गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
१८० गर्भाधानविधिः। [ २ प्रपाठके
यावन्मात्रेण बीजेन गर्भोभवति तावन्मात्रमेव प्रक्षेपयत्वित्यर्थः । किञ्च 'धाता'
सर्वस्य प्रसविताऽऽदित्योमध्यस्थानदेवता (निघं० ५।५।६ ) 'ते' तव 'गर्भ'
पुत्रार्थ 'न्दधातु' स्थापयतु(१) ॥ ६ ॥
पूर्वामावा(२)स्या सिनीवालिः ( दृष्टेन्दुः ) सा प्रार्थ्यतेऽस्या अतिशुभलक्ष-
ण(३)प्रेप्सया । हे 'सिनीवालि' अस्यां वध्वां 'गर्भन्धेहि' वन्ध्यात्वमस्या अप-
नयेत्यर्थः । तथा हे 'सरस्वति' त्वमप्यस्यां 'गर्भन्धेहि' त्वदनुध्यानादस्या गर्भोवि-
द्वत्प्रकाण्डं भवितेत्यर्थः । हेवधु ! 'ते' तव 'गर्भम्' 'देवौ' दीप्त्यादिगुणवन्तौ
'अश्विनौ' सूर्याचन्द्रमसौ । द्यावा(४)पृथिव्यावहोरात्रे वा ( निघं० ५।६।१ )
'आधत्ताम्' त्वदात्मनास्थित्वा समाधत्तामिति बृहदारण्यकभाष्यव्याख्याया-
मानन्दगिरिः । कथम्भूतौ ? 'पुष्करस्रजौ' 'पद्ममालिनौ । इति गुणविष्णुः ।
स्वकीयरश्मिमालिनावित्यानन्दगिरिः ॥ ९ ॥
समाप्यर्चौ सम्भवतः ॥ १० ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि·प्र·स्य पञ्चमी कण्डिका ॥ २ ॥ ५॥*॥
समाप्येति । ऋग्द्वयानन्तरमेवा(५)भिगच्छेदित्यर्थः । यदि दैवादिनाऽत्र मु-
ख्यकालातिपत्तिः स्यात्तत्राह—गृह्यसंग्रहकारः—
“ऋतुपुंसवने दैवात्स्वकाले न कृते यदि ।
सीमन्तकरणात्पूर्वं कृत्वा सीमन्तमाचरेत् ॥”
इति । ऋतु-गर्भाधानम् (६) । कात्यायनः—
“देवतानां विपर्यासे जुहोतिषु कथम्भवेत् ।
सर्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः ॥
( १ ) लोटाशंसायाम् ॥
( २ ) “या पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः” इति श्रुतिः ॥
( ३ ) इन्दुदर्शनी सा शुभलक्षणलक्षिताति तदधिष्ठातृदेवता प्रार्थ्यते ॥
( ४ ) अत्र द्यौर्ज्योतिषाऽश्नुतेव्याप्नोति । पृथिवीरसेनान्नलक्षणेनेत्यश्विनौ । अश्वे
र्विनिः । एवमहर्ज्योतिषा, रात्रिश्चस्यायेन । सूर्य्योज्योतिषा चन्द्रमा रसेन । ह्लादादि-
ना वा । इत्यश्विनौ पदव्याख्यायां देवराजयज्वानः प्राहुः ॥
( ५ ) ऋचौ समाप्य सम्भवत एव न पुनरन्तरा किञ्चित्कुर्यात् । इति कालार्थं वच-
नव्यक्तिः कर्त्तव्या । तेन पूर्वत्र सूत्रितोऽभिमर्शोऽपि ऋचोः परतो न स्यात्किन्तु तत्पाठ-
समकालमेवेति सिध्यति ॥
( ६ ) अस्य पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्होतव्यम् । “अग्नेस्तु मारुतोनाम
गर्भाधाने विधीयते”इति गृह्यसङ्ग्रहोक्तेर्नामकरणेनैवाग्नेराहुतिरुपतिष्ठते । तत्र च
नियमतोव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच्चोक्तः ( १-९-२७ ) एव ॥
६ कण्डिका ] गोभिलगृह्यसूत्रे- १८१
संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन ।
हुत्वैतदेव कर्त्तव्या ये तूपनय(१)नादयः ॥” इति ॥
सर्वप्रायश्चित्तं-व्याहृति होमः । शाट्चायनहोम इति वीरेश्वरः । क्रमेणेति ।
यतोविपर्यासस्तत एवेत्यर्थः । तदुक्तं तेनैव-
“यतस्तदन्यथाभूतं तत एव समापयेत्” ।
इति । एतदेव सर्वप्रायश्चित्तमेव । एतदादौ वृद्धिश्राद्धे प्रमाणमुक्त-
पूर्वमिति ॥ १० ॥
( इति गर्भाधानम् )
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”ख्यायां मुकुन्दशर्म्मसङ्कलितायां
द्वि०प्र०स्य पञ्चमी कण्डिका ॥ २ ॥ ५ ॥ * ॥
( अथ षष्ठी कण्डिका )
( अथ पुंसवनम् )
तृतीयस्य गर्भमासस्यादिसद्देशे पुँसवनस्य कालः ॥१॥
गर्भोयस्मिन्मासि जायते सोऽयङ्गर्भमासस्तस्य यस्तृतीयोमासः । सम्बन्ध-
लक्षणा षष्ठी तृतीयोयोगर्भमासः । गर्भादारभ्य यस्तृतीय इति वा व्याख्येयम् ।
तस्य । आदिसद्देशे-अदि-समीपप्रदेशे प्रथमे तृतीयभाग इत्यर्थः । एतस्मिन्काले
यत् पुण्यमहस्तत्पुंसवनस्य कालः । तथाच पारस्करोऽपि “मासि द्वितीये तृतीये
वा ऽऽपूर्यमाणपक्षे(२) पुण्याहे । यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते” इति ।
अत्र द्वितीय इति वाजसनेयिमात्रपरमिति मुरारिमिश्राः । आपूर्यमाणपक्षे-
शुक्लपक्षे । पुण्याह इति पुण्ये शोभने विष्ट्यादिरहिते दिने इत्यर्थः । पुंसा नक्ष-
त्रेण-पुन्नामधेयेन हस्तपुष्यादिना । पुंसवनस्य पुमान्सूयते येन कर्म्मणा तदिदं
पुंसवनं गर्भसंस्कारकर्म्मणोनामधेयम् । अनेन हि कर्म्मणाऽव्यक्तलिङ्गं गर्भं
पुमांसङ्करोति “पुंसवनात्पुंसी करोति”ति श्रवणात् । अत्र कालातिपाते प्राय-
श्चित्तमुक्तमधस्तादनुपदम् ॥ १ ॥
प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु पश्चादग्रेषु दर्भेषु
प्राच्युपविशति ॥ २ ॥
( १ ) एतेन चूडाकरणपर्यन्तमेव सर्वप्रायश्चित्तहोमः प्रायश्चित्तम् । उपनयनातिपाते
तु व्रात्यस्तोमः शास्त्रान्तरे पठ्यते । स एव प्रायश्चित्तं दोषगुरुत्वादित्यभिप्रायः ॥
( २ ) अत्र यस्मिञ्छुक्लपक्षे तिथिक्षयो(अवमं) न भवेत्सोऽपि आवश्यकतया वोच्यते।
१८२ पुंसवनविधिः । [ २ प्रपाठके
प्रातरुदयसन्निधौ(१) उत्तराग्रेषु कुशेषूपविश्य । सशिरस्काऽऽप्लुता । शिरः
स्नाता वधूः । पत्या संस्कृतस्याग्नेः पश्चादुत्तराग्रेषु कुशेषु प्राङ्मुखी उप-
विशेत्पत्युर्द्दक्षिणतः । “दक्षिणतः पाणिग्राहस्योपविशती”-त्यन्यत्र दर्शनात् ।
एवम् उपविष्टायान्तस्यां व्याहृतिहोमान्तङ्कर्म कुर्यात्पतिः ॥ २ ॥
पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंᳪसमन्व-
वमृश्यानन्तर्हितन्नाभिदेशमभिमृशेत् “पुमांᳪसौ
मित्रावरुणा” वित्येतयर्चा ॥ ३ ॥
( मं० ब्र० १।४।८ )
पश्चात्-पृष्ठदेशे अवस्थाय-प्राङ्मुख ऊर्ध्वजानु.स्थित्वा 'दक्षिणम् अंसम्
भुजशिरः (अंशः) “स्कन्धोभुजशिरोंसोऽस्त्री”-त्यमरः। तूष्णीम्(२)। अन्वव-
मृश्य । पृष्ठतोऽन्ववलम्ब्य स्पृष्ट्वा । अनन्तर्हितम् । अव्यवहितम् (वस्त्राद्यना-
च्छादितम्) अभिमृशेत्-स्पृशेत् । “पुमांᳪसावि”त्येतयर्चा, सा यथा—
“पुमांᳪसौ मित्रावरुणौ पुमांसावश्विनावुभौ ।
पुमानग्निश्च वायुश्च पुमान्गर्भस्तवोदरे” ॥ ८ ॥ इति ।
अस्या अर्थः । अत्र साकाङ्क्षत्वाद्वाक्यस्य यथा तथेत्यस्तु इति चाध्याहा-
र्य्यम् । तथाच-यथा 'पुमांसौ' 'मित्रावरुणौ' आदित्यप्रचेतसौ । यथा च
“अश्विनौ” देवभिषजौ 'पुमांसौ' । यथा च 'अग्निः वायुश्च' पुमान् । तथा
'तव' उदरे' कुक्षावयं 'गर्भः पुमान्' अस्तु ॥ इति ॥ ३ ॥
अथ यथार्थम् ॥ ४ ॥
अथ-अनन्तरम् । यथार्थमिति कर्म्मणः परिसमाप्तिरुच्यते । वामदेव्य-
गानान्ततन्त्रसमापनमत्र कर्त्तव्यम् ॥ ४ ॥
अथाऽपरम् ॥ ५ ॥
अथैतस्मात्पुंसवनकर्म्मणोऽनन्तरम् अपरमन्यद्द्वितीयं पुंसवनं शृङ्गाकर्म्म-
संज्ञकम् । “कर्त्तव्यम्(३)” इति वाक्यशेषः । पाठादेवाऽऽनन्तर्यलाभादथशब्दः
पूर्वप्रकृतार्थो वा वर्णनीयः । पूर्ववदिदमपि पुंसवनम्पूर्वप्रकृत एव काले करणी-
( १ ) अन्यथा “प्रागावर्त्तनादहः” ( १-१-३ ) इति प्राप्तत्वात्पुनरुक्तत्वापत्तेः ।
तथाच स्मरन्ति 'प्रातः कालोमुहूर्तांस्त्रीन्" इति । तत्राद्यमुहूर्त्तस्य निषिद्धत्वात्तदुपरीतनः
कालोऽत्र विवक्षितः ॥
( २ ) अत्र तूष्णीमंसस्याभिमर्शनम् । मन्त्रेण नाभिदेशस्येति भट्टनारायण-मुरारि-
मिश्र-प्रभृतयः ।
( ३ ) तदेतत्प्रथमे कृते फलानुपलब्धौ द्वितीये गर्भे कर्त्तव्यमिति मे प्रतिभाति ।
पद्धतिकृतस्तु-यथालिखितमाहुः ॥
६ कण्डिका ] गोभिलगृह्यसूत्रे- १८३
यमित्यर्थः । तच्चैकदिने दिनद्वये वेति विशेषोऽत्र न गम्यतेऽतः प्रथमदिने चेदङ्ग-
यङ्गक्रियते तर्हि नान्दीश्राद्धमपि तन्त्रेणैव कर्त्तव्यम् । तथाच कर्म्मप्रदीपः—
“गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ॥” इति ॥ ५ ॥
तस्येतिकर्त्तव्यतामाह—
प्रागुदीच्यान्दिशि न्यग्रोधशुङ्गामुभयतः फलामस्रामामकृमिपरि-
सृप्तान्त्रिः सप्तैर्यवैर्माषैर्वा परिक्रीयोत्थापयेत् ॥ ६ ॥
प्रागुदीच्यामैशान्याम् । दिशि अवस्थितायाः । न्यग्रोधस्य-वटस्य । “न्य-
ग्रोधोबहुपाद्वटः” इत्यमरः । शुङ्गाम्-“लताग्रपल्लवोगृहः शुङ्गेति परिगीयते”
इति कात्यायनोक्तलक्षणां ( मुकुलितपल्लवरूपाम ) कथम्भूताम् ? उभयतः
फलाम्—उभयतः पार्श्वद्वये फले यस्यास्ताम् । अस्रामाम्-अम्लानाम् । इति
मुरारिः(१) । अकृमिपरिसृप्ताम् । कृमिभिरव्याप्ताम् । एवम्भूतां परिक्रीय-क्री-
त्वा उत्थापयेत् । गृह्णीयान् । कियतामूल्येनेत्यत्राह-त्रिः सप्तैरिति(२) । त्रिरावृत्तैः
सप्तभिः । एकविंशत्या यवैर्माषैर्वेत्यर्थः । क्रयश्च वृक्षस्वामिनो न वृक्षात् । यवा-
न्माषान्वा मूले निःक्षिप्य (३)परिक्रयणमित्येके प्राहुः ॥ ६ ॥
अथ क्रयणमन्त्राः—
“यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि” ॥ १ ॥
“यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि” ॥ २ ॥
“यद्यसि वसुभ्योवसुभ्यस्त्वा परिक्रीणामि” ॥ ३ ॥
“यद्यसि रुद्रेभ्योरुद्रेभ्यस्त्वा परिक्रीणामि” ॥ ४ ॥
“यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि” ॥ ५ ॥
“यद्यसि मरुद्भ्योमरुद्भ्यस्त्वा परिक्रीणामि” ॥ ६ ॥
“यद्यसि विश्वेभ्योदेवेभ्यो विश्वेभ्यस्त्वादेवेभ्यः परिक्रीणामि” ॥७॥
अत्र “यद्यसि” इत्यादिक्रयलिङ्गैः सप्तभिर्मन्त्रैर्यवैर्माषैर्वापरिक्रयणं,
प्रतिमन्त्रं त्रीं-स्त्रीन् यवान्माषान्वावृक्षमूले प्रक्षिप्येति पद्धतिकृतोवीरेश्वरादयः ।
( १ ) मेदिन्यां तु “नीलिकायामथश्रामो मासे मण्डपकालयोः इति तालव्यादिः
श्रामशब्दउक्तः । तेनाश्रामामितिपाठेऽविद्यमानकालिमामितितदर्थः ।
( २ ) अत्र क्रियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यः सुच्” ( पा० ५।४।१८ ) इति
सुच् । त्रिःसप्तैरिति बहुव्रीहिः । ( पा० २।२।२६ ) ततोडच् ( पा० ५।४।७३ ) समा-
सान्तः । डित्त्वाट्टिलोपः ॥
( ३ ) एवञ्च यस्यात्मीयोऽपि न्यग्रोधोभवेत्तेनापि सोमक्रयणवत्क्रयणमवश्यं कार्यम् ॥
१८४ पुंसवनविधिः। [ २ प्रपाठके-
मन्त्रार्थस्तु—
हेशुङ्गे ! त्वं 'यदि' 'सौमी' सोमप्रिया सोमदेवत्य। वा 'असि' भवसि । तदा
'सोमाय' 'राज्ञे' सोमराजप्रीत्यर्थमेव 'त्वा' त्वां 'परिक्रीणामि' । एवमग्रेऽपि ।
अत्र सर्वत्र तादर्थ्ये ( पा० १।४।४४वा० ) चतुर्थी । उपकार्योपकारकभावसम्ब-
न्धश्च तादर्थ्यम् । “कृत्तद्धितसमासेभ्यः सम्बन्धाऽभिधानं भावप्रत्ययेने”ति
सिद्धान्तात् ॥ १-७ ॥ ७ ॥
( अथोत्थापनमन्त्रः )
ततश्च
“ओषधः सुमनसोभूत्वाऽस्यां वीर्यं समाधत्त इयङ्कर्म करिष्यती”
त्युत्थाप्य तृणैः परिधायाऽऽहृत्य वैहायसीं निदध्यात् ॥ ८ ॥
“ओषधयः” इत्यनेन मन्त्रेणेति कारान्तेनोत्थाय-उत्तोल्य । तृणैः कुशैः ।
तथैव समाचारात् । पद्धतिरप्येवमेव । परिधाय-परिधाप्य । अन्तर्भावितण्य-
र्थोऽयम् । वेष्टयित्वा । आहृत्य-आनीय । वैहायसीम्-आकाशस्थां कृत्वा गृहो-
परि अधोवा निदध्यात् । धारयेत् । मन्त्रार्थस्तु—हे 'ओषधयः' । ओषधिदेव-
ताः! । “ओषधि फल(१)पाकान्ता स्या”-दित्यमरादिकारान्तोऽपि। ङीषि ओ-
षधीत्यपि । रात्रिः रात्रीति वत् । यूयं 'सुमनसः' प्रसन्ना 'भूत्वा' 'अस्यां' वध्वां
(२)'वीर्यम्' सामर्थ्यम् । 'समाधत्त' (३)सम्यग्विर्याधानं कुरुत । कुतः ? यतः
'इयं' वधूः 'कर्म्म' गर्भप्रसवनाख्यं(४) त्वत्सेवाञ्च 'करिष्यति' । 'इति' हेतोरि-
तिसत्यव्रतः ॥ ८ ॥
तां खल्वाहृतां शुङ्गाम्—
दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुः कुमारी
वाऽपत्याहरन्ती पिनष्टि ॥ ९ ॥
व्याहृतिहोमान्ते । दृषद्च्छिला ( पेष(५)णी ) तां प्रक्षाल्य-शोधयित्वा ।
ब्रह्मचारी-प्रथमाश्रमी । व्रतवती-पतिव्रता । गर्भिण्येवेत्येके । ब्रह्मबन्धुः ।
अन(६)धीतविद्यः । तथाचच्छन्दोगपरिशिष्टम्—“पतिव्रता व्रतवती ब्रह्मबन्धु-
( १ ) फलानां पाके एवान्तोयासान्ताः ।
( २ ) क्रीतायां वटशुङ्गायाम् ।
( ३ ) अर्पयत ।
( ४ ) पुंसवनाख्याम् ।
( ५ ) पिनष्ट्यस्यामित्यधिकरणे ल्युट् । ङीप् । तत्करणभूतं लोढकञ्च ॥
( ६ ) कुत्सार्थे
स्तथाऽश्रुतः ॥” इति । अप्रत्याहरन्ती-प्रत्याहरणं पिष्टस्य पश्चादानयनम्(१) ।
तदकुर्वती । पिनष्टि-चूर्णीकरोति । ॰“पिष्लृसञ्चूर्णने” (रु० प०) लट् ।
मध्ये श्नम् । शुङ्गामित्यनुषञ्जनीयम् ॥ ९ ॥
वधूश्च—
प्रातःसशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु
दर्भेषु प्राक्शिराः संविशति । १० ।
प्राक्शिराः—पूर्वशिरस्का । संविशति-स्वपिति । “स्यान्निद्राशयनं स्वापः
स्वप्नः संवेश इत्यपि” इत्यमरः । शेषमुक्तार्थम् ॥ १० ॥
पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गु-
ल्याऽभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः
पुमानिन्द्र” इत्येतयर्चा ॥ ११ ॥
(मं. ब्रा. १।४।९)
अभिसंगृह्य-गृहीत्वा । पिष्टां शुङ्गाम् । नासिकास्रोतसि-नासापुटरन्ध्रे ।
वध्वाएव । अवनयेत् । क्षिपेत् । (२)“पुमानग्निरि”ति मन्त्रेण । शेषमुक्ता-
र्थम् । मन्त्रो यथा—
“पुमानग्निः पुमानिन्द्रः पुमान्देवोबृहस्पतिः ।
पुमाग्ं सं पुत्रं विन्दस्व तम्पुमाननुजायताम् ॥” ॥ ९ ॥
इति । मन्त्रार्थः सुबोध एव । पुमांसमित्यनेन सुपुरुषलक्षणोपेतम् । तमि-
त्यनेन च बहुपुत्रसम्पत्तिश्वोक्तवान्मन्त्रदृगिति ॥ ११ ॥
अथ यथार्थम् ॥ १२ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ 🌸 ॥
निगद्व्याख्यातमेतत् ॥ १२ ॥
इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां “मृदुला”-ख्यायां मुकुन्दशर्म्म
सङ्कलितायां द्वि प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ * ॥
( १ ) केचित्तु-उच्छ्रितशिलापुत्रकेणाहृत्याहृत्य पेषणं कर्त्तव्यम् । अथवा-सकृत्प्र-
योगेणैव यथा पेषणं निर्वहति तथा कर्त्तव्यमित्यप्रत्याहरणस्यार्थमाचक्षते ।
( २ ) वस्त्रबद्धां पिष्टां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे तद्रसं क्षिपेदिति भव-
देवभट्टः ।
२४ गो० गृ० सू
१८४ सीमन्तोन्नयनम् । [ ३ प्रपाठके-
अथ सप्तमी कण्डिका -
( अथ सीमन्तोन्नयनम् )
अथ सीमन्तकरणम्प्रथमगर्भे ॥ १ ॥
अथ-पुंसवनसंस्कारानन्तरम् । सीमन्तकरणम् । “सीमन्तः केशवेशे
स्यात्” इत्यभिधानात्सीमन्तस्य केशरचनाविशेषस्य(१) वक्ष्यमाणविधिना
करणम् “वर्त्तिष्यते” इति सूत्रशेषः । तस्य कालमाह-प्रथमगर्भे इति । इदं हि
क्षेत्रसंस्कार(२)द्वाराऽपत्यसंस्कारकन्तेन सकृदेव कार्यम् । तथा च हारीतः—
“सकृत् कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत् ॥”
इति । गृह्यसंग्रहेऽपि—
“यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता ।
एवमाद्यस्य संस्कारः संस्कारविधिचोदितः ॥”
इति । एव माश्वलायनगृह्यपरिशिष्टेऽपि-“सीमन्तोन्नयनं प्रथमे गर्
पुंसवने । तथाच स्मृत्यन्तरम्—
“या नायेकृतसीमन्ता प्रसूयते कदाचन ।
अङ्के विधायतं बालं पुनः संस्कारमर्हति ॥”
इति । असंकृतगर्भप्रसवे-द्वितीयगर्भे संस्कारस्तु प्रकृत-( प्रथम-) बालवि-
नाशविषयो बोद्धव्य इति चन्द्रकान्तः । मुरारिमिश्रास्तु-नैतन्मन्यन्ते-इति
कर्मशेषे वक्ष्यते । तत्र कालमाह—( २।८।१२ ) ॥ १ ॥
चतुर्थे मासि षष्ठेऽष्टमेवा ॥ २ ॥
ऋजुरक्षरार्थः । अत्र वाशब्द, एक एवेति न तुल्यवद्विकल्पार्थः । एवञ्चा-
क्तकल्पेषु यत्रोदगयनादि-विहितसमयलाभस्तत्रेद्ङ्कार्यम् । तथाचाङ्गिराः—“यत्रो-
दगयनादिः स्यात्कालस्तत्रे”ति । बैजवापगृह्येऽपि-“मासि चतुर्थे पञ्चमे वा
षष्ठाष्टमयोर्वाऽऽपूर्यमाणपक्षे यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते सप्तमे मासि
[L1
फले शलाटुः स्याद्दि"-त्याग्नेयाभिधानाद् "अस्त्वस्तवक उच्यते” इति कर्म्मप्रदी-
पपाठाच्च । नीलाभिधानम्(१)फलस्य तद्रूपत्वाद्विरतमिति तदर्थः । औदुम्बर-
म्-उदुम्बरवृक्षोद्भवम् । तस्येदम्" (पा० ४।३।१२०) इत्यण्प्रत्यय आदि-
वृद्धिः ॥ यथोक्तं स्तवकम् “अयसूर्जावत” इति मन्त्रेण वध्वाः कण्ठे सुडोलके-
नामुच्य वध्नाति । बध्नीयात् । मन्त्रोयथा—
“अयसूर्जावतोवृक्ष ऊर्जीव फलिनी भव ।
पर्णं वनस्पते नुत्त्वा नुत्त्वाऽस्यां सूयतायूँरयिः” ॥ १ ॥ इति ।
अस्यार्थः । ‘अयम्' उदुम्बरो यज्ञाङ्गो ‘वृक्ष’ “ऊर्जावान्” इति शेषः ।
अस्य 'ऊर्जावतः'(२) वृक्षस्य 'ऊर्जीव' (३) फलशाखेव (हेवधु !) त्वं 'फलिनी'
बहुफलवती(४)प्रशस्तफलवती वा भव । किञ्च हे ‘वनस्पते’ उदुम्बर ! (५)त्वया-
ऽस्यां 'रयिः' पुत्ररूपं धनम् (निघं०२।१०।८) 'सूयताम्' प्रसूयताम् । त्वयाऽनुगृ-
हीतेयं भाग्यवतः पुत्राँल्लभतामित्यर्थः । किमिव ? 'नुत्त्वा' 'नुत्त्वा' प्रेर्य्य२ 'पर्ण'
पत्राणीव । (६) जातावेकवचनम् । यथा त्वया पत्राणि प्रेर्य्य २ प्रसूयन्ते तथेयं
बहुपुत्रा त्वया क्रियतामित्यर्थः ॥ १ ॥ इति ॥
अथ सीमन्तमुर्ध्वन्नयति(७)भूरिति दर्भपिञ्जलीभिरेव प्रथमम् ।
भुव इति(८) द्वितीयम् स्वरिति तृतीयम् ॥ ५ ॥
अथेति स्थाननियमार्थम् । तत्रस्थ एव पतिः । सीमन्तमुक्तरूपमूर्द्ध्वमुपरि
नयति-नयेत् । इत्यर्थः । तत्र मन्त्रमाह-भूरितीति । अनेन मन्त्रेण प्रथमम् ।
केनोन्नयति ? दर्भपिञ्जलीभिरेव ।
“अनन्तर्गर्भिणं साग्रङ्कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥
( १ ) आममपक्वम् “आमोहरुक् तद्विदोः पुंसि स्यादपक्वेऽन्यलिङ्गवद्दि”ति मेदिनी ॥
( २ ) ऊर्जशब्दोऽन्नाथैः ( निघं० २।७ ) “ऊर्जाद उत यज्ञियासः” ( ऋ० सं० ८।१।
१३।४ ) इति श्रुतौ ऊर्जादाश्च यज्ञियाश्चे”—ति निरुक्तम् । (१।८।१ ) अत्राङ्गमिरित कर्म्म-
कान्तम् । यद्यतेत्स्म तदङ्गन्तदिहोदुम्बरफलम् । पक्के सुप्रवृकणमितितन्निर्वचनदर्शनादि-
ति गुणविष्णुसम्मतार्थः । ततोभूम्नि मतुपि ‘शरादीनाञ्च” (,पा० ६।३। १२० ) इति
पूर्वपदस्य दीर्घः ॥
( ३ ) ऊर्जीति भूम्नि मत्वर्थे ई ( पा० ५।२।१२२ वा० ) प्रत्ययेन साधुः ॥
( ४ ) भूम्नि प्रशंसायां वा मत्वर्थे इनिः । ( पा० ५।२।१२६ ) ॥
( ५ ) “वानस्पत्यः फलैः पुष्पैरपुष्पाद्वनस्पतिरि”—त्यमरः । अनेन तदधिष्ठात्री
देवतैव संबोध्य प्रार्थ्यते ॥
( ६ ) “पत्रं पलाशं छदनं दलं पर्णं छदः पुमानि”त्यमरः ॥
( ७ ) अत्राप्युन्नयतीति चन्द्रकान्तसम्मतः पाठः । मुरारिमिश्रादिभिस्तु उन्नयती-
त्येव पठितम् ॥ ( ८ ) अत्रापि भुवर्वारिति चेति चन्द्रकान्तः पपाठ ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे- १८६
एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् ।
आयस्योत्पवनार्थं यत्तद्ध्येतावदेव तु ॥
एतत्प्रमाणमेवैके कौशीमेवार्द्रमञ्जरीम् ।
शुष्कां वा शीर्णकुसुमां पिञ्जलीम्परिचक्षते ॥”
इति कर्म्मप्रदीपोक्तलक्षणाभिः । कतमाभिरिति चेत्तिसृभिरित्यवधेहि ।
कपिञ्जलाधिकरणन्यायात् । तदिदं प्रथममुन्नयनं, भुव इति द्वितीयं दर्भपिञ्ज-
लीभिरेव । स्वरिति तृतीयं दर्भपिञ्जलीभिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्न-
यनमिति-उन्नयनत्रित्वाददर्भपिञ्जाल्योऽपि नत्रैव सम्पद्यन्ते । तासाञ्च तिसृभिरे-
कमुन्नयन, तावतीभिरपरं, तावतीभिरेवापरमिति व्याख्येयम् । अत एव भूरि-
ति दर्भपिञ्जलीभिरिति सूत्रयित्वा प्रथममिति सूत्रितम् । यदि पुनस्तिस्र
एवदर्भपिञ्जल्यः स्युस्तर्हादित एव दर्भपिञ्जलीभिरिति सूत्रयित्वा भूरिति
प्रथमम् सुवरिति द्वितीयम् । इत्येवं विनियोगममूषामसूत्रयिष्यत् नचैवम् ।
तस्मादनुमिमीमहे भूरिति प्रथम एवोन्नयने तिस्रोदर्भपिञ्जल्योव्यप्रियन्ते एवमु-
त्तरयोः। एवकारोऽत्र पक्षे करणान्तरव्यावृत्त्यर्थ इति चन्द्रकान्तभाष्यम् । मुरा-
रिमिश्रास्तु—दर्भपिञ्जलोभिरेवेत्येवकारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव
तिसृभिरित्यर्थः । प्रथमं द्वितीयं तृतीयमिति वचनं व्याहृतिपिञ्जल्योः पृथग्वि-
नियॊगप्रदर्शनार्थम् । अन्यथा मिलिताभिरहृत्योन्नयनं प्रसज्येत । तथा चैकैक-
याऽपि पिञ्जल्या एकैकमुन्नयनमिति ॥ ५॥
अथ वीरतरेण “येनादितेरि”—त्येतयर्चा ॥६॥
( मं०ब्रा०१।५।२ )
अथेति पूर्वप्रकृतार्थम् । वीरतरेणेति । वीरास्तरन्त्यनेनेति वीरतरः शरस्ते-
नेत्यर्थः । तथाच कर्म्मप्रदीपः—
“श्वाविच्छलाका शलली तथा वीरतरः शरः” इति ।
सीमन्तमुन्नयेदित्यनुषज्यते । तत्र मन्त्रमाह- “येनादितेरि”-ति । अनेन
मन्त्रेणेत्यर्थः । मन्त्रोयथा—
“येनादितेः सीमानं नयति प्रजापतिर्महते सौभाग्याय ।
तेनाहमस्यै सीमानं नयामि प्रजामस्यै जरदष्टिङ्कृणोमि” ॥ २ ॥
इति । अस्यार्थः । 'प्रजापतिः' कश्यपः । 'येन' वीरतरेण शरेण 'अदितेः'
देवमातुः 'सीमानम्' सीमन्तम्(१) । 'नयति' विनीतवान्(२) ( विवृतं कृत-
वान् ) किमर्थम ? 'महते' बृहते 'सौभाग्याय' सुभगतवाय । 'तेन' (३)शरेण
( १ ) नामैकदेशग्रहणे नामग्रहणं भीमोभीमसेन इतिवत् ॥
( २ ) नयतिरिह सोपसृष्टार्थे विनयेने वत्तॆते धातूनामनेकार्थत्वात् ॥
( ३ ) तेनेति "तादर्थ्यात्ताद्रूप्याच्च ताच्छब्द्यम्" इति हि न्यायः । तथाचेह "तदे-
१६० सीमन्तोन्नयनम् । [ २ प्रपाठके
'अहम्' 'अस्यै' अस्याः(१)स्त्रियाः । 'सीमन्तं 'नयामि' विनयामि । (विवृतंक-
रोमि ) तेनच 'अस्यै' अस्याः 'प्रजां' पुत्रपौत्रादिकाम् 'जरदष्टिं' दीर्घकालजी-
विनीम् । 'कृणोमि' करोमि(२) ॥ २ ॥ ६ ॥
अथ पूर्णचात्रेण “राकामहम्”-त्येतयर्चा ॥ ७ ॥
( मं०ब्रा०१।५।३ )
अथानन्तरम् । पूर्णचात्रेण सूत्रपूर्णेन तर्कुणा । “चात्रं तर्कु प्रकीर्त्तितम्”
इति मुरारिधृतवचनात् । सीमन्तमुदूर्ध्वन्नयतीति पूर्ववत् । मन्त्रोयथा—
“राकामहँ॑ सुहवां सुष्टुती हुवे शृणोतु नःसुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याऽच्छिद्यमानया ददातु वीरँ॑शतदायमुक्थ्यम्”॥३॥
इति । अस्यार्थः । 'अहं'
)
L19: ‘रराणा’ (९)ददतीति? Wait, where is (८)?
Wait! Look closely at L19:
Is it ‘रराणा’ (८) ददतीति or (९)?
Wait, if footnote (८) is: ( ८ ) रातिर्दानार्थः ( अ० प० ) पदव्यत्ययेन ( पा०३।१।८५ ) लटः शानच् ॥
That explains रराणा!
And footnote (९) is: ( ९ ) “कर्मण्यण्” ( पा०३।२।१ ) इत्यण्प्रत्ययः ॥
Wait, what word has अण् प्रत्यय?
सहस्रपोषम्!
Wait, does सहस्रपोषम् have footnote (८) or (९)?
Wait, look at L12: सहस्रपोषंसुभगे
Look at L18-19: ‘सहस्र- / पोषम्’ - is there a footnote number?
Wait! In L19: look before ‘रराणा’:
Wait, look at L19:
पोषम्’ बहुजनपोषकं सुतम् । ‘रराणा’ (९)ददतीति ॥ ८ ॥?
Wait, where is (८)?
Look at L19:
१४२ सीमन्तोन्नयनम् । [ ३ प्रपाठके
गृह्यासङ्ग्रहे—
"कृत्वा ब्रह्मासनान्तं द्विः प्रक्षाल्य क्रुसरं पचेत् ।
भक्तार्थत्वान्न निर्वाप उद्गुद्वासानन्तथा ॥
चूड़ाकर्म्मणि सीमन्ते यश्च पाकः सदा गृहे ।
विवाहे चैव लाजानां नोक्तो निर्वापगोविधिः ॥"
इति । उत्तरघृतः। उत्तरे उपरि घृतं यस्य सोऽयमुत्तरघृत(दत्त)घृत इत्यर्थः ।
तमिमं स्थालीपाकमवेक्षयेत् । पत्नीं दर्शयेत पतिः । स खल्वयं क्रुसरः स्थालीपा-
काऽऽवृता यत्र कुत्रचिद्येन केनापि पक्तव्यः । सिद्धस्य तस्यावेक्षणमात्रस्यैव
सूत्रणात् । तस्मादवेक्षणार्थमेवाभ्यासादनमिति सिद्धम् । अत्र होमानादेशान्न
"मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः"-ति वचनात्प्रजापतिदेवताकत्व-
ञ्चरोर्होमादेशे सत्येवास्य प्रवृत्तेरित्यवेक्षणलक्षणे एव प्रयोजने इति द्रष्टव्यम् ।
अत एव चूड़ाकरणेऽन्नं वृथापक इति वक्ष्यति ( २।९।५ ) ॥ ९ ॥
एवं स्थालीपाकं पश्यन्तीं वधूम्—
किम्पश्यसीत्युक्त्वा “प्रजामि"-ति वाचयेत् ॥ १० ॥
“किंपश्यसि ?” इति मन्त्रभागं पतिरुक्त्वा—"प्रजाम्पशून्त्सौभाग्यन्मह्यं
दीर्घायुष्ट्वं पत्युः” इति वधू वाचयेद्भाषयेत् । अत्र मह्यमिति षष्ठ्यर्थे चतुर्थी ।
( पा०२।३।६२ ) दीर्घायुष्ट्वं -बहुकालसुखजीवित्वम् ॥ १० ॥
तꣳसा स्वयम्भुञ्जीत ॥ ११ ॥
सा-वधूः । तमवेक्षितं सिद्धं क्रुसरम् ॥ ११ ॥
“वीरसू-र्जीवसू-र्जीवपत्नी"-ति ब्राह्मण्योमङ्ग-
ल्याभिर्वाग्भिरुपासीरन् ॥ १२ ॥
वीरान्-विक्रान्तान् सूते-इति वीरसूः । "वीरविक्रान्तौ” ( चु० आ०)
वीरयतेऽमित्रानिति वीरः तं सूते इतिवीरसूः । "षूङ्प्राणिगर्भविमोचने" (अ०
आ०) ततः क्विप् । एवमग्रेऽपि (१) । "त्वंभवे"ति वाक्यशेषः । इति-एवं प्रका-
राभिर्मङ्गल्याभिर्मङ्गलेसाध्वीभिः "तत्र साधुः” ( पा०४।४।९८ ) इति यत् ।
वाग्भिर्ब्राह्मण्योवधूमुपासीरन्गायेरन् । अनुनयेयुरित्यर्थः। यत्तु-साङ्ख्यायनपरि-
शिष्टभाष्ये तत्तत्कालेऽकृतान्यपि क्षेत्रसंस्कारकर्म्माणि काले जाते, सूतकेऽपगते
मातुरङ्के तन्निधाय व्याहृतिभिर्हुत्वा क्रमेण कर्त्तव्यानीत्युक्तं तत्तु प्रमाणाभावा-
दुपेक्ष्यमिति मुरारिमिश्राः ॥ १२ ॥
( १ ) जीवान्-जीवतः सूते इतिजीवसूः । यान्सूते ते जीवेरन्नित्याशंसा वाक्यार्थः ।
एवं-जीवस्य-जीवतः पत्नी जीवपत्नी अविधवेति ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे— १६३
अथ सोष्यन्तीहोमः ॥ १३ ॥
अथेत्ययमपूर्वप्रकरणोपन्यासार्थः । आसन्नप्रसवां ज्ञात्वा सुखप्रसवार्थं
होमः सोष्यन्ती होमः । “कार्य्य” इति शेषः ॥ १३ ॥
कस्मिन्काले कथञ्चेत्यपेक्षायामाह—
प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति “या तिरश्ची”—
त्येतयर्चा “विपश्चित्पुच्छमभरदि”—ति च ॥ १४ ॥
( मं० ब्रा० १।५।६-७ )
वस्तौ-योनिद्वारे(१) प्रतिष्ठिते-गर्भस्थित एव “बाले” बर्हिर्गन्तुमुपक्रान्ते ।
अग्निं परिस्तीर्य्य-परिस्तरणमुक्तन्तत्कृत्वा द्वे आज्याहुती जुहोति। पतिः। “या तिर-
श्ची”त्यादि ऋग्भ्यां प्रत्येकं स्वाहान्ताभ्याम् ॥ अत्र-परिस्तीर्येति विशेषोपदेशा-
द्ब्रह्मोपवेशनादिबाधः । एवञ्च क्षिप्रहोम एवायं, विशेषवचनात्परिस्तरणाज्य-
संस्कारावत्राधिकाविति द्रष्टव्यम् ॥
ऋचौ यथा—
“या तिरश्ची निपद्यते अहं विधारणी इति । तान्त्वा घृतस्य धारया यजे
सँराधिनीमहं ( सँराधिन्यै देव्यै देष्ट्र्यै ) स्वाहा ॥ ६ ॥
विपश्चित्पुच्छमभरद्धाता पुनराहरत् । परेहि तं विपश्चित्पुमानयं जनि-
ष्यतेऽसौ नाम स्वाहा ॥ ७ ॥
इति । अर्थोयथा—हे संराधिनि ! ( तदभिख्ये देवते ! ) या ते धारणा
शुभे कर्म्मणि प्रस्तूयमाने 'अहं' 'विधारणी' शुभफलविघातकारिणी 'इति'
एवं विधा सती 'तिरश्ची'(२)वाञ्छितफल-विघ्नकारिणी 'निषद्यते' 'अहं' 'तां'
ताग्धारणावतीं 'त्वा' त्वामेव देवतां 'घृतस्य धारया' 'यजे' (३)पूजयामि ।
कथम्भूतां त्वाम् ? 'संराधिनीं' सम्यक्साधिनीम्प्रार्थिनामिष्टस्य(४) । तस्यै 'सं-
राधिन्यै' 'देव्यै' दानादिगुणविशिष्टायै । अतएव 'देष्ट्र्यै' शुभफलानां(५)दा-
त्र्यै । 'स्वाहा' सुहुतमस्तु ॥ ६ ॥
'विपश्चित्' कश्चिद्देवविशेषः । स 'पुच्छं' शिश्नं शिशूनाम् 'अभरत्' अ-
हरत्(६) । हृतवान् 'तत्' विपश्चिदाहृतं पुच्छं 'धाता' प्रजापतिः 'पुनः' 'आ-
( १ ) “वस्तिर्नाभेदधोद्वयोः” इत्यमरः ॥
( २ ) तिरोऽञ्चतीत्यर्थे किन् । उगित्वान्ङीप् । ( पा० ४।१।६ ) “अचः” ( पा०
६।४।१३८ ) इत्यकारलोपः ।
( ३ ) “यजदेवपूजादौ” ( भ्वा० उ० ) लट् ॥
( ४ ) “राधसंसिद्धौ” ( स्वा० प० ) ताच्छील्ये णिनिः । ( पा० ३।२।७८ ) ॥
( ५ ) “दिश अतिसर्जने” ( तु० प० ) तृन् । ऋदन्तत्वान् ङीप् । ( पा० ४।१।५ )
अतिसर्जनं दानम् ॥ ( ६ ) ह्रस्य मः ( पा० ३।१।८४ वा० ) ॥
२५ गो० गृ० सू
हरन्' आनीतवान् । तदनुध्यानेन तत्पुनर्यथावस्थितमवातिष्ठत । इतिपरोक्षमु-
क्त्वा प्रत्यक्षमुच्यते—हे 'विपश्चिन् !' 'त्वं' 'परेहि' (१)परागच्छ दूरमपसर ।
येन 'अयं' मद्बुद्धिस्थो(२) मयाभिध्यातोऽत्र गर्भिण्याम् 'पुमान्' शिश्नस-
म्पन्नो 'जनिष्यते' उत्पत्स्यते । 'असौनाम' देवदत्ताभिधानः। तस्मै तुभ्यं 'स्वाहा'
सुहुतमस्तु ॥७॥ इति ॥
“पुमानयञ्जनिष्यतेऽसौ नामे”ति नामधेयं गृह्णाति ॥ १५ ॥
उक्तमन्त्रे “पुमानयमि”ति मन्त्रांशे असौ नामेत्यस्मिन्सर्वनाम्नि देवदत्त-
शर्मन्नाम स्वाहेत्येवं नामधेयं नाम गृह्णीयात् । स्वार्थेऽत्र धेयप्रत्ययः । ( पा०
५।४।२५ वा० ) ॥ १५ ॥
यत्तद्गुह्यमेव भवति ॥ १६ ॥
यत्तदानीं नाम गृह्णाति तद्गुह्यम् अप्रकाश्यम्भवति । एवकारकरणाद्याव-
ज्जीवं स्वयमपि न गृह्णीयाज्ज्येष्ठस्येति स्मर्य्यते—
“आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥”
इति । अपरञ्चैतत्कारणं, यद्रिपुणा तज्जातमभिचार (३)उपयोजितम्मह-
तेऽनर्थायावकल्पेतेति । अत्रशङ्खः—“काकादन्याः सेचकघातक्याः कोशात-
क्याः बृहत्याः कालक्लीतकस्य मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्ष-
सामपहस्त्यै” इति । काकादनी-काकजङ्घा । गुञ्जेत्येके । सेचकघातकी-का-
कमाची । कोशातकी घोषकः । “सोनखेसर” इतिप्रसिद्धः । कालक्लीतकः कृ-
ष्णगुञ्जा ॥ मार्कण्डेयपुराणे—
“अग्न्यम्बुशून्ये च तथा निर्धूपे सूतिकागृहे ।
प्रदीपशस्त्रमुशालभूतिसर्षपवर्जिते ॥
अनुप्रविश्य जातन्तमपहृत्यात्मसम्भवम् ।
अद्यप्रसविनी बालं तत्रैवोत्सृजति द्विज! ॥
सा जातहारिणी नाम सुघोरा पिशिताशनी ।
तस्मात्संरक्षणार्थाय यत्नतः सूतिकागृहे ॥”
( १ ) परापूर्वक “इण्गतावि—”ति धातोरत्र लोडन्तः । गुणविष्णुस्तु-त्वं परःश्रेष्ठ
इत्यस्मिन्कर्मण्येहि सन्निहितोभव । सोर्लोपः ( पा० ७।१।३९ ) । किन्त्वत्र-अवेहीति
वत् ( पा० ६।१।८९ ) वृद्धयभावानोपपद्यते । आर्षत्वानुसरणं तु क्लेशः ॥
.. ( २ ) “इदमस्तु सन्निकृष्टे०” इति नियमात् । सान्निध्यं बुद्धयवस्थानात् ॥
( ३ ) “जन्मनक्षत्रयोन्या वै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि
महेशरी”ति शारदाटीकायां राघवभट्टः ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे- १६५
इति । यूपोऽत्र यूपाकारः काष्ठविशेषः । बैजवापः—
“षष्ठेऽह्नि रात्रिजागरणं जन्मगानं च कारयेत्” इति ॥ १६ ॥
( अथजातकर्म्म )
यदास्मै कुमारञ्जातमाचक्षीरन्नथ ब्रूयात् “काङ्क्षत नाभिकृन्त-
नेन स्तनप्रतिधानेन चे”ति ॥ १७ ॥
अस्मै-पित्रे । वक्तव्यमाह-काङ्क्षतेति । नाभिकृन्तनेन-नाभिच्छेदनेन ।
“कृतीच्छेदने” (तु० प०) ल्युटि बाहुलकान्नुम् (पा० ३।३।१) स्तनप्रतिधानेन-
स्तनपानेन । “धेट्पाने” ( भ्वा० प० ) भावे ल्युट् । ( पा० ३।३।११५ ) का-
ङ्क्षत-प्रतिपालयत । समयं प्रतीक्षत । प्रकृत्यादित्वात्तृतीया ॥ ( पा० २।३।
१८ वा० ) । तदुभयञ्जातकर्म्मानन्तरं मातरः ! करिष्यथेत्यर्थः । नाभि-र्ना-
भिलग्ना नाडी नालमित्यनर्थान्तरम् ॥ हारीतः “ब्राह्मणमाहूय नाड़ीच्छेदना-
त्प्राक् जातकर्म-पुण्याहवाचनङ्कुर्व्वन्ति” इति । ब्राह्मणं-तत्कर्म्माभिज्ञं विप्रम् ।
विष्णुपुराणे—
“जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते ।
जातकर्म ततः कुर्याच्छ्राद्धमभ्युदये (१)च यत् ॥”
इति । मनुः—
“प्राङ्नाभिवर्द्धनात्पुंसोजातकर्म विधीयते ।
मन्त्रवत्प्राशनञ्चास्य सुवर्णमधुसर्पिषाम्” ॥
इति । “वर्द्धनं छेदने” इत्यमरः । “वर्द्धच्छेदने” ( चु० प० ) इति धा-
त्वनुसारात् । पुंस इत्युक्तेः कन्याया एतन्न भवतीति गम्यते । अतएवास्य प्रा-
शनमित्यप्युक्तम् । सुवर्णेति । सुवर्णेन हेम्ना मधुसर्पिषोर्मन्त्रपूर्व्वकम्प्राशनं मु-
खे निःक्षेपणम् । अस्य बालकस्येत्यर्थः । तदुक्तं गृह्यान्तरे—“अनामिकया सुव-
र्णान्तरितया मधुघृते प्राशयति-घृतं वे”ति । विकल्पे व्यवस्था गृह्यानुसारेण
द्रष्टव्या । ब्रह्मपुराणे—“जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेषु हि” इति । एवं
विधे श्राद्धेऽवनेजनपिण्डदानादि नास्तीति भर्तृयज्ञ-स्वामिनाविति रत्नाकरः ॥
व्रीहियवौ पेषयेत्तयैवाऽऽवृता यथाशुङ्गम् ॥ १८ ॥
व्रीहियवाविति द्वन्द्वनिर्देशादुभावपि मिलितौ पेषयेन्नत्वेकैकशः । तयैवा-
ऽऽवृता-परिपाट्या यथाशुङ्गाम्पूर्वोक्ताम् । अन्यतरालाभेऽपि तत्प्रतिनिधिरूपा-
( १ ) अत्र “नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न शोषयन्ती जातकर्म्मे
प्रोषितागतकर्म्मसु” इति कर्म्मप्रदीपवचनं भवदेवभट्टमुरारिमिश्रादिभिरुपेक्षितम् । बीर-
पद्धत्यादिष्वपि “कर्त्तास्नानं वृद्धिश्राद्धञ्च कुर्यादित्युपक्रमएवोक्तम् ।
१४६ जातकर्म्मविधिः । [ २ प्रपाठके
देयः । तथाच कर्म्मप्रदीपः—
“यथोक्तवस्त्वसम्पत्तौ ग्राह्यन्तदनुकारि यत् ।
यवानाभिव गोधूमा व्रीहीणामिव शालयः ॥” इति ।
तदेवं पिष्टौ व्रीहियवौ—
दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या अभिस-
ङ्गृह्य कुमारस्य जिह्वायान्निमार्ष्टि—“यमाज्ञे”ति ॥१६॥
( सं० ब्रा० १।५।८ )
निमार्ष्टि-निश्च्योतयति(१) । अत्र करणमन्त्रमाह—“इयमाज्ञा” इति-
एवमादिनेति । मन्त्रोयथा—“इयमाज्ञेयमन्नमिदमायुरिदममृतम्” इति । म-
न्त्रार्थस्तुगमः । अत्र—
“प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥”
इति विशेषाभिधानेऽपि कुमारस्येति वचनं मौञ्जीबन्धनस्याँवदधिकारा-
र्थम् । तेनैतानि जातकम्मोदिमौञ्जीबन्धनान्तानि कर्म्माणि कुमारस्यैव न कु-
मार्याः । मनुरपि—
“अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥
वैवाहिकोविधिः स्त्रीणां संस्कारोवैदिकः स्मृतः ।
पतिसेवागुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥”
इत्येताभ्यां वचनाभ्यां जातकर्मोदिसंस्कारमुपनयनाभावञ्च बोधय(२)तीति
व्याख्यातारः ॥ १९ ॥
तथैव मेधाजनन ंसर्पिष्प्राशयेत् ॥ २० ॥
तथैवेति दक्षिणस्य पाणेरित्यादिनोक्तप्रकारेणैवेत्यर्थः । मेधा श्रुतधारण-
( १ ) तद्रसं वस्त्रान्तरितमित्येतदर्थवशात् । बीरपद्धतौ तु-अनुमार्ष्टीत्युक्तन्तत्रानुमा-
र्जनं तद्रसस्य, घर्षणं प्रक्षेपणं वा चूर्णस्येत्यत्र शिष्टाचारः प्रमाणम् ॥
( २ ) वस्तुतस्तु—“प्राधान्यात्कुमारग्रहणं क्रियते । अनुपादेयलिङ्गाविवक्षायां तु कु-
मार्य्यप्यवगम्यमाना न निराक्रियते । ननु चैवमुपनयनव्रतादिकमपि क्रियताम् इति चे-
च्छृणु-अध्ययनार्थानि हि तानि व्रतानि । स्त्रियाः खल्वध्ययनं नास्ति । “न स्त्रीशूद्रौ वेद-
मधीयाताम्” इति हि ब्राह्मणम् । याज्ञवल्क्योऽपि “वैवाहिकोविधिः स्त्रीणामौपनायनि-
कः स्मृतः” इत्याह । औपनायनिकः उपनयनप्रतिनिधिभूतः ( तत्कार्यकारी ) । एतेन
तत्पूर्व्वेः सर्वोऽयममन्त्रकः संस्कारः स्त्रीणामप्रतिहत एव मनुवचनाथैः” इति व्याख्यान
चन्द्रकान्तभाष्यस्थं युक्तमुत्पश्यामः ॥
अत्र ब्राह्मणवाक्ये—“स्त्रीशूद्रौ नाधीयेताम्” इत्यपि पाठो मुद्रितपुस्तके दृश्यते ॥
२ कण्डिका ] गोभिलगृह्यसूत्रे- १६७
विषया शक्तिः । "धीर्धारणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं
सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥
जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु-
( मं० ब्रा० १।५।९ )
णावि"-त्येतयर्चा "सदसस्पतिमद्भुतमि"-ति च ॥२१॥
( छं० ब्रा० २।२।३७ )
जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका-
ञ्चने" इत्यमरः । वाशब्दः समुच्चये । क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग-
प्रदर्शनार्थम् । जुहोति-जुहुयात् । निःक्षिपे(१)दित्यर्थः । जुहोति पदोपादानमिह
कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यसंग्रहे "प्रगल्भोजातकर्म्म-
णो"-त्यग्निविशेषकथनमनर्थवत् । अत एवाग्निविशेषापदेशादत्र व्याहृतिहोमो-
ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः ।
शिष्टाचारोऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा-
शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार-
न्यूनता स्यात् । अतएव न पृथक्करणमिति(२) । ननु सूत्रकारेण पृथक्सूत्र-
णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा-
त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् ।
“यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥”
( १ ) जुहोति पदोपादानात्स्वाहाकारान्तामन्त्रयोरवगम्यते । मन्त्रयोर्भेदेनोपदेशाद्भेदे-
नैव होमः । अतएव वीरपद्धतौ विनियोगोऽपि पृथगेव दर्शितः । किन्त्वत्र प्रथममन्त्रान्ते
स्वाहाकारोनास्तीति चित्रं प्रतिभाति ॥
( २ ) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कर्म्मणा संस्कारद्वयनिष्पत्ता-
वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि” इति नियतकालत्वमन्नप्राशनस्य
स्मर्यते नामकरणेन व्यवहितत्वञ्चे ति चेच्छृणु - अस्मच्छाखे खल्विदानीमेवान्नप्राशनमुप-
दिश्यते इत्यन्येषामेव नियतकालत्वन्नामकरणेन व्यवहितत्वञ्च, नास्माकम् । नाप्यस्य नि-
यतकालत्वमप्यस्ति-यथा च यमः-“ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि । अष्ट-
मेवाडथ कर्त्तव्यं यद्वेष्टम्मङ्गलङ्कुले” इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु-
रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपद्दिशति । तदेतदपरे न क्षमन्ते।
जातकर्म्मरूपत्वादेतस्य नान्नप्राशनत्वम् । न खल्वेकेन कर्म्मणा संस्कारद्वयनिष्पत्तिर्युक्ता।
नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाच्चेति प्राङ्नाभिवर्द्धनात्करणमस्य
न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादानमविरोधेऽनुमतं कात्याय-
नेन । तस्मात्प्रधानहोमदेवतामात्रमेवाध्वर्युभ्योऽग्रहीतव्यम् । पूर्वापरेतिकर्त्तव्यताकलापस्तु
स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥
:
It is मातुरस्पृश्यत्वं यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥ or मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥?
Wait! Look at the word:
मातुरस्पृश्यत्वैर्य्यदभिहितन्तदस्मान्नाभिवर्द्धनादूर्ध्वमिति
Wait, look at the characters:
म 1
ा
त 2
ु
र 3
स 4
्
प
ृ
श 5
्
य
त 6
्
व
ै ? No, look above 'त्व': there is NO matra.
Wait, look above the letter after 'त्व':
There is a repha: 'र्य्य' or 'य्य'?
Wait, if there's no matra on 'त्व', how could it be 'त्वै'? It CANNOT be 'त्वै'!
So it is NOT 'त्वै'!
Could it be मातुरस्पृश्यत्वं यदभिहितन्तद...?
Wait, look at the space: between 'त्व' and 'द', there is ं य or र्य्य?
Wait, look at the letter: it has a loop on the left, a vertical stem on the right, and a repha on top. That is `
८ कण्डिका ] गोभिलगृह्यसूत्रे- १६६
अथाष्टमी कण्डिका-
( अथ निष्क्रमणम् )
जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातःसशिरस्कं
कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥
जननाज्जन्मन आरभ्य तृतीयोयोऽज्यौत्स्नः ज्योत्स्नायुक्तः पक्षः शुक्लपक्षस्त-
स्य तृतीयायां तिथौ सशिरस्कं शिरसा सह । अत्र सशिरस्कमित्यभिधानाद-
न्यदा बालानामशिरस्कं स्नानन्दर्शयति । तथाच ब्रह्मपुराणम्-
“शिरोराभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिस्पर्शे तु स्नातव्यन्तु कुमारकैः ॥”
इति । एवञ्चेदं स्नानमदृष्टार्थम् । न तु शौचार्थमिति ध्येयम् ॥ कुमारं-
बालम् ॥ तथाच ब्रह्मपुराणम्-
“प्राक्चूड़ाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारस्तावद्विज्ञेयोयावन्मौञ्जीनिबन्धनम् ॥”
इति । आप्लाव्य-स्नापयित्वा । रात्रौ कर्म्मणोविधानाद्रात्रावेव स्नानम्मा-
भूदित्येवमर्थं प्रातरित्युक्तम् । अस्तमिते अस्तङ्गते सवितरि सूर्ये । वीते-विगते।
लोहितिम्नि-लौहित्ये सन्ध्योपरम इत्यर्थः । अञ्जलिकृतः । कृताञ्जलिः । “आहि-
ताग्न्यादिषु” ( पा० २।२।३७ ) पाठात् कृतशब्दस्य परनिपातः । उपतिष्ठते-
आराधयति । अर्थाच्चन्द्रमसम् । “अभिमुखश्चन्द्रमसम्” इति लिङ्गात् । अत्र
“उपान्मन्त्रकरणे” (पा० १।३।२५) इत्यात्मनेपदम् । अत्र “उपाद्देवतापूजासङ्ग-
तिकरणमित्रकरणपथिष्विति वाच्यम्” इति वार्त्तिकादाराधने । अत्र दिशोऽनुप-
देशात् प्राङ्मुख उपस्थानङ्कुर्यात् । “यत्र दिङ्नियमोनास्ती”ति कात्यायनवचना-
दिति भाष्यकृतः । प्रत्यङ्मुख इति पद्धतिकृतः । युक्तञ्चेदं शुक्लपक्षतृतीयायां
चन्द्रमसः पश्चिमदिगवस्थितत्वेन तत्साम्मुख्येनैवोपस्थानस्य न्याय्यत्वात् ॥१॥
अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत
उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् ॥ २ ॥
अथ-अनन्तरमेव । शुचिना-निर्णिंक्तेन । आच्छाद्य-आ ईषत्-मुखव-
र्जम् छादयित्वा दक्षिणतः पितुर्द्दक्षिणस्यान्दिशि भूत्वा । अत्र च “आद्या-
दिभ्यस्तसेरुपसंख्यानम्” ( पा० ५ । ४ । ४४ वा० ) इति सप्तम्यन्तात्तसिः ।
एवमग्रेऽपि । उदञ्चम्-उत्तानम् । उदक्शिरसञ्च कुमारं पित्रे प्रयच्छति-
ददाति ॥ २ ॥
स्वयञ्च-
अनुपृष्ठम्परिक्रम्योत्तरतोऽवतिष्ठते ॥ ३ ॥