हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 142, कुल 742 में से
संदर्भ में पढ़ें१७ शोफाध्यायः ] हस्त्यायुर्वेदः । १२३
विषाः कल्कपिष्टाः शृगालमकरशिशुमारशशकमांसैः स्नेहं पाचयित्वा प्रलेप-
येत् । अथवा प्रपौण्डरीकदेवदारुपद्मोत्पलकुमुदकह्लारसुनिषण्णककुवलयता-
मरसैः क्षीरपिष्टैर्घृतयुक्तैः प्रलेपयेत् । चन्दनोशीरसारिवाकुशमूलधत्तूरैः क्षीर-
पिष्टैः सर्पिःस्निग्धैः प्रलेपयेत् । अथवा--पद्मकोशीरमधुकशृङ्गाटकेक्षुवालिका-
नलनलिनकुमुदकदलीमूलैः कुवलयकरवीरोत्पलकह्लारवर्धनमानकवेतसक्षीरवृ-
क्षसुनिषण्णकैः क्षीरपिष्टैर्दधिसंयुक्तैः सततमनुलेपनं कारयेत् । शिरस्थांश्च
यथायोगं नवान्कुम्भान्वारिपूर्णान्परिश्रा(स्रा)वयेत् । जलाद्रैश्च तालवृन्तै-
र्वीजयेत् । पूर्वाह्ने चैनं मधुशर्करातुगाक्षीरीकाकोल्यादिसिद्धं सर्पिः पाययेत् ।
गात्राण्यस्याभ्यञ्जयेत् । पिचुमन्दमेलककुशगडूच्यारग्वधपटोलीशतावरीमृद्वी-
काश्च संहृत्य जलद्रोणेऽपि विपाच्य चतुर्थागावशिष्टं क्वाथं सशर्करं पाययेत् ।
शाल्योदनं लावतित्तिरिक्रकरकेर्कुटकपिञ्जलानां रसेन घृतयुक्तेन भोजयेत् ।
पृश्निपर्ण्यंशुमतीफणिज्जकसारिवानिर्यूहपकेन वा मुद्गयूषेण घृतस्निग्धेन भोज-
येत् । स्थानं चास्य शीताभिरद्भिः सेचयेत् । नानाविधसुरभिकुसुमोपकीर्णां
च शालां कारयेत् । यवसान्यस्मै हरितमृदूनि मधुरविपाकानि दद्यात् । बहि-
श्चास्य शालायाः शय्याभागं कारयेत् । न वाचं कटुकां ब्रूयात् । न चैनं
प्राजनाङ्कुशदण्डैरभिहन्यात् । मनश्चास्य वंशवीणादिभिर्गीतघोषैश्च प्रसादयत् ।
ब्राह्मणानि सामानि पाठयेत् ।
तत्र श्लोकः-
तीव्रो ह्येष भृशं व्याधिः श्वयथुः पित्तसंभवः ।
तस्माद्यत्नेन वैद्यस्तु रोगमेनं प्रसाधयेत् ॥
इति पित्तशोफः ॥
अथ शिशिरमधुभोजनादातपोगाद्व्यायामाच्च कफः संप्रवृद्ध आध्मातमिव
कठिनघनशीतसूक्ष्मांवयुक्तं श्वयथुमुपजनयति ॥
स पाण्डुः शीतः स्निग्धो महान्कठिनश्च भवति । ततस्तेन व्याप्तः संभवति
गण्डूभिः स्निग्धसंस्थानैः स्तब्धगात्रोऽप्रहृष्टरोमा स्वप्रशीलश्च भवति वारणः ।
तस्य कण्डूरत्यर्थं भवति । उष्णमभिनन्दति । शीतद्वेषी भोजनं नाभिनन्दति
गम्भीरवेदी च भवति ॥
तस्य चिकित्सितं व्याख्यास्यामः । कटुतिक्तकषायतक्ष्णोष्णानि भोजनानि
१ क. ॰मृदिनीम्॰ । २ क. ॰कुक्कुट॰ । ३ क. शालानां । ४ क. ॰तिरोगा॰ ।
५ ख. ॰यन्ति । स ।