सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 152, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 152

स्वेदाध्यायः ] हस्त्यायुर्वेदः १३३
कृत्वा किण्वलवणतिलपिष्टसंयुक्तैर्दध्यम्लकथितैः सुखोष्णैर्वारणमभ्यज्य यथा-
योगं पिण्डस्वेदवदुपचारयन्तः पुरीषस्वेदेन स्वेदयेयुः ॥
पूर्वोद्दिष्टांश्च पत्रभङ्गान्संहृत्योदकानां च पत्रभङ्गानां भारचतुष्टयमुदूखले
क्षोदयित्वा दुग्धे पाचयेत् । वस्त्रे बहुले प्रक्षिप्य प्रियङ्गुशालिगोधूमव्रीहियवात-
सीकुलत्थनिष्पावानां चूर्णानि पयसाऽऽलोड्य कुप्यं । ततोऽग्निवर्णं कृत्वा
पिण्डस्वेदवदुपचारयन्तः कुप्यस्वेदेन स्वेदयेयुः ॥
घटीस्वेदेऽप्यग्निवर्णां घटीं कृत्वा स्वभ्यक्तं ततः पूर्वोद्दिष्टैर्द्रव्ययोगैर्बहुलमनु-
लिप्य नागं पटावेच्छन्नान्तरितं फालस्वेदविधिवदुपचारयन्यथायोगं घटीस्वेदेन
स्वेदयेत् ॥
पूर्वोद्दिष्टानां च खरकरभसत्त्वानां तुरगमहिषाश्वतरवराहाणामस्थीनि कल्क-
पिष्टानि कृत्वा तिलपिष्टलवणकिण्वदध्यम्लार्कसंयुक्तैर्वाऽभ्यज्य बहुलमनुलेप-
येत् । ततः पटान्तरितं कृत्वा फालस्वेदविधिमुपचारयन्तो यथायोगमस्थिपि-
ण्डस्वेदेन स्वेदयेयुः ॥
पिण्डस्वेदवत्तेषामेव सत्त्वानां मांसानि संहृत्य सुखोष्णैर्मांसपोटलैः पूर्ववि-
धिवदुपचारयन्तो यथायोगं मांसस्वेदेन स्वेदयेयुः ॥
पूर्वोक्तैः पत्रभङ्गैर्मृत्तिकां संयोज्य वारणमभ्यज्य यथायोगं पिण्डस्वेदवदुप-
चारयन्तो मृत्तिकास्वेदेन स्वेदयेयुः ॥
तत्र श्लोकाः—
तत्रानेकविधः स्वेदः सोपचारः प्रकीर्तितः ।
यथाशास्त्रं यथाव्याधि प्रयुञ्जानस्य सिध्यति ॥
यैस्त्वेतानविपरीतांस्तु कुर्यात्स्वेदान्नराधिप ।
न सिद्धिमाप्नुयाद्वैद्यो व्यापादयति वारणम् ॥
तस्मादेतच्छ्रुतवता तथा जीर्णेन भेषजम् ।
बन्धुस्नेहोपयुक्तेन कर्तव्या वारेण क्रिया ॥
एवं स्वेदविधिज्ञश्च प्रयोगज्ञश्च यो भवेत् ।
वरिष्ठश्चैव वैद्यानां पूजनीयः सदा भवेत् ॥
समासाच्च पञ्च स्वेदास्तेषां भेदास्त्रयोदश ॥
अतः परं स्वेदगुणान्वक्ष्यामः । शरीरमार्दवकरो मृदुं प्रस्तम्भयति, स्तब्धं
विलापयति ग्रन्थिभेदः शोफहरो वातानुलोमनकरः क्रियासु सर्वोत्तभः पाच-
नीयेषु पाचनकरः, सर्ववातकफव्याधिहरश्चेति । यथा काष्ठमस्नेहयोगेन
१ ग. °वच्छिन्ना° । २ ग. यस्त्वतो विप° ।