकुसुमोपकीर्णां
च शालां कारयेत् । यवसान्यस्मै हरितमृदूनि मधुरविपाकानि दद्यात् । बहि-
श्चास्य शालायाः शय्याभागं कारयेत् । न वाचं कटुकां ब्रूयात् । न चैनं
प्राजनाङ्कुशदण्डैरभिहन्यात् । मनश्चास्य वंशवीणादिभिर्गीतघोषैश्च प्रसादयत् ।
ब्राह्मणानि सामानि पाठयेत् ।
तत्र श्लोकः-
तीव्रो ह्येष भृशं व्याधिः श्वयथुः पित्तसंभवः ।
तस्माद्यत्नेन वैद्यस्तु रोगमेनं प्रसाधयेत् ॥
इति पित्तशोफः ॥
अथ शिशिरमधुभोजनादातपोगाद्व्यायामाच्च कफः संप्रवृद्ध आध्मातमिव
कठिनघनशीतसूक्ष्मांवयुक्तं श्वयथुमुपजनयति ॥
स पाण्डुः शीतः स्निग्धो महान्कठिनश्च भवति । ततस्तेन व्याप्तः संभवति
गण्डूभिः स्निग्धसंस्थानैः स्तब्धगात्रोऽप्रहृष्टरोमा स्वप्रशीलश्च भवति वारणः ।
तस्य कण्डूरत्यर्थं भवति । उष्णमभिनन्दति । शीतद्वेषी भोजनं नाभिनन्दति
गम्भीरवेदी च भवति ॥
तस्य चिकित्सितं व्याख्यास्यामः । कटुतिक्तकषायतक्ष्णोष्णानि भोजनानि
१ क. ॰मृदिनीम्॰ । २ क. ॰कुक्कुट॰ । ३ क. शालानां । ४ क. ॰तिरोगा॰ ।
५ ख. ॰यन्ति । स ।
१२४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
दद्यात् । शृङ्गवेरहरिद्राद्वयपिप्पलीविडङ्गहिङ्गुपुनर्नवाकल्कपिष्टैः सलवणैस्तैला-
भ्यक्तं प्रलेपयेत् ॥
प्रलेपश्च पिप्पलीशृङ्गवेराजमोदकुष्ठतगरदेवदारुवचाताली(सपत्रहरिद्रातिवि-
पाचविका(भिः) हस्तिमूत्रश्लक्ष्णपिष्टा(भिः) शुक्तसंयुक्तान(भिः) कार्याः(यैः) सप-
ञ्चलवणमरिचपिप्पलीशृङ्गवेराजमोदचित्रकविडङ्गवचागृहधूम(प)हरिद्राभिः प्रले-
पयेत् । अथवा—अर्कवरुणकरवीरतीक्ष्णगन्धालवणैस्तैलाभ्यक्तं प्रलेपयेत् ।
स्वेदैश्च पूर्वोक्तैः स्वेदयेत् ॥
तत्र श्लोकः—
कवलैः कटुकैस्तीक्ष्णैस्तथा तीक्ष्णैश्च भोजनैः ।
प्रच्छन्नैः स्वेदनैश्चैव कफशोफं प्रसाधयेत् ॥
इति कफशोफः ॥
सांनिपातिकशोफश्च सर्वशोफसामान्यलिङ्गान्वितो भवति । तस्य सर्वशोफ-
सामान्यप्रतिक्रियां कुर्यात् ॥
तत्र श्लोकः—
एतैरेवौषधैः सर्वैः श्वयथुं सांनिपातिकम् ॥
साधयेत्कुशलः सम्यग्यथायोगं चिकित्सकः ॥
इति सांनिपातिकशोफः ॥
अथ रूक्षोष्णाम्ललवणकटुकतीक्ष्णरसैरतियोगादुष्णे चातिमात्राध्वकर्मप्रयो-
गादतिकर्मसेवनाच्चासृक्प्रकुपितं हस्तिनः सुकुमारं स्निग्धं महान्तं शोफं सोष्माण-
मुपजनयति ॥
तेन स गजः शूनो रक्ताभश्च भवति, उष्णद्वेषी सलिलग्रासं नातिप्रसक्तमुपे-
युङ्क्ते । पित्तशोफलिङ्गान्वितश्च भवति ॥
तस्मै मधुरमृदुशीतस्निग्धानि भोजनानि दद्यात् । प्रलेपैश्च पूर्वोक्तैः शीतैः
प्रलेपयेत् । अथवा किंशुकपियालसर्जतिन्दु कीनां त्वग्भिः कल्कपिष्टाभिर्घृतगु-
डयुक्ताभिः प्रलेपयेत् । (*एतां त्वचं संस्कृत्य कृतवेधनत्वचा सम्यक्संक्षुद्य
द्विगुणेनाम्भसा सहाधिश्रयेत् । अर्धावशिष्टेन चानेन क्वाथेन घृतं पक्त्वा तेन
पानमभ्यङ्गं च दद्यात् । पूर्वमेव घृतेनाभ्यज्य शोणितमोक्षणं च कुर्यात् ।
मोक्षितशोणितस्य च पलाशसर्जार्जुनतिन्दुकपसनमधूकामलकविभीतकातिनिस-
- धनुराकारमध्यस्थपाठः कपुस्तके न ॥
१ क. सर्वस्य शो० । २ क. पूर्वैः । ३ क. ०रसनियो० । ४ क. सोष्मणाऽ-
नु० । ५ क. शून्यो । ६ क. ०पभुङ्क्ते ।
१७. शोफाध्यायः ] हस्त्यायुर्वेदः । १२५
(श)प्रियालानां त्वग्भिः कल्कापिष्टाभिः प्रलेपनं कारयेत् ।) हरिद्रायष्टहधूमल-
शुनसैन्धवपिप्पलीमरिचशृङ्गवेरतगरसर्षपकुष्ठबृहतीफलैः प्रतिचूर्णनं कारयेत् ।
विश्रा(स्रा)व्यमाणे रक्ते शाल्योदनं मुद्गयूषेण घृतस्निग्धेन भोजयेत् । क्षीरिणां
च वृक्षाणां कडंगराण्योदकानि च यवसानि मधुररसान्वितानि मृदुहरितान्य-
नूपजानि दद्यात् ॥
तत्र श्लोकः-
एवं रक्तात्मजे कर्म श्वयथौ परिकीर्त्तितम् ।
यच्च पित्तात्मजे प्रोक्तं कार्यं तदपि भेषजम् ॥
इति रक्तशोफः ॥
अथ वक्ष्यामि वै शोफमुत्पन्नं वातशोणितात् ॥
विशेषेणोपलक्ष्येत स गात्रेष्वपरेषु च ॥ १ ॥
अम्लादिभोजनाद्रौक्ष्यादुष्णादत्यन्तभोजनात् ॥
अकस्मात्सततस्थानाद्रात्रिविक्षोभणक्रमात् ॥ २ ॥
पतनाच्चैव नागानां कुप्येते वातशोणिते ॥
शोफः संजायते तेन तँस्मात्तु गुरुवेदनाः ॥ ३ ॥
पादस्तम्भश्च नागस्य संधिविश्लेष एव च ॥
अत्यर्थं चैव दौर्बल्यं न चाऽऽहाराभिनन्दनम् ॥ ४ ॥
विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम् ॥
रक्तो वा यदि वा श्यामः शोफः समुपजायते ॥ ५ ॥
तेनातिवेदना वाऽपि स तु मांसाश्रयो भवेत् ॥
प्रपौण्डरीकं कटुकां सारिवे द्वे तथैव च ॥ ६ ॥
मञ्जिष्ठां त्रिफलां चैव पयसा सह पी(पे)षयेत् ॥
ततो घृतविमिश्रेण शोफं कल्केन लेपयेत् ॥ ७ ॥
गोधूमचूर्णमथवा संसृष्टं पयसा सह ॥
अजाक्षीरेण संयुक्तं तस्य लेपं तु कारयेत् ॥ ८ ॥
(*तालीशपत्रं मांसी च दाडिमं कुष्ठमेव च ॥
द्वे हरिद्रे पृथकपर्णी मञ्जिष्ठा पद्मकेसरम् ॥ ९ ॥
* धनुराकारमध्यस्थपाठः कपुस्तके न ।
१ क. प्रतिचूर्णं । २ क. ॰भाणं रक्तशा॰ । ३ ख. ग. पित्तात्मके । ४ क. यस्मात्तु । ५ क. रोगाश्रयो । ६ ग. पाययेत् ।
) तु (5,) सं (6, G) यो (7, G) जेत् (8, G).
Wait, what is the letter between सं and जेत्?
It is यो? Look at the top matra: it has an e-matra slant to the left and an aa-matra to the right?
No, it looks like सं य्ने जे त्? Wait! Look at संयोजयेत्?
Let's look at line 6:
पिप्पली सैन्धवं चैव तु(त्रि)वृद्वया तथैव च ॥ (8 + 8 = 16)
Line 7:
पी(पे)षयेत्कल्कपिष्टानि गोमूत्रेण तु संयोजेत् ॥ १२ ॥ -> wait, is it संयोजेत् or संयोजयेत्?
Let's look at the characters:
स॑ (sa with anusvara)
next: य्र॑? It has a vertical line, a loop, and a subscript... wait, संयुजेत्? य with ु = यु. But it has an े on ज: जे! And त् at end.
Wait, is it संयोजेत्? Look at यो: य + ो? No,
१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२७
पित्तशोफे मया राजन्यदुक्तं लिङ्गभेषजम् ॥
तत्सर्वं यत्नतो विद्यादभिघाते चिकित्सकः ॥
इत्यागन्तुशोफः ॥
श्वयथुर्विषसंसृष्टो यस्य नागस्य जायते ।
(*तस्य मन्त्रौषधैः कार्यः पूर्वोद्दिष्टैः क्रियापथः ॥ १ ॥
क्षीणशोणितमांसस्य श्वयथुर्यस्य जायते ।)
यथाऽग्निबृंहणं तस्य सम्यग्भवति साधनम् ॥ २ ॥
मन्यागतं श्लेष्मशोफं सांनिपातिकमेव च ॥
वातावेच्छिन्नशोफं तु स्वेदैः पूर्वं समाचरेत् ॥ ३ ॥
अनन्तरं प्रेञ्छ(प्रोञ्छ)पित्वा प्रतिसंचूर्णयेत्ततः ॥
पानभोजनमप्यस्य लवणाम्लं विवर्जयेत् ॥ ४ ॥
आहारैस्तिक्तकटुकैः कषायैः समुपक्रमेत् ॥
पाश्र्वाण्डकोशं नाभिं च येन संछाद्य तिष्ठति
१२८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
यस्य क्षीणस्य नागस्य ) शोफो भवति पादतः ।
विच्छिन्नः कठिनो रूक्षः शुद्धं रक्तं श्र(स्र)वत्यपि ॥
न चात्यर्थं विषहते शीतमूष्णं च वारणः ।
शाल्मलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत् ॥
उत्पद्य च विगच्छेद्वो विगत्य पुनरेति च ।
कपोलपायुमन्यासु शोफः सोऽपि न जीवति ॥
एकाङ्गं सू(शू)यते यस्य न च खादितुमिच्छति ।
स्थाने स्तम्भवशश्च स्यान्न स जीवति तादृशः ॥
यस्य मन्ये च नाभिश्च जघनं मेढ्रमेव च ।
पेचकश्चापि वर्धन्ते न स जीवति तादृशः ॥
अण्डकोशः सनाभिस्तु यस्य वर्धेत वेगतः ।
उरश्शांसौ च सहसा विगत्य प्रतिपद्यते ॥
सगले च यदा प्राप्तः स शोफो यस्य हस्तिनः ।
तदा तेन स शोफेन मासादूर्ध्वं न जीवति ॥
(*क्षीणशोणितमांसस्य वर्धमानस्य हस्तिनः ।
अष्ठीव्यः सहसा सोऽपि मासादूर्ध्वं न जीवति ॥)
मन्योर्यस्य लक्ष्येत श्वयथुर्जलचञ्चलः ।
दौर्मनस्यं च सहसा सोऽष्टरात्रं न जीवति ॥
अश्मना सह तुल्यस्तु श्वयथुर्जायते नृप ।
वङ्क्षणौ बस्तिमाश्रित्य ( *दाहरागसमन्वितः ॥
वर्धते चापि जलवत्समन्ताद्बहुवेदनः ।
नवाहाद्वारणस्तेन शोफेनाऽऽर्तो विपद्यते ॥
कर्णसंधि समाश्रित्य ) श्वयथुर्यस्य जायते ।
वेदनागाढबहुलो विवृद्धिमुपगच्छति ॥
ग्रासं न सेवतेऽत्यर्थं मुहुरुद्विजते द्विपः ।
प्राप्तशोफः स मातङ्गो दशाहं नातिवर्तते ॥
भूयिष्ठं यस्य गात्रेषु शोफो नागस्य जायते ।
अग्निदग्धानिभैः स्फ
१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२९
श्वयथुस्तस्य नागस्य विसर्पति समन्ततः ।
अथवा नीलरक्ताभैः श्वेतैर्वाऽपि समन्ततः ॥
यवोदकप्रकाशैश्च साश्रा(स्रा)वैर्बहुवेदनैः ।
ततस्तला विशीर्यन्ते विकापार्ष्णिर्नखैः सह ॥
तमीदृगलक्षणं नागं भिषग्विद्याद्गतायुषम् ।
ऐष्टिकाप्रतिसंकाशः श्वयथुर्गुरुवेदनः ॥
*वङ्क्षणैरसिरन्धे च सोऽपि कष्टतरः स्मृतः ।
इति शोफाः समाख्याता ये न शक्याश्चिकित्सितुम् ॥
न तानुपचरेज्जाताञ्शोफान्दृष्ट्वा चिकित्सकः ।
अथ ²विलापनम् ॥
करवीरतगरकुष्ठकिरातकला³ङ्गलीगवेधुकशाल्मलीजाङ्गुलकपित्थाङ्कोल्लवि-
ल्वहरिद्राद्वयपुनर्नवामलककालौकाकादनावार्ण्टी⁴(ति)न्दुकभद्रदारुसरलरास्ना-
प्रियङ्गुशतपुष्पाभिष(:)कल्कपिष्टाभिर्बहलमनुलेपयेत् । एतैरेव सुखोष्णैः क्षार-
लवणकिण्वसंयुक्तैः पाचनभेदनानि योगवित्कुर्यात् । वर्धमानानां शोफानां यथा-
योगं चतुर्विधैः शस्त्रैर्व्रीहिमुखोत्पलपत्रकुठारकवत्सदनतैश्च रक्तमपनयेत्, जलू-
कालाम्बुशृङ्गैर्वा । शार्ङ्गेष्टाविडङ्गलवणचूर्णैश्च प्रतिचूर्णनं कारयेत् । वातकोपस-
मुत्थे पित्तसमुत्थे पिप्पलीसैन्धवलवणैः समभागसंयुक्तैः प्रतिचूर्णनं कारयेत् ।
विश्रा(स्रा)व्य चैनं घृतेन शतधौतेनाभ्यञ्जयेत् । कटुकरोहिणीमरिचलवण-
चूर्णैः सर्षपमिश्रैः कफात्मकमवचूर्णयेत् । एतैरेवौषधैर्यथोक्तैः सांन्निपातिकमु-
पाचरेत् ॥
तत्र श्लोकः-
करोति शिथिलं शोफं दोषं च समुदस्यति ।
दाहस्य चाऽऽयतिं हन्ति तस्मादु(द्र)क्तं प्रमोक्षयेत् ॥
अनेनोपक्रमेणैते शोफाः ५प्रशान्तिमुपगच्छन्ति । इत्येतेषु षट्सु शोफेषु
यथासात्म्यप्रकृतिदेशकालबलाबलं वयश्चावेक्ष्य शोणितमोक्षणं कुर्यात् ॥
शोणिते वर्धिते चैव बलं तेजश्च वर्धते ।
शोणिते क्षीयमाणे तु क्षीयन्ते सप्त धातवः ॥
- 'वङ्क्षणोरसि' इति स्यात् ।
१ ख. इतिका० । २ ग. विलेपनम् । ३ क. ०लाद० । ४ क. ख.
०टिण्टूक० । ५ क. ०नेन प्रत्युपशोक० ।
१७
१३० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
देहिनां शोणितं विद्धि प्राणायतनवर्धनम् ।
मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् ॥
ये चैषां प्रलेपा उद्दिष्टाः, तैश्च यथायोगं यथादोषं वारणमामुखनखेभ्यः
प्रलेपयेत् । शस्त्रकर्मोपजातांश्च व्रणान्प्रभेदनसमुत्थांश्च द्विव्रणीयोपचारेणोपक्र-
मेत । शोफानां च शैथिल्यं दोषाणामपकर्षणं दाहोपशमश्च भवति रक्तमोक्षात्,
तस्माच्छोणितमोक्षणं कुर्यात् । द्रोणीकशोफस्य निदानं लक्षणं चिकित्सितं
च स्थाने द्वितीये वक्ष्यामः । तत्र श्लोकाः—
शोफस्य द्विविधा सिद्धिरिति मे निश्चिता मतिः ।
विलीयते वाऽप्यङ्गे च ✝व्रणीभूत्वाऽथ शाम्यति ॥
तस्मादालेपनैः स्वेदैः प्रच्छन्नाभ्यञ्जनैरपि ।
अनुगन्तुं शनैः सम्यक्प्रयतेत चिकित्सितुम् ॥
आहारांश्च विहारांश्च यथास्वं च क्रियापथम् ।
शोफानां नाशने राजन्यथाशास्त्रं प्रयोजयेत् ॥
अधिकारस्तु कर्तव्य आत्मनः सिद्धिमिच्छेता ।
असाध्यं वर्जयेच्चैव साध्यं च समुपाचरेत् ॥
अल्पो वृत्तश्च कठिनो ग्रन्थिरित्यभिधीयते ।
पृथुदीर्घश्च शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥
इति शोफाः समुद्दिष्टा ये न शक्याश्चिकित्सितम् ।
न तानुपक्रमेत्प्राज्ञः शोफान्दृष्ट्वा चिकित्सकः ॥
दह्यते पैत्तिकः शोफश्चलो भवति वातिकः ।
श्लैष्मणां तु स्थिरीभूतः समाध्मातश्च शीतलः ॥
संसृष्टः सर्वरूपेण सांनिपातस्य लक्षणम् ।
योगवाही परं वायुः संयोगादुभयार्थकृत् ॥
दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रयात् ।
गतिर्वातं विना नास्ति गौरवं न कफादृते ॥
न च पित्तादृते पाको विसर्पो वाऽपि विद्यते ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
शोफाध्यायोऽष्टादशः ( यः सप्तदशः ) ॥ १७ ॥
✝ ‘व्रणीभूय’ इति तु युक्तम् ॥
१ ग. °यनेन चि° । २ क. °च्छति ॥ अ° । ३ क. वृक्षश्च । ४ क. श्लेष्मणं ।
स्वेदाध्यायः ] हस्त्यायूर्वेदः । १३१
अथाष्टादशोऽध्यायः ।
भूयोऽङ्गराजः प्रोवाच पालकाप्यम्—'भगवन््ये त्विमे द्विरदपतयो वातश्ले-
ष्मविकारैः सगदामन्यास्तम्भाद्रोणीकावच्छन्नगात्रापरहस्तग्रहोत्कर्णकस्तम्भा-
दिभिः पीड्यन्ते बहुविधवेदनागुरुत्वादुश्चिकित्स्या दृश्यन्ते तेषामुपशमनाथं
कतिविधः स्वेदः, कः स्वेदोपचारः, तथा रक्तपित्तविकारे वक्रविकारेषु बहुवि-
धोपयोगाच्छीतक्रियाविधिश्चेह भगवता विकल्पिताः, तेषां कथमसम्यक्स्विन्ना-
तिस्रिन्नानां लक्षणं विज्ञेयं भवति । कथं स्वेद्याश्च हस्तिनो विज्ञेयाः । कः स्वेद-
कालः, के च ते स्वेदगुणाः । एतत्सर्वं भगवन्वक्तुमर्हसि ॥
ततः प्रोवाच भगवान्पालकाप्यः—इह खलु भो(ना)गानामनेकविधाः स्वेदाः ।
तद्यथा—वापीस्वेदः, भङ्कस्वेदः, शं(सं)करस्वेदः, फालस्वेदः, पिण्डस्वेदः, नाडी-
स्वेदः, स्नेहस्वेदः, पुरापस्वेदः, कूपस्वेदः, घटीस्वेदः, अस्थिस्वेदः, मांसस्वेदः,
मृत्तिकास्वेदश्चेति । तेषामुपचारं वक्ष्यामः ॥
तत्र वापीस्वेदः वापीमपि विधायाऽऽयामविस्तारैर्यथाहस्तिप्रमाणां सुखावतारां
दृढतरां खानयेत् । तामिष्टकाभिर्दृढतटीं कारयेत् । एतामच्छिद्रां बन्धयेत् । सुधो-
पलिप्तां कृत्वा तत्र तोयं प्रक्षिपेत् । संपूर्णतोयामग्निवर्णैश्च लोहगुडपाषाणैः पानीयं
तापयित्वा वारणं श्वयथुपीडितमवगाह्य पत्रभङ्गानेतान्प्रक्षिपेत् । अशोककरवी-
रवशिरवमुस्कानखण्डशः कल्पयित्वा शल्लकीश्वकनिर्गुण्डीमधुकवासन्तीबृहत्पं-
थुमतीपृष्टिपर्णीगोक्षुरकशोभाञ्जनकधुशिग्रै सुरसारोहीतकार्क बिल्वाग्रिमन्थवर्षा-
भूद्वपशतावरीकुवेराक्ष्यपेहिवातारलुककुलिङ्गाक्षीनीपासनधातकीकर्णिकारकपिर-
त्थास्फोताश्वकर्णनवमालिकापाटलाश्रीपर्णीखदिरारग्वधाटरूषक अजकर्णतर्कारी-
शौर्यकार्शमन्तकपलाशटिण्टु (तिन्दु)कानाम्, एवमादयो ये— चान्ये वातघ्ना वृक्ष
गणाः, तेषां च पत्रभङ्गैस्तिलपिष्टलवणकिण्वसंयुक्तैः सुखोष्णैर्वारणमभ्यज्य
वाप्यां परिषेचयेत् । ततो यथायोगं स्वेदयेत् । लोहगुडपाषाणांश्च भूयो भूयोऽ-
म्रिवर्णीन्कृत्वा स्विद्यमाने मातङ्गे वाप्यां प्रक्षिपेत् । तस्मादेष वापीस्वेदः ॥
एतानेव पत्रभङ्गानकपालभृष्टान्कृत्वा तत्र वालुकाः प्रक्षिपेत् । तत एवमेव
च पत्रभङ्गानकपालभृष्टवालुकागर्भान्सुखोष्णान्कृत्वा पाणिभ्यां पुनः पुनः परि-
मार्जयेत्स्वेदयेत् । ततोऽभ्यज्य सगदामन्योःकण्ठगलकपोलगात्रस्तम्भा न्य-
थायोगं वा लिप्त्वा भङ्कस्वेदेन स्वेदयेत् । तस्मादेष भङ्गस्वेदः कार्यः ॥
१ ग. °तदोषैर्विका°। २ क. °हुवे° । ३ ग. °तत्क्रिया° । ४ क. °मुसिर°।
५ क. °मम्बुक्ष्य वा° ।
बहलमनुलेपयेत् । सगदावच्छिन्नमन्यास्तम्भोत्केर्णक-
द्रोणीकशोफांश्च पिण्डस्वेदवदुपचरेत् । उपचारमं(व)न्तं संकरस्वेदेन स्वेद-
येयुः । तस्मादेष संकरस्वेदः कार्यः ॥
त्रपुस(ष)शणमूलकैरण्डबीजानि सिद्धार्थकतिलपिष्टलवणकिण्वमाषाणां
चूर्णानि सुरया पयसा वा सार्धं कृत्वा तेन सुखोष्णेन वारणमभ्यज्य बहल-
मनुलेपयेत् । ततः पदान्तरितं कृत्वैरण्डकपत्रैः परिच्छाद्य तमग्निवर्णैः फालैः
समन्तात्परिवारयंस्ततः कटिचरणगात्रापरस्तब्धाङ्गानि च यथायोगं फाल-
स्वेदेन स्वेदयेत् । तस्मादेष फालस्वेदः कार्यः ॥
माषातसीतिलपिष्टलवणकिण्वयवकोलकुलत्थगोधूममूलकैरण्डशणकर्पासी-
बीजानि त्रपुसर्षपसरलभद्रदारुकुष्ठतगरशतपुष्पायष्टी
स्वेदाध्यायः ] हस्त्यायुर्वेदः १३३
कृत्वा किण्वलवणतिलपिष्टसंयुक्तैर्दध्यम्लकथितैः सुखोष्णैर्वारणमभ्यज्य यथा-
योगं पिण्डस्वेदवदुपचारयन्तः पुरीषस्वेदेन स्वेदयेयुः ॥
पूर्वोद्दिष्टांश्च पत्रभङ्गान्संहृत्योदकानां च पत्रभङ्गानां भारचतुष्टयमुदूखले
क्षोदयित्वा दुग्धे पाचयेत् । वस्त्रे बहुले प्रक्षिप्य प्रियङ्गुशालिगोधूमव्रीहियवात-
सीकुलत्थनिष्पावानां चूर्णानि पयसाऽऽलोड्य कुप्यं । ततोऽग्निवर्णं कृत्वा
पिण्डस्वेदवदुपचारयन्तः कुप्यस्वेदेन स्वेदयेयुः ॥
घटीस्वेदेऽप्यग्निवर्णां घटीं कृत्वा स्वभ्यक्तं ततः पूर्वोद्दिष्टैर्द्रव्ययोगैर्बहुलमनु-
लिप्य नागं पटावेच्छन्नान्तरितं फालस्वेदविधिवदुपचारयन्यथायोगं घटीस्वेदेन
स्वेदयेत् ॥
पूर्वोद्दिष्टानां च खरकरभसत्त्वानां तुरगमहिषाश्वतरवराहाणामस्थीनि कल्क-
पिष्टानि कृत्वा तिलपिष्टलवणकिण्वदध्यम्लार्कसंयुक्तैर्वाऽभ्यज्य बहुलमनुलेप-
येत् । ततः पटान्तरितं कृत्वा फालस्वेदविधिमुपचारयन्तो यथायोगमस्थिपि-
ण्डस्वेदेन स्वेदयेयुः ॥
पिण्डस्वेदवत्तेषामेव सत्त्वानां मांसानि संहृत्य सुखोष्णैर्मांसपोटलैः पूर्ववि-
धिवदुपचारयन्तो यथायोगं मांसस्वेदेन स्वेदयेयुः ॥
पूर्वोक्तैः पत्रभङ्गैर्मृत्तिकां संयोज्य वारणमभ्यज्य यथायोगं पिण्डस्वेदवदुप-
चारयन्तो मृत्तिकास्वेदेन स्वेदयेयुः ॥
तत्र श्लोकाः—
तत्रानेकविधः स्वेदः सोपचारः प्रकीर्तितः ।
यथाशास्त्रं यथाव्याधि प्रयुञ्जानस्य सिध्यति ॥
यैस्त्वेतानविपरीतांस्तु कुर्यात्स्वेदान्नराधिप ।
न सिद्धिमाप्नुयाद्वैद्यो व्यापादयति वारणम् ॥
तस्मादेतच्छ्रुतवता तथा जीर्णेन भेषजम् ।
बन्धुस्नेहोपयुक्तेन कर्तव्या वारेण क्रिया ॥
एवं स्वेदविधिज्ञश्च प्रयोगज्ञश्च यो भवेत् ।
वरिष्ठश्चैव वैद्यानां पूजनीयः सदा भवेत् ॥
समासाच्च पञ्च स्वेदास्तेषां भेदास्त्रयोदश ॥
अतः परं स्वेदगुणान्वक्ष्यामः । शरीरमार्दवकरो मृदुं प्रस्तम्भयति, स्तब्धं
विलापयति ग्रन्थिभेदः शोफहरो वातानुलोमनकरः क्रियासु सर्वोत्तभः पाच-
नीयेषु पाचनकरः, सर्ववातकफव्याधिहरश्चेति । यथा काष्ठमस्नेहयोगेन
१ ग. °वच्छिन्ना° । २ ग. यस्त्वतो विप° ।
१३४ पालकप्यमुनिविरचितो- [ १ महारोगस्थाने-
स्त्रिद्यमानं विनाशं न गच्छति, तथाहि शरीरं द्रव्यरसैर्युक्तं स्नेहयोगेन
स्त्रिद्यमानं विनाशं गच्छति । यथा स्त्रिद्यमानमस्निग्धं काष्ठं विनाशं गच्छति,
तथाहि शरीरं स्त्रिद्यमानमस्निग्धं विनाशं गच्छति । तस्माद्भूयो भूयोऽभ्यक्तं
नात्युष्णे नातिशीतले काले पूर्वाह्ने वारणं स्वेदयेत् । यथा च दोषाः स्नेह-
स्वेदैः प्रद्रवीभूताः श्रोतोमुखमापन्नाः शस्त्रैरपिहार्या भवन्ति ॥
यदा स्वेदेन स्विन्नगात्रं परिस्पन्दनमनवस्थितं मार्दवं लघुता वेदनारोगनि-
ग्रहश्चेति, तं सम्यक्स्विन्नमिति विद्यात् ॥
छचिस्फोटनं दाहं शोफं मांसपाकः शोणितमो(मे)हित्वं रोमवालाश्च शीर्यन्ते
शय्यानभिनन्दी नाभिनन्दति, तृष्णा मूर्च्छा चास्य भवति, तमेतैर्लिङ्गैरति-
स्विन्नं विद्यात् ॥
न विकारप्रशमः, दोषान्नप्रच्यवन्ते च्युता वा सीदन्ति, तीव्रा च वेदना
गात्राणां परं मार्दवं गुरुगात्रगमनं चेति तमस्विन्नं विद्यात् ॥
तस्मादस्विन्ने हितं शस्त्रमविचारयेत् । दुःस्विन्ने न व्याधेरुपशमो भवति ।
अतिस्विन्ने च प्रदेहः । पद्मकिंजल्कोशीरक्षीरवृक्षकषायैः पयोदधिमधुसंयुक्तैः
सचन्दनैः शीतैश्चान्यैश्च शतधौतेन सर्पिषाऽभ्यज्य नागं परिषेचयेत् । शीतश्च
प्रदेहः कर्दमशीरसंयुक्तैः सशिरस्कमा नखं बहलमनुलेपयेत् । शिरस्थांश्चोदकु-
म्भान्परिस्रावयेत् । यवसकुवलभक्तानि शीतानि दापयेत् । स्थानं च सुशीतं
वा प्रवातं कुर्यात् । पित्तमूर्च्छायां यदुक्तं तत्सर्वं योजयेत् । अस्विन्ने पुनः स्वेदे
च यथेच्छं विधिवद्विप्रकुर्यात् । शोणितमोक्षणं च पैत्तिकोत्तरं वारणं मेदुरिणं
स्थूलोच्छ्वासं धातुक्षीशं मण्डलिदष्टं विषजग्धं लालाश्रा(स्रा)विणं कृमिकोष्ठिन-
मतिनीतं च हस्तिनीं गर्भिणीं षड्वर्षपूर्णांश्च विकारान्न स्वेदयेयुः । तथाऽभि-
घातसमुत्थः श्वयथुः प्रमादात्स्वेदकारणात्, गात्रस्तम्भो विह्वलगमनं चेति तं
निष्कम्पं विज्ञाय ततः शीतैः प्रदेहैरुपक्रमेत ततः शोणितावश्रा(स्रा)वं वापी-
स्वेदं वा यथायोगं पुनर्दद्यात् ॥
यदा तु कफपवनसमुद्भवेन व्याधिना पीड्यते नागः, तदाऽस्य तीक्ष्णोष्ण-
कटुपत्रभङ्गाव्यामिश्रेण तोयेन स्वेदः परिषेकश्च कार्यः । तस्माद्व्याधिशमे
स्वेदपरिषेकोपचारादत्यर्थं वारणस्य पित्तमुदीर्यते । तस्य लक्षणं वमथर्मुहुर्मु-
हुरतिमात्रं परिक्षिपति परिदह्यते मारुतैर्वीज्यमानः प्रसादमपगच्छति । एवं
स्वेदः परिषेकश्च शीतलश्च कार्यः । ततः संपद्यते सुखी वारणः ॥
तत्र श्लोकः-
१ ग. च्यवन्ता । २ ग. पुनर्न दद्यात् ।
शान्तिरक्षाध्यायः ] हस्त्यायुर्वेदः । १३५
व्याधिशमनाःसर्वे)सर्वेषां हस्तिनां हिताः ।
कालं देशं च विज्ञाय ततः स्वेदं प्रयोजयेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
*स्वेदाध्यायः ॥
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् ॥
भगवन्दन्तिनां ह्येते पाकका दश कीर्तिताः ॥ १ ॥
उपसर्गेण जायन्ते सर्वजास्त्विति मे मतिः ॥
वज्राशनिसमस्पर्शाः पाककाश्च महामुने ॥ २ ॥
आशुकारितराश्चैव सदाप्राणहराश्च ते ॥
पाकलेनाभिभूतस्य वारणस्य महामुने ॥ ३ ॥
रक्षोघ्नैर्भोजनैर्गुप्तं बलिहोमक्रियादिभिः ॥
पुरस्कृत्य ततश्चापि क्रियां कुर्वीत शास्त्रवित् ॥ ४ ॥
इति प्रोक्तं भगवता पाकले वालसंज्ञके ॥
तत्सर्वमखिलेनेह वक्तुमर्हसि तत्त्वतः ॥ ५ ॥ .
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
इमं विधिं प्रकुर्वीत श्रेयोर्थे भिषजां वरः ॥ ६ ॥
सामान्ययज्ञं निर्वर्त्य भूयः सुप्रयतो भिषक् ॥
रत्नैर्बीजैः फलैः पुष्पैर्देवानभ्यर्च्य यत्नतः ॥ ७ ॥
ब्राह्मणान्भोजयित्वा तु दक्षिणाभिश्च तर्पयेत् ॥
श्वेतां वा कपिलां वाऽपि सवत्सां गामलंकृताम् ॥ ८ ॥
श्वेतचन्दनदिग्धाङ्गीं श्वेतमाल्यविभूषिताम् ॥
रौप्यशृङ्गीं स्वर्णखुरीं सवस्त्रां कांस्यदोहिनीम् ॥ ९ ॥
आरोग्यकारिणीं वैद्यो ब्राह्मणाय प्रदापयेत् ॥
देवताभ्यर्चनेनैव ब्राह्मणानां तथाऽऽशिषा ॥ १० ॥
क्षिप्रं प्रमुच्यते रोगाद्वारणो नात्र संशयः ॥
अत ऊर्ध्वं प्रवक्ष्यामि रक्षाकर्मविधिं च ते ॥ ११ ॥
श्वेतां प्रतिशिरां चैव श्वेतामपि वचां तथा ॥
दन्ते निबन्धयेद्वैद्यो मन्त्रेणानेन मन्त्रवित् ॥ १२ ॥
- अयमध्यायः प्रायः शोफाध्यायाङ्गभूतः, अतो नास्य पृथग्गणनेति प्रतिभाति ॥
१ क. ॰घ्नैर्भोज॰ ।
१३६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
धृतिः स्मृतिश्च मेधा च रक्षा शान्ति स्त्वमेव च ॥
( *त्वं सिद्धिस्त्वं जया लक्ष्मीः श्रीस्त्वं दुर्गा सरस्वती ॥१३॥
ग्रहणरूपाणि यामीहं भूमौ दिवि चराणि च ॥
तेषां तु प्रतिघातार्थं रक्ष त्वं वारणं सदा ॥ १४ ॥
अत ऊर्ध्वं प्रवक्ष्यामि बलिकर्मविधिं शुभम् ॥
भवेदहतसंवीतो वैद्यः सुप्रयतः शुचिः ॥ १५ ॥
सर्वगन्धैश्च माल्यैश्च रत्नैर्बीजैः फलैरपि ॥
मस्तकेऽम्पलपिच्छामि(?)मधुना पायसेन च ॥
घृतेन भर्जितैर्दभ्रा शुष्कमांसैस्तथैव च ॥
संयावमाल्यमैरेयैः सुरयां तु वलिर्भवेत् ॥ १७ ॥
(*सामान्ययज्ञं निर्वर्त्य भूयस्तु प्रयतो भिषक् ॥
रत्नैर्बीजैः फलैः पुष्पैः पूर्णान्प्रतिसरान्वितान् ॥ १८ ॥
चतुरः कलशांश्चैव वारिपूर्णान्सर्वजोजन (?) ॥
वारणस्य तु दन्ताभ्यां स्वावरोहमदक्षिणेत् (?) ॥ १९ ॥
भूयो निवेशयेद्वैद्यो मन्त्रेणानेन मन्त्रवित् ॥
देवराक्षससर्पाश्च पिशाचा·गुह्यकास्तथा ॥ २० ॥
निशाचराटवेयाश्च नित्यं तु रक्षन्तु वारणम् ॥
नवग्रहा जलधरा दानवाः पर्वतास्तथा ॥ २१ ॥
अन्तरिक्षगता ये च मुनयो वनदेवताः ॥
ओषधयो ग्रहनक्षत्रा गजं रक्षन्तु देवताः ॥ २२॥
व्याधिप्रशमनं नित्यं कुर्वन्तु द्विरदाय च ॥
दीर्घमायुर्बलं वीर्यं प्रदिशन्त्विह पूजिताः ॥ २३ ॥ )
एवं कृत्वा विधिं सर्वं व्याधिप्रशमनं हितम् ॥
रक्षोघ्नं भोजनं दद्यान्मन्त्रेणानेन मन्त्रवित् ॥ २४ ॥
पुरोडाशं यथा देवा आज्यं वा हुतभुग्यथा ॥
तथा पवित्रं रोगघ्नं भोजनं भुङ्क्ष्व वारण ॥ २५ ॥
भोजयित्वा यथान्यायं प्रदेशकुशलो भिषक् ॥
तत्सर्वं विधिवत्कार्यं यदुक्तं वारणग्रहे ॥ २६ ॥
- धनुराकारमध्यस्थो नास्ति पाठो गपुस्तके ॥
१ क. ॰ह दिवि भूमौ चरणं तथा । ते॰। २ क. ॰र्जितो दभ्रा॰। ३ क. ॰या
वलिर्भवे॰ । ४ क. ज्ञात्वा ।
शान्तिरक्षाध्यायः ] हस्त्यायुर्वेदः । १३७
(※बलिं च कलशांश्चैव सर्वांस्तोये विनििक्षिपेत् ॥
कृतेनानेन विधिना पाकलात्तु विमुच्यते ॥ २७ ॥
औषधानां च सर्वेषां मन्त्रं वक्ष्यामि भूपते ॥
यत्किंचिदौषधं नस्ये पाने च कवले तथा ॥ २८ ॥
प्रलेपने च देयं स्यात्तत्सर्वमभिमन्त्रयेत् ॥
रसायनमिवर्षीणाममराणामिवामृतम् ॥ २९ ॥
सुधैवोत्तमानागानां भेषज्यमिदमस्तु ते ॥
दद्यादनेन मन्त्रेण सर्वमेवाभिमन्त्रितम् ॥ ३० ॥ )
अतः परं प्रवक्ष्यामि भूतिकर्मविधिं शुभम् ॥
रोगिणेऽरोगिणे वाऽपि भूतिं दद्याद्भिषग्वरः ॥ ३१ ॥
पवित्रान्सर्वरोगघ्नाञ्छृणु सत्यान्गुणानिमान् ॥
न राक्षसा न गन्धर्वा न पिशाचा न चोरगाः ॥ ३२ ॥
न यक्षा न च भूतानि रुद्रा रौद्रास्तु देवताः ॥
हिंसात्मकास्तथा चान्ये क्षराद्या व्याधयस्तथा ॥ ३३ ॥
क्रुधा धर्षयितुं शक्ता भूत्या नागं विभूषितम् ॥
कपोलयोस्तथा कुम्भे निर्याणे दन्तवेष्टयोः ॥ ३४ ॥
पक्षयोः प्रतिमाने च कक्षायां वंशयोरपि ॥
द्विपस्यैतेषु चाङ्गेषु देयं भस्म सदा बुधैः ॥ ३५ ॥
व्याधिताव्याधिता वाऽपि भूषिता भस्मना सदा ॥
सुखं निद्रां निषेवन्ते निर्विशङ्का मतङ्गजाः ॥ ३६ ॥
यथा हि शशिनं दृष्ट्वा पद्मं संकोचमृच्छति ॥
भूत्या विभूषितान्दृष्ट्वा ग्रहास्तद्वन्महीपते ॥ ३७ ॥
तदेव पद्मं सूर्यस्य विकसेद्धि यथोदये ॥
तथा ग्रहा गदाश्चापि दृष्ट्वा नागं विभूषितम् ॥ ३८ ॥
पूजिता मुनिभिर्नित्यमारोग्यबलवर्धिनी ॥
सौमनस्यकरी चैव भूतिर्देया हितार्थिना ॥ ३९ ॥
अभिमन्त्र्य महाराज मन्त्रेणानेन मन्त्रिणा ॥
भूतिरक्षा शुभा मेध्या स्मृतिर्मेधा धृतिः श्रुतिः ॥ ४० ॥
- धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
१ क. ॰न्तचेष्ट॰ । २ क. मन्त्रवित् ।
१८
१३८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
श्रीर्ह्रीः कान्तिः क्षमा दुर्गा पार्वती पुष्टिरुत्तमा ॥
स्वाहा शान्तिः सुधा चैव लोकधात्री त्वमेव हि ॥ ४१ ॥
अम्बिका हसते नित्यं भूतराक्षससेविते ॥
श्मशाने भस्मलिप्ताङ्गः क्रीडते वृषभध्वजः ॥ ४२ ॥
वृतः सर्वैर्महाभूतैः सत्यं भूतेव तेजसः ॥
अनेन सत्यवाक्येन वारणं रक्ष सर्वतः ॥ ४३ ॥
वृक्षत्वाच्च ततस्तेन भूषयेद्वारणं सदा ॥
पूर्वोक्तेष्वेव भागेषु वैद्यः सततमुत्थितः ॥ ४४ ॥
स्वस्थं तु रोगिणं चैव तस्मान्नित्यं विभूषयेत् ॥
शालाद्वारे तथा स्तम्भे शय्याभागे तथैव च ॥ ४५ ॥
आरोग्यकरणी नित्यं भूतिर्देया हितार्थिना ॥
सततं च प्रकुर्वीत शान्तिं स्वस्त्ययनानि च ॥ ४६ ॥
गुणा ये कीर्तिता भूत्यास्तांस्तेर्वैच उलक्षयेत् (?) ॥
पाकलेषु यथोद्दिष्टं भेषजं यत्क्रियाविधौ ॥ ४७ ॥
तत्सर्वं यत्नतः कुर्यादेवं रोगात्प्रमुच्यते ॥
सर्वेष्वेव तु रोगेषु नित्यं शान्तिं प्रयोजयेत् ॥ ४८ ॥ १०४२ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने
*शान्तिरक्षाध्यायः ॥
अथ कदाचिद्गजशरणमभिगतमृषिवरमनलसदृशवपुषमभिवाद्यार्घ्यं तस्मै
प्रदायाङ्गो रोमपादः पप्रच्छ पालकाप्यम्—भगवन्विपुलबलसत्त्वशरीरवर्मप्र-
माणानां गिरिशिखरजलदनिचयवपुषां गजानाम् 'नयनविनाशात्सर्वविनाशः'
इति कृत्वाऽनुमान्य प्रचोदयामि भगवन्तम्—इच्छामि विज्ञातुं कति कथं वा
भवन्ति नेत्ररोगाः साध्या असाध्या याप्याश्चेति ॥
अथ ऋषिरुवाच—राजन्विंशतिरिह गजानां नेत्ररोगा भवन्ति। ते द्विधा—
दोषसंभवा आगन्तवश्चेति । तेषां संख्यां निदानं संभवं च श्रोतुमर्हसि भवान्॥
तत्र स्वप्रतिभाराध्वगमनाद्वधबन्धनैः शिरसि ताडनादतिकर्मतः प्रतिसूर्य-
- एषोऽध्यायः प्रायः पाकळाध्यायशेषभूतः । अतः संग्रहाध्यायेऽस्य गणना
न कृता । अत्रास्य लेखफलं न स्फुटम् ॥
१ क. कीर्तिः । २ क. पुष्टिवर्धनी । ३ क. भूत्येव । ४ क. ॰वल॰ । ख.
॰वलक्ष॰ । ५ क. ॰तुमिच्छत्यहं॰ ।
स्थानाध्वगमनाद्विद्युन्निपातदर्शनाद्दीप्ताग्निदर्शनावभिघातादनशनादत्यशनाद्वि-
षमविरुद्धरूक्षभोजनाद्वातरोधिरकफपित्तसंनिपातप्रकोपात्प्रादुर्भवन्ति नयनरोगा
गजानाम् । (*तेषां नामानि तद्यथा-प्रावारकी, औदकी, अण्डाक्षः, काचाक्षः,
नायंमेशी, प्रतिनुन्नः, निष्पेषहतः, विद्युन्निपातहतः, विद्युद्वारिहतः, ऊष्मापरि-
गतः, वर्त्मक्लिष्टः, श्रो(स्रो)तोन्धः, बुद्बुदः, अक्षिपाकः, पटलाक्षः, दण्डाक्षः,
मुङ्गः, मुङ्गजालः, लोहिताक्षः, पिटकाक्षश्च, इत्येते विंशतिश्चक्षूरोगाः प्रोच्यन्ते
गजानाम् ॥
ते षडाश्रयाः—वर्त्मभागसंधिभागशुक्लभागकृष्णभागदृष्टिभागसर्वंनयना-
श्रिताश्चेति । तत्र—बुद्बुदी पटलाक्षः प्रावारकी वर्त्मक्लिष्टः पिटकारूपो वर्त्मा-
श्रिताः । मुङ्गमुङ्गजालौदकीरक्ताख्याः संध्याश्रिताः । शुक्लभागाश्रितोऽ-
ण्डाक्षः । काचाक्षनायंमेशिणौ कृष्णभागाश्रितौ । विद्युद्वारिहतोष्मापरिगत-
श्रो(स्रो)तोन्धा इति दृष्ट्याश्रिताः । अक्षिपाकविद्युन्निपातहतदण्डाक्षप्रतिनु-
न्नान्निष्पेषहताः सर्वंनयनाश्रिताः ॥
अतः , परं नेत्रजोतिदृष्टिजात्यसाध्यासाध्यनयनव्याधिनिदानसाधनानि
व्याख्यास्यामः॥
तत्र कलविङ्कमणिमार्जारवराहवायसवानरनकुलिसंश्वदाक्षपरिदग्धविच्छिन्न-
पिङ्गलाक्षम्रक्षहर्यक्षहुताशार्चिःप्रभृतयो नेत्रजातयः ॥
विस्तीर्णसूक्ष्मविच्छिन्नतिर्यग्गूढार्धोगतवृत्तानुकृत्तप्रभृतयो दृष्टिजातयः ॥
तत्र—सितमसितं नीलं विगतोष्माश्रुनिर्गमनि(ः)स्रुततारकाण्यसाध्यान्य-
क्षीणि भवन्ति ॥
तत्र प्रावारक्या उत्पत्तिं निदानं चिकित्सितं च वक्ष्यामः ॥
विषमविरुद्धकषायभोजनान्मतिसूर्याध्वगमनाच्छिरसि च मिथ्यादण्डाङ्कु-
शाभ्यां ताडनान्निःसारतया वा नेत्राणां पवनः स्थानाच्चुतः कफपित्ते ह्युर्ध्वमा-
पादयति नयनयोः । तस्य चक्षुः प्रावृणुते तेन प्रावारकी, ॥
तस्या निदानम्—खरकठिनरक्ता कण्डूपिच्छिलपरिश्रा(स्रा)वि च नयनं
भवति । अथ च नयनं सलिलवत्पर्यश्रु भवति ॥
*धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
१ ख. ॰पातानुप्र॰ । २ क. ॰सर्वे न॰ । ३ क. ॰क्लिष्टपिटकाख्या व॰ ।
४ क. ॰जातिर्दृष्टं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा॰ । ख. ॰जातिं दृष्टिं
जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा॰ । ५ ख. ॰यः ॥ अवि॰ । ६ क. तस्य ।
१४० पालकप्यमुनिविरचितो— [ १ महारोगस्थाने-
भैषज्यमस्य—पूर्वापरपरिक्षिप्तस्याविलस्य दन्त(न्ता)लानि तस्य *दन्तोदो-
नेऽतिबद्धस्य चतुर्भिर्बडिशैर्नेत्रं निर्वृत्य नेत्रमांसचयं शलाकया विद्ध्वा शस्त्रेण
च्छित्त्वा दोषापचयमपनयेत् । ततश्चैनं सैन्धवचूर्णेन मधुसर्पिर्भ्यां पूरयित्वा
वस्त्रपट्टेन बध्नीयात्त्र्यहम् । त्र्यहात्परं चास्य मुक्तनेत्रस्योदुम्बरामलक्यश्मन्तका-
वटप्ररोहार्जुनधात्रीत्वग्भिः सह कदलीफलशालूकानि संक्षुद्य सलिले रात्रिं वास-
येत् । ततः परिषेकं कुर्यात् । अथवा प्रियङ्गुमञ्जिष्ठादेवदारुत्रिफलाक्षीरेणाऽऽ-
ज्येन संयोज्य वस्त्रपरिश्रु(स्रु)तमाश्र्योतनं कारयेत् । अथवा त्रिफलारोध्रमधुकम-
त्स्यण्डिकैरान्तरिक्षोदकसंयुक्तैरेवाऽऽश्च्योतनम् । अथवा—चतुरङ्गुलमूलैडगजफलैः
सह कल्कपिष्टैराजाक्षीरसंयुक्तैर्घृतमण्डं विपाच्य नस्यं तर्पणं चाक्ष्णोः कुर्यात् ।
(†ततो दृष्टिशुद्धिः, व्याधेरुपशमश्च भवति । अथवा—दन्तीङ्गुदीवेणुनलश-
रीषश्यामाश्वेतासमुद्रफेनवैटूर्यशङ्खकाचसर्जसैः सह पेषयेत् । ततः सर्पिः-
क्षौद्रसंयुक्तैरक्षयेत् । मुहूर्ते चातीते निर्वापणार्थमक्ष्णोः परिषेकं पयसा कुर्यात् ।)
अथवा—प्रियङ्गुतगरहरीतक्यामलकविभीतकहरिद्राशार्ङ्गनीश्वेतानलमूलानि
कल्कपिष्टान्याज्येन पयसाऽञ्जनम् । एतेनाक्षिणी प्रकृतिस्थे भवतः ॥
इति प्रावारकी ॥
विषमविरुद्धशिशिरगुरुकटुकषायरूक्षभोजनात्, व्यायामात्, व्यवायात्,
अत्यध्वगमनात्, गुरुभारहरणतरणविहरणात्, अतिभोजनाच्च कुप्यति पवनः
करिणः । (परिकुपितः सः ) तस्य शिराभिरूध्वं प्रपन्नोऽस्रं विकारमापाद-
यति ॥
ततो वर्णच्छफेनिलमजस्रं श्र(स्र)वति, अक्षि च रूक्षश्यावाभ्रवर्णं भवति ।
तम् "औदकी" इत्याचक्ष्महे ॥
तस्य प्रशमनार्थं बृहतीमूलोशीरकल्कसंयुक्तं पयो निक्षिप्य दधि कृत्वा
तन्मथ्नीयात् । अथोद्धृत्य नवनीतं मञ्जिष्ठारोहिणीपुनर्नवाहरिद्राभिः सह सम्प-
क्त्वापचयेत् । सिद्धं शीतीभूतं तन्नेत्रयोः सततं परिषेचनं नस्यं च सम्यग्दद्यात् ।
त्रिफलामधुरोध्रशणबीजहरिद्राप्रपौण्डरीकैरन्तरिक्षोदकसंयुक्तैः परिषेकं कुर्यात् ।
परिषेकेनानेन नीरोगनयनो दृढदृष्टिश्च भवति वारणः । अथवा हस्तिनं पन्न-
यित्वा त्रिभिर्दिवसैर्नयनं विवृत्य मांसोपचयं बडिशेनोत्क्षिप्य शलाकया विद्ध्वा
- 'दन्तोपान्तेऽतिबद्धस्य' इति भवेत् । † धनुराकारमध्यस्थः पाठो नैव कपुस्तके ।
१ ख. °द्दानोऽति° । २ क. °मूलैः स° । ३ क. °न्याज्येन । ४ क.
°मायाति । ५ ख. °ञ्जिष्ठां रो° ।
१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । १४१
ततोऽस्य दृष्टिभागं वर्जयित्वा सैन्धवचूर्णैश्च सूक्ष्मपिष्टैः पूरयित्वा मधुसर्पि-
भ्यामवस्थापयेत् ॥
इत्यौदकी ॥
शीतकषायकटुतिक्तरूक्षभोजनात्, रात्रिजागरणादिभिः प्रकुप्यति पवनः ।
स प्रकुपितो नेत्रयोरापन्नः करनयनमुखेभ्यः श्रा(स्रा)वयति प्रसक्तमुष्णमम्भः ॥
तेनाक्षि दर्शनं न कुरुते । कुक्कुडाण्डसंस्थानां च नीलपीतश्यामावर्णानामन्य-
तमेन युक्तां पिटिकां जनयति । राजिभिश्च हरितश्यामाभिरावृतनेत्रो भवति ।
तम् 'अण्डाक्षम्' इति विकारं विद्यात् ॥
चिकित्सितमस्य—तं च पटलमेभिरौषधैरनुलिप्य प्रियङ्गुपद्मकमधुकताली-
सपत्रकालानुसारीरोध्रैः कल्कपिष्टैः क्षीरमासिच्य कलसे व्यवस्थाप्य (*रजन्यां
प्रातः प्रमथ्य नवनीतमुद्धृत्य चन्दनह्रीवेरमधुककालानुसारिकल्कैः सार्धं पचेत् ।
साधुसिद्धमपहृत्य शीतीभूतं नेत्रयोस्तर्पणम्। ततोऽस्य माषपिष्टेन समन्तात्साधु
परिचार्य वाक्सहस्रं सार्धं वाऽक्षि(क्ष्णि) क्षीरपरिषेचनं कुर्यात् । अथास्योदुम्ब-
रशिलाटूनि मधुकरोध्रप्रपौण्डरीकहरिद्राम्रिफलाभिर्जर्जरीकृत्य नवघटे स्थित-
मान्तरिक्षोदकेन रात्रि पर्युषितेन च नेत्रयोः परिषेचनं कुर्यात् । एतैरुपक्रमवि-
शेषैरण्डाक्षः प्रशममुपगच्छति ॥
इत्यण्डाक्षः ॥
अथ गुरुभारगमनवधबन्धप्रतिसूर्यस्थानाध्वगमनादश्मलोष्टशराधानवतां
पथां मर्दनाद्वा मिथ्या शिरसि दण्डाङ्कुशाभ्यामभिघातादतिप्रवातस्थानाद्रक्त-
पवनकफपित्तसंनिपातानां प्रकोपात्पर्यश्रुता भवति ॥
अथ नयनमनिलदोषात्परिशुष्कवर्त्मरक्तरूक्षपर्यन्तं घृष्यमाणमिव शर्क-
राभिर्मन्दोष्मा श्रु विसृजति । भवति च शिशिरजलनिषेवणादतिगुरुवेदनम्,
पित्तोपद्रवात्परिदह्यते नयनमप्रपरिगतवद्भवति । भवति च पीतरक्तारुणानां
वर्णानामन्यतमवर्णम्, विसृजति तोयमुष्णमजस्रम् । सूर्योदये बलवती चास्य
वेदना भवति । रक्तोपद्रवाद्वक्ताभिष्यन्दि च भवति । कफोपदद्रवान्नयनं प्रलम्बत
इव शूनपर्यन्तं शिशिरपिच्छिलपरिश्रा(स्रा)वि गुरुदृष्टि पाण्डुतारकं पटल-
- कपुस्तके धनुराकारमध्यस्थः पाठस्त्रुटितः । प्रत्युत विद्युद्वारिहतप्रकरणस्थः
'बहिरक्षणोः'—इत्यादि, 'भोजयेच्चैनं मृगवराहं कुक्कुटमहिषमांसरससंयुक्तं शाल्योदनं'
इत्यन्तः पाठोऽस्ति ।
१ क. ॰ट्कति॰ ।
१४२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
विकारि भवति । नागस्य सर्वदोषोपद्रवात्सर्वलिङ्गममुपक्रमाच्चास्य दृष्टिरुपह-
न्यते काचपटलाभ्यां तं 'काचारूपम्' इत्याचक्ष्महे ॥
चिकित्सितमस्य—तं निवातमगारं प्रवेश्य शीतकषायशीतपटेन प्रच्छन्नन-
यनमवस्थापयेत् । अथाजस्रं परिषेचनैर्विगतनयनोष्मणश्चास्य कुर्यादेतेन विधि-
नाऽञ्जनम् । लशुनसमुद्रफेनसैन्धवबृहतीपिप्पलीः पृथक्पृथक्पेषयित्वा मधुकफ-
णिञ्जकरस्कान्सनीलामलकगोपित्तैर्मधुसंयुक्तैरर्धमासस्थितमौदुम्बरे पात्रे सूक्ष्म-
पिष्टां गुलिकामक्षमात्रां कृत्वाऽञ्जनमभीक्ष्णशः कुर्यात् । अथवा—श्रो(स्रो)-
तोञ्जनसैन्धवविडङ्गहरिद्रामधुसंयुक्तंश्लेष्मञ्जनमुपदिशेत् । उच्छन्नदृढप्ररूढस्य
काचपटलस्य शस्त्रेण लेखनं कृत्वा शतधौतेन घृतेन पूरयेत् । अथ विशुद्धन-
यनमुपरूढव्रणं चैनमनुषेचयेत् । ततः पञ्चमूल्योर्निष्क्वाथेन मधुरगणविपक्केन
सर्पिर्मण्डेन भोजयेत् । अथैनं मृगतित्तिरिलावकानां मांसरसेनाऽऽव्याधिप्रमोक्षा-
च्छाल्योदनं भोजयेत् । अथ वैद्यो द्विरदं प्रसन्ननयनमुपरूढव्रणं दर्शयेन्नरेन्द्राय ॥
इति काचाक्षः ॥
अथ नायंप्रेक्षी । रात्रिजागरणादत्यध्वगमनादतिभारोद्वहनात्सलिलतरणा-
त्क्षयाच्च रेतसः; दौर्बल्यादतिप्ररोधाच्च कटुकषायविषमविरुद्धभोजनाच्च वातः
प्रकोपमापन्नो नयनवहा शिरा निरुणद्धि ।
ततोऽस्य दृष्टिः प्रच्छाद्यतेऽस्वच्छरूपा च भवति । उच्चैः पादान्विहरति ।
संज्ञया यातारमनुव्रजति । नायं प्रेक्षत इति नायंप्रेक्षी ।
अथास्य भेषज्यम्—तगरमधुकचन्दनैर्घृतमिश्रैर्धूपयेत् । पर्यागतान्यामला-
कानि पिष्ट्वा क्षीरं च कलसे समावाप्य दधि जातरसं प्रमथ्य नवनीतमुद्धृत्य
पचेत् । चन्दनह्रीवेरमधुककालानुसार्यहरिद्रामञ्जिष्ठारोहिणीपुनर्नवाकल्केः
साधुसिद्धमपहृत्यानुषेचनं कुर्यात्, नस्यकर्म च । तस्य च मधुघृतसमभाग-
संयुक्तं त्रिकटुकमधुकपिष्टमञ्जनं भासास्थिकेशकांस्यरजतकुक्कुटाण्डकपालान्ये-
कस्थं कृत्वा पेषयेत् । ततः शुद्धताम्रकपाले निहितं पिहितमन्तर्धूमां मिषीं
कारयेत् । ततस्तया वाजिमूत्रपिष्टया विहितमञ्जनं साधयेन्नायंप्रेक्षी वारण इति ।
तत्र श्लोकः—
एतेन विधिना वैद्यः पटुर्लघुपराक्रमः ।
साधयेद्दृष्टकर्मा च नायंप्रेक्षाख्यमामयम् ॥
इति नायंप्रेक्षी ॥
प्राजनाङ्कुशशलाकाकाष्ठाभिघातादतिकण्डूयनात्प्रतितोदनाच्च प्रतितुन्नः
प्रादुर्भवति ।