सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 220, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 220

७ कण्डिका ] गोभिलगृह्यसूत्रे- १८६
एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् ।
आयस्योत्पवनार्थं यत्तद्ध्येतावदेव तु ॥
एतत्प्रमाणमेवैके कौशीमेवार्द्रमञ्जरीम् ।
शुष्कां वा शीर्णकुसुमां पिञ्जलीम्परिचक्षते ॥”
इति कर्म्मप्रदीपोक्तलक्षणाभिः । कतमाभिरिति चेत्तिसृभिरित्यवधेहि ।
कपिञ्जलाधिकरणन्यायात् । तदिदं प्रथममुन्नयनं, भुव इति द्वितीयं दर्भपिञ्ज-
लीभिरेव । स्वरिति तृतीयं दर्भपिञ्जलीभिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्न-
यनमिति-उन्नयनत्रित्वाददर्भपिञ्जाल्योऽपि नत्रैव सम्पद्यन्ते । तासाञ्च तिसृभिरे-
कमुन्नयन, तावतीभिरपरं, तावतीभिरेवापरमिति व्याख्येयम् । अत एव भूरि-
ति दर्भपिञ्जलीभिरिति सूत्रयित्वा प्रथममिति सूत्रितम् । यदि पुनस्तिस्र
एवदर्भपिञ्जल्यः स्युस्तर्हादित एव दर्भपिञ्जलीभिरिति सूत्रयित्वा भूरिति
प्रथमम् सुवरिति द्वितीयम् । इत्येवं विनियोगममूषामसूत्रयिष्यत् नचैवम् ।
तस्मादनुमिमीमहे भूरिति प्रथम एवोन्नयने तिस्रोदर्भपिञ्जल्योव्यप्रियन्ते एवमु-
त्तरयोः। एवकारोऽत्र पक्षे करणान्तरव्यावृत्त्यर्थ इति चन्द्रकान्तभाष्यम् । मुरा-
रिमिश्रास्तु—दर्भपिञ्जलोभिरेवेत्येवकारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव
तिसृभिरित्यर्थः । प्रथमं द्वितीयं तृतीयमिति वचनं व्याहृतिपिञ्जल्योः पृथग्वि-
नियॊगप्रदर्शनार्थम् । अन्यथा मिलिताभिरहृत्योन्नयनं प्रसज्येत । तथा चैकैक-
याऽपि पिञ्जल्या एकैकमुन्नयनमिति ॥ ५॥
अथ वीरतरेण “येनादितेरि”—त्येतयर्चा ॥६॥
( मं०ब्रा०१।५।२ )
अथेति पूर्वप्रकृतार्थम् । वीरतरेणेति । वीरास्तरन्त्यनेनेति वीरतरः शरस्ते-
नेत्यर्थः । तथाच कर्म्मप्रदीपः—
“श्वाविच्छलाका शलली तथा वीरतरः शरः” इति ।
सीमन्तमुन्नयेदित्यनुषज्यते । तत्र मन्त्रमाह- “येनादितेरि”-ति । अनेन
मन्त्रेणेत्यर्थः । मन्त्रोयथा—
“येनादितेः सीमानं नयति प्रजापतिर्महते सौभाग्याय ।
तेनाहमस्यै सीमानं नयामि प्रजामस्यै जरदष्टिङ्कृणोमि” ॥ २ ॥
इति । अस्यार्थः । 'प्रजापतिः' कश्यपः । 'येन' वीरतरेण शरेण 'अदितेः'
देवमातुः 'सीमानम्' सीमन्तम्(१) । 'नयति' विनीतवान्(२) ( विवृतं कृत-
वान् ) किमर्थम ? 'महते' बृहते 'सौभाग्याय' सुभगतवाय । 'तेन' (३)शरेण
( १ ) नामैकदेशग्रहणे नामग्रहणं भीमोभीमसेन इतिवत् ॥
( २ ) नयतिरिह सोपसृष्टार्थे विनयेने वत्तॆते धातूनामनेकार्थत्वात् ॥
( ३ ) तेनेति "तादर्थ्यात्ताद्रूप्याच्च ताच्छब्द्यम्" इति हि न्यायः । तथाचेह "तदे-