सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 156, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 156

शान्तिरक्षाध्यायः ] हस्त्यायुर्वेदः । १३७
(※बलिं च कलशांश्चैव सर्वांस्तोये विनििक्षिपेत् ॥
कृतेनानेन विधिना पाकलात्तु विमुच्यते ॥ २७ ॥
औषधानां च सर्वेषां मन्त्रं वक्ष्यामि भूपते ॥
यत्किंचिदौषधं नस्ये पाने च कवले तथा ॥ २८ ॥
प्रलेपने च देयं स्यात्तत्सर्वमभिमन्त्रयेत् ॥
रसायनमिवर्षीणाममराणामिवामृतम् ॥ २९ ॥
सुधैवोत्तमानागानां भेषज्यमिदमस्तु ते ॥
दद्यादनेन मन्त्रेण सर्वमेवाभिमन्त्रितम् ॥ ३० ॥ )
अतः परं प्रवक्ष्यामि भूतिकर्मविधिं शुभम् ॥
रोगिणेऽरोगिणे वाऽपि भूतिं दद्याद्भिषग्वरः ॥ ३१ ॥
पवित्रान्सर्वरोगघ्नाञ्छृणु सत्यान्गुणानिमान् ॥
न राक्षसा न गन्धर्वा न पिशाचा न चोरगाः ॥ ३२ ॥
न यक्षा न च भूतानि रुद्रा रौद्रास्तु देवताः ॥
हिंसात्मकास्तथा चान्ये क्षराद्या व्याधयस्तथा ॥ ३३ ॥
क्रुधा धर्षयितुं शक्ता भूत्या नागं विभूषितम् ॥
कपोलयोस्तथा कुम्भे निर्याणे दन्तवेष्टयोः ॥ ३४ ॥
पक्षयोः प्रतिमाने च कक्षायां वंशयोरपि ॥
द्विपस्यैतेषु चाङ्गेषु देयं भस्म सदा बुधैः ॥ ३५ ॥
व्याधिताव्याधिता वाऽपि भूषिता भस्मना सदा ॥
सुखं निद्रां निषेवन्ते निर्विशङ्का मतङ्गजाः ॥ ३६ ॥
यथा हि शशिनं दृष्ट्वा पद्मं संकोचमृच्छति ॥
भूत्या विभूषितान्दृष्ट्वा ग्रहास्तद्वन्महीपते ॥ ३७ ॥
तदेव पद्मं सूर्यस्य विकसेद्धि यथोदये ॥
तथा ग्रहा गदाश्चापि दृष्ट्वा नागं विभूषितम् ॥ ३८ ॥
पूजिता मुनिभिर्नित्यमारोग्यबलवर्धिनी ॥
सौमनस्यकरी चैव भूतिर्देया हितार्थिना ॥ ३९ ॥
अभिमन्त्र्य महाराज मन्त्रेणानेन मन्त्रिणा ॥
भूतिरक्षा शुभा मेध्या स्मृतिर्मेधा धृतिः श्रुतिः ॥ ४० ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥
    १ क. ॰न्तचेष्ट॰ । २ क. मन्त्रवित् ।
    १८