हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 144, कुल 742 में से
संदर्भ में पढ़ें१७. शोफाध्यायः ] हस्त्यायुर्वेदः । १२५
(श)प्रियालानां त्वग्भिः कल्कापिष्टाभिः प्रलेपनं कारयेत् ।) हरिद्रायष्टहधूमल-
शुनसैन्धवपिप्पलीमरिचशृङ्गवेरतगरसर्षपकुष्ठबृहतीफलैः प्रतिचूर्णनं कारयेत् ।
विश्रा(स्रा)व्यमाणे रक्ते शाल्योदनं मुद्गयूषेण घृतस्निग्धेन भोजयेत् । क्षीरिणां
च वृक्षाणां कडंगराण्योदकानि च यवसानि मधुररसान्वितानि मृदुहरितान्य-
नूपजानि दद्यात् ॥
तत्र श्लोकः-
एवं रक्तात्मजे कर्म श्वयथौ परिकीर्त्तितम् ।
यच्च पित्तात्मजे प्रोक्तं कार्यं तदपि भेषजम् ॥
इति रक्तशोफः ॥
अथ वक्ष्यामि वै शोफमुत्पन्नं वातशोणितात् ॥
विशेषेणोपलक्ष्येत स गात्रेष्वपरेषु च ॥ १ ॥
अम्लादिभोजनाद्रौक्ष्यादुष्णादत्यन्तभोजनात् ॥
अकस्मात्सततस्थानाद्रात्रिविक्षोभणक्रमात् ॥ २ ॥
पतनाच्चैव नागानां कुप्येते वातशोणिते ॥
शोफः संजायते तेन तँस्मात्तु गुरुवेदनाः ॥ ३ ॥
पादस्तम्भश्च नागस्य संधिविश्लेष एव च ॥
अत्यर्थं चैव दौर्बल्यं न चाऽऽहाराभिनन्दनम् ॥ ४ ॥
विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम् ॥
रक्तो वा यदि वा श्यामः शोफः समुपजायते ॥ ५ ॥
तेनातिवेदना वाऽपि स तु मांसाश्रयो भवेत् ॥
प्रपौण्डरीकं कटुकां सारिवे द्वे तथैव च ॥ ६ ॥
मञ्जिष्ठां त्रिफलां चैव पयसा सह पी(पे)षयेत् ॥
ततो घृतविमिश्रेण शोफं कल्केन लेपयेत् ॥ ७ ॥
गोधूमचूर्णमथवा संसृष्टं पयसा सह ॥
अजाक्षीरेण संयुक्तं तस्य लेपं तु कारयेत् ॥ ८ ॥
(*तालीशपत्रं मांसी च दाडिमं कुष्ठमेव च ॥
द्वे हरिद्रे पृथकपर्णी मञ्जिष्ठा पद्मकेसरम् ॥ ९ ॥
* धनुराकारमध्यस्थपाठः कपुस्तके न ।
१ क. प्रतिचूर्णं । २ क. ॰भाणं रक्तशा॰ । ३ ख. ग. पित्तात्मके । ४ क. यस्मात्तु । ५ क. रोगाश्रयो । ६ ग. पाययेत् ।