सामग्री पर जाएँ
सर्वकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 217, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 217

१८४ सीमन्तोन्नयनम् । [ ३ प्रपाठके-
अथ सप्तमी कण्डिका -
( अथ सीमन्तोन्नयनम् )
अथ सीमन्तकरणम्प्रथमगर्भे ॥ १ ॥
अथ-पुंसवनसंस्कारानन्तरम् । सीमन्तकरणम् । “सीमन्तः केशवेशे
स्यात्” इत्यभिधानात्सीमन्तस्य केशरचनाविशेषस्य(१) वक्ष्यमाणविधिना
करणम् “वर्त्तिष्यते” इति सूत्रशेषः । तस्य कालमाह-प्रथमगर्भे इति । इदं हि
क्षेत्रसंस्कार(२)द्वाराऽपत्यसंस्कारकन्तेन सकृदेव कार्यम् । तथा च हारीतः—
“सकृत् कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतोभवेत् ॥”
इति । गृह्यसंग्रहेऽपि—
“यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता ।
एवमाद्यस्य संस्कारः संस्कारविधिचोदितः ॥”
इति । एव माश्वलायनगृह्यपरिशिष्टेऽपि-“सीमन्तोन्नयनं प्रथमे गर्